अध्यायः 253
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरम्प्रति दृष्टान्ततया विप्रकन्योपाख्यानकथनपूर्वकं विद्वत्संरक्षणस्य महाफलहेतुत्वकथनम् ॥ 1 ॥
युधिष्ठिर उवाच । 001
कृपया परया प्रोक्तः सर्वेषां पापकर्मणाम् । 001a
ज्ञानस्य च परस्येह तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच । 002
उपायोऽयं परप्राप्तौ परमः परिकीर्तितः । 002a
नारायणस्यानुध्यानमर्चनं यजनं स्तुतिः ॥ 002c
श्रवणं तत्कथानां च विद्वत्संरक्षणं तथा । 003a
विद्वच्छुश्रूषणप्रीतिरुपदेशानुपालनम् । 003c
स ध्यानेन जपेनाशु मुच्यते प्राकृतोपि वा ॥ 003e
जपश्चतुर्विधः प्रोक्तो वैदिकस्तान्त्रिकोपि च । 004a
पौराणिकोथ विद्वद्भिः कथितः स्मार्त एव च ॥ 004c
विद्वच्छुश्रूषया ज्ञानं विद्वत्संरक्षणेन च । 005a
नासाध्यं ज्ञानिनां किञ्चित्तस्माद्रक्ष्यास्त्वया द्विजाः ॥ 005c
सुव्रता बन्धुहीनैका वने पूर्वं यमेन तु । 006a
आसीदाश्वासिता विद्वत्संरक्षणफलात्किल ॥ 006c
विप्रस्य मरणे हेतुस्तत्पत्नी पितृशोकदा । 007a
वैश्या त्वमतिलाभोऽयं विप्रकन्येति साम्प्रतम् । 007c
इत्युक्ताऽऽश्वासिताऽपृच्छत्केनैवं पापसंयुता । 008a
जाता विप्रकुले सम्यक् श्रेयश्चापि ब्रवीहि मे ॥ 008c
यम उवाच । 009
अन्यजन्मनि विद्वांसं प्रहारैरभिपीडितम् । 009a
चोरशङ्काविमोक्षेण मोक्षयित्वा सुजन्मिका ॥ 009c
इत्युक्ताऽष्टाक्षरध्यानजपादिश्रेयसंयुता । 010a
यमेनानुगृहीताऽभूत्पुण्यलोकनिवासिनी ॥ 010c
तन्नित्यं विदुषां रक्षा तत्परोऽभूर्महीपते । 011a
तेषां संरक्षणात्सद्यः सर्वपापैः प्रमुच्यते ॥ ॥ 011c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 253 ॥