अध्यायः 251
अथ दानधर्मपर्व ॥ 1 ॥
महेश्वरेण मुनिगणान्प्रति श्रीकृष्णस्य वंशानुक्रमवर्णनपूर्वकं गुणगणानुवर्णनम् ॥ 1 ॥
ऋषय ऊचुः । 001
पिनाकिन्भगनेत्रघ्न सर्वलोकनमस्कृत । 001a
महात्म्यं वासुदेवस्य श्रोतुमिच्छाम शङ्कर ॥ 001c
ईश्वर उवाच । 002
पितामहादपि वरः शाश्वतः पुरुषो हरिः । 002a
कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः ॥ 002c
दशबाहुर्महातेजा देवतारिनिषूदनः । 003a
श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः ॥ 003c
ब्रह्मा तस्योदरभवस्तस्याहं च शिरोभवः । 004a
शिरोरुहेभ्यो ज्योतींषि रोमभ्यश्च सुराऽसुराः ॥ 004c
ऋषयो देहसम्भूतास्तस्य लोकाश्च शाश्वताः । 005a
पितामहगृहं साक्षात्सर्वदेवगृहं च सः ॥ 005c
सोस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः । 006a
संहर्ता चैव भूतानां स्थावरस्य चरस्य च ॥ 006c
स हि देववरः साक्षाद्देवनाथः परन्तपः । 007a
सर्वज्ञः सर्वसंश्लिष्टः सर्वगः सर्वतोमुखः ॥ 007c
परमात्मा हृषीकेशः सर्वव्यापी महेश्वरः । 008a
न तस्मात्परमं भूतं त्रिषु लोकेषु किञ्चन ॥ 008c
सनातनो वै मधुहा गोविन्द इति विश्रुतः । 009a
स सर्वान्पार्थिवान्सङ्ख्ये घातयिष्यति मानदः ॥ 009c
सुरकार्यार्थमुत्पन्नो मानुषं वपुरास्थितः । 010a
न हि देवगणाः शक्तास्त्रिविक्रमविनाकृताः ॥ 010c
भुवने देवकार्याणि कर्तुं नायकवर्जिताः । 011a
नायकः सर्वभूतानां सर्वदेवनमस्कृतः ॥ 011c
एतस्य देवनाथस्य देवकार्यपरस्य च । 012a
ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च ॥ 012c
ब्रह्मा वसति गर्भस्थः शरीरे सुखसंस्थितः । 013a
शर्वः सुखं संश्रितश्च शरीरे सुखसंस्थितः ॥ 013c
सर्वाः सुखं संश्रिताश्च शरीरे तस्य देवताः । 014a
स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः ॥ 014c
शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वज । 015a
उत्तमेन स शीलेन दमेन च शमेन च ॥ 015c
पराक्रमेण वीर्येण वपुषा दर्शनेन च । 016a
आरोहेण प्रमाणेन धैर्येणार्जवसम्पदा ॥ 016c
आनृशंस्येन रूपेण बलेन न समन्वितः । 017a
अस्त्रैः समुदितः सर्वैर्दिव्यैरद्भुतदर्शनैः ॥ 017c
योगमायः सहस्राक्षो निरपायो महामनाः । 018a
वीरो मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः ॥ 018c
क्षमावांश्चानहंवादी ब्रह्मण्यो ब्रह्मनायकः । 019a
भयहर्ता भयार्तानां मित्राणां नन्दिवर्धनः ॥ 019c
शरण्यः सर्वभूतानां दीनानां पालने रतः । 020a
श्रुतवानर्थसम्पन्नः सर्वभूतनमस्कृतः ॥ 020c
समाश्रितानां वरदः शत्रूणामपि धर्मवित् । 021a
नीतिज्ञो नीतिसम्पन्नो ब्रह्मवादी जितेन्द्रियः ॥ 021c
भवार्थमिह देवानां बुद्ध्या परमया युतः । 022a
प्राजापत्ये शुभे मार्गे मानवे धर्मसंस्कृते ॥ 022c
समुत्पत्स्यति गोविन्दो मनोर्वंशे महात्मनः । 023a
अङ्गो नाम मनोः पुत्रो अन्तर्धामा ततः परः ॥ 023c
अन्तर्धाम्नो हविर्धामा प्रजापतिरनिन्दितः । 024a
प्राचीनबर्हिर्भविता हविर्धाम्नः सुतो महान् ॥ 024c
तस्य प्रचेतःप्रमुखा भविष्यन्ति दशात्मजाः । 025a
प्राचेतसस्तथा दक्षो भवितेह प्रजापतिः ॥ 025c
दाक्षायण्यास्तथाऽऽदित्यो मनुरादित्यतस्तथा । 026a
मनोश्च वंशज इला सुद्युम्नश्च भविष्यति ॥ 026c
बुधात्पुरूरवाश्चापि तस्मादायुर्भविष्यति । 027a
नहुषो भविता तस्माद्ययातिस्तस्य चात्मजः ॥ 027c
यदुस्तस्मान्महासत्वः क्रोष्टा तस्माद्भविष्यति । 028a
क्रोष्टुश्चैव महान्पुत्रो वृजिनीवान्भविष्यति ॥ 028c
वृजिनीवतश्च भविता उषङ्गुरपराजितः । 029a
उषङ्गोर्भविता पुत्रः शूरश्चित्ररथस्तथा । 029c
तस्य त्ववरजः पुत्रः शूरो नाम भविष्यति ॥ 029e
तेषां विख्यातवीर्याणां चरित्रगुणशालिनाम् । 030a
यज्वनां सुविशुद्धानां वंशे ब्राह्मणसम्मते ॥ 030c
स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः । 031a
स्ववंशविस्तरकरं जनयिष्यति मानदः । 031c
वसुदेव इति ख्यातं पुत्रमानकदुन्दुभिम् ॥ 031e
तस्य पुत्रश्चतुर्बाहुर्वासुदेवो भविष्यति ॥ 032ac
दाता ब्राह्मणसत्कर्ता ब्रह्मभूतो द्विजप्रियः । 033a
राज्ञो मागधसंरुद्धान्मोक्षयिष्यति यादवः ॥ 033c
जरासन्धं तु राजानं निर्जित्य गिरिगह्वरे । 034a
सर्वपार्थिवरत्नाढ्यो भविष्यति स वीर्यवान् ॥ 034c
पृथिव्यामप्रतिहतो वीर्येण च भविष्यति । 035a
विक्रमेण च सम्पन्नः सर्वपार्थिवपार्थिवः ॥ 035c
शूरसेनेषु भूत्वा स द्वारकायां वसन्प्रभुः । 036a
पालयिष्यति गां देवीं विजित्य नयवित्सदा ॥ 036c
तं भवन्तः समासाद्य वाङ्भाल्यैरर्हणैर्वरैः । 037a
अर्चयन्तु यथान्यायं ब्रह्माणमिव शाश्वतम् ॥ 037c
यो हि मां द्रष्टुमिच्छेत ब्रह्माणं च पितामहम् । 038a
द्रष्टव्यस्तेन भगवान्वासुदेवः प्रतापवान् ॥ 038c
दृष्टे तस्मिन्नहं दृष्टो न मेऽत्रास्ति विचारणा । 039a
पितामहो वा देवेश इति वित्त तपोधनाः ॥ 039c
स यस्य पुण्डरीकाक्षः प्रीतियुक्तो भविष्यति । 040a
तस्य देवगणः प्रीतो ब्रह्मपूर्वो भविष्यति ॥ 040c
यश्च तं मानवे लोके संश्रयिष्यति केशवम् । 041a
तस्य कीर्तिर्जयश्चैव स्वर्गश्चैव भविष्यति ॥ 041c
धर्माणां देशिकः साक्षात्स भविष्यति धर्मभाक् । 042a
धर्मवद्भिः स देवेशो नमस्कार्यः सदोद्यतैः ॥ 042c
धर्म एव परो हि स्यात्तस्मिन्नभ्यर्चिते विभौ । 043a
सहि देवो महातेजाः प्रजाहितचिकीर्षया ॥ 043c
धर्मार्थं पुरुषव्याघ्र ऋषिकोटीः ससर्ज ह । 044a
ताः सृष्टास्तेन विभुना पर्वते गन्धमादने ॥ 044c
सनत्कुमारप्रमुखास्तिष्ठन्ति तपसाऽन्विताः । 045a
तस्मात्स वाग्मी धर्मज्ञो नमस्यो द्विजपुङ्गवाः ॥ 045c
दिवि श्रेष्ठो हि भगवान्हरिर्नारायणः प्रभुः । 046a
वन्दितो हि स वन्देत मानितो मानयीत च । 046c
अर्हितश्चार्हयेन्नित्यं पूजितः प्रतिपूजयेत् ॥ 046e
दृष्टः पश्येदहरहः संश्रितः प्रतिसंश्रयेत् । 047a
अर्चितश्चार्चयेन्नित्यं स देवो द्विजसत्तमाः ॥ 047c
एतत्तस्यानवद्यस्य विष्णोर्वै परमं व्रतम् । 048a
आदिदेवस्य महतः सज्जनाचरितं सदा ॥ 048c
भुवनेऽभ्यर्चितो नित्यं देवैरपि सनातनः । 049a
अभयेनानुरूपेण युज्यन्ते तमनुव्रताः ॥ 049c
कर्मणा मनसा वाचा स नमस्यो द्विजैः सदा । 050a
यत्नवद्भिरुपस्थाय द्रष्टव्यो देवकीसुतः ॥ 050c
एष वोऽभिहितो मार्गो मया वै मुनिसत्तमाः । 051a
तं दृष्ट्वा सर्वशो देवं दृष्टाः स्युः सुरसत्तमाः ॥ 051c
महावराहं तं देवं सर्वलोकपितामहम् । 052a
अहं चैव नमस्यामि नित्यमेव जगत्पतिम् ॥ 052c
तत्र च त्रितयं दृष्टं भविष्यति न संशयः । 053a
समस्ता हि वयं देवास्तस्य देहे वसामहे ॥ 053c
तस्य चैवाग्रजो भ्राता सिताद्रिनिचयप्रभः । 054a
हली बल इति ख्यातो भविष्यति धराधरः ॥ 054c
त्रिशिरास्तस्य दिव्यश्च शातकुम्भमयो द्रुमः । 055a
ध्वजस्तृणेन्द्रो देवस्य भविष्यति रथाश्रितः ॥ 055c
शिरो नागैर्महाभोगैः परिकीर्णं महात्मभिः । 056a
भविष्यति महाबाहोः सर्वलोकेश्वरस्य च ॥ 056c
चिन्तितानि समेष्यन्ति शस्त्राण्यस्त्राणि चैव ह । 057a
अनन्तश्च स एवोक्तो भगवान्हरिरव्ययः ॥ 057c
समादिष्टश्च विबुधैर्दर्शय त्वमिति प्रभो । 058a
सुपर्णो यस्य वीर्येण कश्यपस्यात्मजो बली । 058c
अन्तं नैवाशकद्द्रष्टुं देवस्य परमात्मनः ॥ 058e
स च शेषो विचरते परया वै मुदा युतः । 059a
अन्तर्वसति भोगेन परिरभ्य वसुन्धराम् ॥ 059c
य एव विष्णुः सोऽनन्तो भगवान्वसुधाधरः । 060a
यो रामः स हृषीकेशो योच्युतः स धराधरः ॥ 060c
तावुभौ पुरुषव्याघ्रौ दिव्यौ दिव्यपराक्रमौ । 061a
द्रष्टव्यौ माननीयौ च चक्रलाङ्गलधारिणौ ॥ 061c
एष वोऽनुग्रहः प्रोक्तो मया पुण्यस्तपोधनाः । 062a
यद्भवन्तो यदुश्रेष्ठं पूजयेयुः प्रयत्नतः ॥ ॥ 062c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 251 ॥
13-251-46 अर्हितः पुष्पधूपादिनार्चितः । पूजितः वाचा च महीकृतः ॥ 13-251-47 अर्चितः मनसा ध्यातः ॥ 13-251-55 तृणेन्द्रः तालद्रुमः ॥