अध्यायः 250
पार्वत्या महेश्वरम्प्रति स्त्रीधर्मकथनम् ॥ 1 ॥ नारदेन कृष्णम्प्रति उमामहेश्वरसंवादानुवादोपसंहारः ॥ 2 ॥
उमोवाच । 001
पतिमत्या दिवारात्रं वृत्तान्तं श्रूयतां शुभम् । 001a
पत्युः पूर्वं समुत्थाय प्रातःक्रम समाचरेत् ॥ 001c
पत्युर्भावं विदित्वा तु पश्चात्सम्बोधयेत्तु तम् । 002a
नित्यं पौर्वाह्णिकं कार्यं स्वयं कुर्याद्यथाविधि ॥ 002c
निवेद्य च तथाऽऽहारं यथा सम्पद्यतामिति । 003a
तथैव कुर्यात्तत्सर्वं यथा पत्युः प्रियं भवेत् ॥ 003c
यथा भर्ता तथा नारी गुरूणां प्रतिपद्यते ॥ 004ac
शुश्रूषापोषणविधौ पतिप्रियचिकीर्षया । 005a
भर्तुर्निष्क्रमणे कार्यं संस्मरेदप्रमादतः ॥ 005c
आगतं तु पतिं दृष्ट्वा सहसा परिचारणम् । 006a
स्वयं कुर्वीत सम्प्रीत्या कायश्रमहरं परम् ॥ 006c
पाद्यसनाभ्यां शयनैर्वाक्यैश्च हृदयप्रियैः । 007a
अतिथीनामागमेन प्रीतियुक्ता सदा भवेत् ॥ 007c
कर्मणा वचनेनापि तोषयेदतिथीन्सदा । 008a
मङ्गलं गृहशौचं च सर्वोपकरणानि च ॥ 008c
सर्वकालमवेक्षेत कारयन्ती च कुर्वती । 009a
धर्मकार्ये तु सम्प्राप्ते तद्वद्धर्मपरा भवेत् ॥ 009c
अर्थकार्ये पुनर्भर्तुः प्रमादालस्यवर्जिता । 010a
सा यत्नं परमं कुर्यात्तस्य साहाय्यकारणात् ॥ 010c
धुरन्धरा भवेद्भर्तुः साध्वी धर्मार्थयोः सदा । 011a
विहारकाले वै भर्तुर्ज्ञात्वा भावं हृदि स्थितम् ॥ 011c
अलङ्कृत्य यथायोगं मन्दहाससमन्वितम् । 012a
वाक्यैर्मधुरसंयुक्तैः स्मयन्ती तोषयेत्पतिम् ॥ 012c
कठोराणि न वाच्यानि अन्यथा प्रमदान्तरे । 013a
यस्यां कामी भवेद्भर्ता तस्याः प्रीतिकरी भवेत् ॥ 013c
अप्रमादं पुरस्कृत्य मनसा तोषयेत्पतिम् । 014a
अनन्तरमथान्येषां भोजनावेक्षणं चरेत् ॥ 014c
अनाथान्कृपणांश्चैव भिक्षुकांश्च तथैव च । 015a दासीदासबलीवर्दांश्चण्डालं च शुनस्तथा ।015c
पूजयेद्बलिभैक्षेण पत्युर्धर्मं विवर्धयेत् ॥ 015e
कुपितं वाऽर्थहीनं वा श्रान्तं वोपचरेत्पतिम् । 016a
यथा स तुष्टः स्वस्थश्च तथा सन्तोषयेत्पतिम् ॥ 016c
यथा कुटुम्बचिन्तायां विवादे वाऽर्थसञ्चये । 017a
आहूता तत्सहायार्थं तथा प्रियहितं वदेत् ॥ 017c
अप्रियं च हितं ब्रूयात्तस्य धर्मार्थकाङ्क्षया । 018a
एकान्तचर्याकथनं कलहं वर्जयेत्परैः ॥ 018c
बहिरालोकनं चैव मोहं व्रीडां च पैशुनम् । 019a
बह्वाशित्वं दिवास्वप्नमेवमादि विवर्जयेत् ॥ 019c
रहस्येकासनं साध्वी न कुर्यादात्मजैरपि । 020a
यद्यद्दद्यान्नियत्स्वेति न्यासवत्परिपालयेत् ॥ 020c
विस्मृतं वाऽपि यद्द्रव्यं प्रतिपद्यात्स्वशौचतः । 021a
यत्किञ्चित्पतिना दत्तं लब्ध्वा तत्सा सुखी भवेत् ॥ 021c
अतीवाज्ञामतीर्ष्यां च दूरतः परिवर्जयेत् । 022a
बालवद्वृद्धवद्भार्या सदैवानुचरेत्पतिम् ॥ 022c
भार्याया व्रतमित्येव कर्तव्यं सततं विभो । 023a
एतत्पतिव्रतावृत्तमुक्तं देव समासतः ॥ 023c
न च भोगे न चैश्वर्ये न सुखे न धने तथा । 024a
स्पृहा यस्यास्तथा भर्तुः सा नारीणां पतिव्रता ॥ 024c
पतिर्हि दैवतं स्त्रीणां पतिर्बन्धुः पतिर्गतिः । 025a
नान्यं गतिमहं पश्ये प्रमदाया यथा पतिः ॥ 025c
जातिष्वपि च वै स्त्रीत्वं विशिष्टं मे मतिः प्रभो । 026a
कायक्लेशेन महता पुरुषः प्राप्नुयात्फलम् । 026c
तत्सर्वं लभते नारी सुखेन पतिपूजया ॥ 026e
यथासुखं पतिमती सर्वं पत्यनुकूलतः । 027a
ईदृशं धर्मसाकल्यं पश्य त्वं प्रमदां प्रति । 027c
एतद्विसृज्य पच्यन्ते कुस्त्रियः पापमोहिताः ॥ 027c
तपश्चर्या च दानं च पतौ तस्याः समर्पितम् । 028a
रूपं कुलं यशस्तेजः सर्वं तस्मिन्प्रतिष्ठितम् ॥ 028c
एवं व्रतसमाचाराः स्ववृत्तेनैव शोभनाः । 029a
स्वभर्त्रा च समं गच्छेत्पुण्यलोकान्सुकर्मणा ॥ 029c
वृद्धो विरुपो बीभत्सो धनवान्निर्धनोऽपि वा । 030a
एवम्भूतोपि वै भर्ता स्त्रीणां भूषणमुत्तमम् ॥ 030c
आढ्यं वा रूपयुक्तं वा विरूपं धनवर्जितम् । 031a
या पतिं तोषयेत्साध्वी सा पत्नीनां विशिष्यते ॥ 031c
दरिद्रांश्च विरूपाश्च प्रमूढान्कुष्टसंयुतान् । 032a
पतीनुपचरेल्लोकानक्षयान्प्रतिपद्यते ॥ 032c
एवं प्रवर्तमानायाः पतिः पूर्वं म्रियेत चेत् । 033a
तदाऽनुमरणं गच्छेत्पुनर्धर्मं चरेत वा ॥ 033c
एतदेवं मया प्रोक्तं स्त्रियस्तु बहुधा स्मृताः । 034a
देवदानवगन्धर्वा मनुष्या इति नैकधा ॥ 034c
सौम्यशीलाः शुभाचाराः सर्वास्ताः सम्भवन्ति च । 035a
यथा शुभं प्रवक्ष्यामि स्त्रीणां धर्मं महेश्वर ॥ 035c
आसुर्यश्चैव पैशाच्यो राक्षस्यश्च भन्ति हि । 036a
तासां वृत्तमशेषेण श्रूयतां लोककारणात् ॥ 036c
न्यायतो वाऽन्यथा प्रोक्ता भावदोषसमन्विताः । 037a
भर्तॄनुपचरन्त्येव रागद्वेषबलात्कृताः ॥ 037c
स्वधर्मविमुखा भूत्वा प्रदूष्यन्ति यतस्ततः । 038a
प्रवृद्दविषया नित्यं प्रतिकूलं वदन्ति च ॥ 038c
अर्थान्विनाशयन्त्येवं न गृह्णन्ति हितं क्वचित् । 039a
स्वबुद्धिनिरता भूत्वा जीवन्ति च यथा तथा ॥ 039c
गुणवत्यः क्वचिद्भूत्वा पतिधर्मपरा इव । 040a
पुनर्भवन्ति पापिष्ठा विषमं वृत्तमास्थिताः ॥ 040c
अनवस्थितमर्यादा बहुवेषा व्यवस्थिताः । 041a
असन्तुष्टाश्च लुब्धाश्च ईर्ष्याक्रोधयुता भृशम् ॥ 041c
भोगप्रिया हितद्वेष्याः कामभोगपरायणाः । 042a
प्रायशोऽनृतभूयिष्ठा गुरूणां प्रतिलोमकाः ॥ 042c
एवंवृत्तसमाचारा आसुरं भावमाश्रिताः । 043a
अपकारपरा नित्यं सततं कलहप्रिया ॥ 043c
परुषा रुक्षवचना निर्घृणा निरपत्रपाः । 044a
निःस्नेहाः क्रोधनाश्चैव भर्तृपुत्रस्वबन्धुषु ॥ 044c
पतीन्व्यभिचरन्त्येव दुर्मार्गेण यथा तथा । 045a घोरा मांसप्रिया नित्यं हसन्ति च रुदन्ति च ।045c
अथवा भर्त्सिता देव निवृत्ताः स्वेषु कर्मसु । 046a
तथैवात्मवधं घोरं व्यवस्येयुर्न संशयः ॥ 046c
निर्दया निरनुक्रोशाः कुटुम्बार्थविलोपकाः । 047a
धर्मर्थरहिता घोराः सततं कुर्वते क्रियाः ॥ 047c
अनर्थे निपुणाः पापाः परप्राणेषु निर्दयाः । 048a
एवंयुक्तसमाचाराः स्त्रियः पैशाचमाश्रिताः ॥ 048c
अशुद्धा मलदिग्धाङ्ग्य पानमांसरता भृशम् । 049a अपरा मोहसंयुक्ता निर्लज्जा रोदनप्रियाः ।049c
वदन्त्यनृतवाक्यानि हसन्ति विलपन्ति च ॥ 049e
दुष्प्रसादा महाक्रोधाः स्वप्नशीला निरन्तरम् । 050a
तामस्यो नष्टतत्वार्था मन्दशीला महोदराः । 050c
भुञ्जते विविधं सिद्धं भोजनं तीव्रसम्भ्रमाः ॥ 050e
गुणरूपवयोयुक्तं पतिं कामिनमुत्तमम् । 051a
हित्वाऽन्येनैव गच्छन्ति सर्वधा भृशतापिताः ॥ 051c
निर्लज्जा धर्मसन्दिग्धाः प्रतिकूलाः समन्ततः । 052a
एवंरूपसमाचाराः स्त्रियो राक्षसमाश्रिताः ॥ 052c
एवंविधानां सर्वासां न परत्र महासुखम् । 053a
नरकाद्विप्रमुक्तानां मानुष्यं दुर्लभं भवेत् ॥ 053c
कष्टं तत्रापि भुञ्जन्ते स्वकृतं दुःखजं बहु । 054a
दरिद्राः क्लेशभूयिष्ठा विरूपाः कुत्सिताः परैः । 054c
विधवा दुर्भगा वाऽपि लभन्ते दुःखमीदृशम् ॥ 054e
शतवर्षसहस्राणि निरयं व्यभिचारिणी । 055a
व्रजेत्पतिं च पापेन संयोज्य स्वकुलं तथा ॥ 055c
एतद्विज्ञाय पतितं पुनश्चेद्धितमात्मनः । 056a
कुर्याद्भर्तारमाश्रित्य तथा धर्मवमाप्नुयात् ॥ 056c
अतिसंयान्ति ताल्ँलोकान्पुण्यान्परमशोभनान् । 057a
अवमत्य च याः पूर्वं पतिं दुष्टेन चेतसा ॥ 057c
वर्तमानास्च सततं भर्तॄणां प्रतिकूलतः । 058a
भर्त्रानुमरणं काले याः कुर्वन्ति तथाविधाः ॥ 058c
कामात्क्रोधाद्भयाल्लोभादपहास्या भवन्ति ताः । 059a
आदिप्रभृति कुस्त्रीणां तथाऽनुमरणं वृथा ॥ 059c
आदिप्रभृति या साध्वी पत्युः प्रियपरायणा । 060a
ऊर्ध्वं गच्छति सा पूता भर्त्राऽनुमरणं गता ॥ 060c
एवं मृताया वै लोकानहं पश्यामि चक्षुषा । 061a
स्पृहणीयान्सुरगणैर्यान्गच्छन्ति पतिव्रताः ॥ 061c
अथवा भर्तरि मृते वैधव्यं धर्ममाश्रिताः । 062a
तूष्णीं भौमं जले नित्यमञ्जलिस्नानमुत्तमम् । 062c
व्रतं च पतिमुद्दिश्य कुर्यश्चैव विधिं ततः ॥ 062e
एवं गच्छति सा नारी पतिलोकमनुत्तमम् । 063a
रमणीयमनिर्देश्यं दुष्प्रापं देवमानुषैः ॥ 063c
प्राप्नुयात्तादृशं लोकं केवलं या पतिव्रता । 064a
इति ते कथितं देव स्त्रीणां धर्ममनुत्तमम् ॥ 064c
भवतः प्रियकामिन्या यन्मयोक्तं तवाग्रतः । 065a
चापल्यान्मम देवेश तद्भवान्क्षन्तुमर्हति ॥ 065c
नारद उवाच । 066
एवं वदन्तीं रुद्राणीं लज्जाभावसमन्विताम् । 066a
प्रशशंस च देवेशो वाचा सञ्जनयन्प्रियम् ॥ 066c
ऋषयो देवगन्धर्वाः प्रमदाश्च सहस्रशः । 067a
प्रणम्य शिरसा देवीं स्तुतिभिश्चाभितुष्टुवुः ॥ 067c
पूजयामासुरपरे देवदेव मुदा युताः । 068a
संवादं चिन्तयन्त्यन्ते श्रद्दधानाः सुचेतसः ॥ 068c
ततस्तु देवदेवेशो देवीं वचनमब्रवीत् । 069a
शृणु कल्याणि मद्वाक्यं संवादोऽयं मया तव । 069c
पुण्यं पवित्रं ख्यातं च भविता नात्र संशयः ॥ 069e
य इमं श्रावयेद्विद्वान्संवादं चावयोः प्रिये । 070a
शुचिर्भूत्वा नरान्युक्तान्स तैः स्वर्गं व्रजेत्सुखम् ॥ 070c
यस्त्वेनं शृणुयान्नित्यं संवादं चावयोः शुभम् । 071a
कीर्तिमायुष्यमारोग्यं लभते स गतिं पराम् ॥ ॥ 071c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 250 ॥
13-250-59 सर्वाः पूता भवन्ति ता इति थ.पाठः ॥