अध्यायः 249
पार्वत्या परमेश्वरम्प्रति देवगन्धर्वादियोषितां मध्ये स्त्रीधर्मकथनम् ॥ 1 ॥
नारद उवाच । 001
एवं ब्रुवन्त्यां स्त्रीधर्मं देव्यां देवस्य शासनात् । 001a
ऋषिगन्धर्वयक्षाणां योषितश्चाप्सरोगणाः ॥ 001c
नागभूतस्त्रियश्चैव नद्यश्चैव समागताः । 002a
श्रुतुकामाः परं वाक्यं सर्वाः पर्यवतस्थिरे ॥ 002c
उमादेवी मुदा युक्ता पुज्यमानाऽङ्गनागणैः । 003a
आनृशंस्यपरा देवी सततं स्त्रीगणं प्रति ॥ 003c
स्त्रीगणस्य हितार्थाय भवप्रियचिकीर्षया । 004a
वक्तुं वचनमारेभे स्त्रीणां धर्माश्रयान्वितम् ॥ 004c
उमोवाच । 005
भगवन्सर्वभूतेश श्रूयतां वचनं मम । 005a
ऋतुप्राप्ता सुशुद्दा या कन्या सेत्यभिधीयते ॥ 005c
तां तु कन्यां पिता माता भ्राता मातुल एव वा । 006a
पितृव्यश्चैव पञ्चैते दातुं प्रभवतां गताः ॥ 006c
विवाहाश्च तथा पञ्च तासां धर्मार्थकारणात् । 007a
कामतश्च मिथो दानमितरेतरकाम्यया ॥ 007c
दत्ता यस्य भवेद्भार्या एतेषां येन केन चित् । 008a
दातारः सुविमृश्यैव दातुमर्हन्ति नान्यथा ॥ 008c
उत्तमानां तु वर्णानां मन्त्रवत्पाणिसङ्ग्रहः । 009a
विवाहकारणं चाहुः शूद्राणां सम्प्रयोगतः ॥ 009c
यदा दत्ता भवेत्कन्या तस्माद्भार्यार्थिने स्वकैः । 010a
तदाप्रभृति सा नारी दशरात्रं विलज्जया । 010c
मनसा कर्मणा वाचा अनुकूला च सा भवेत् ॥ 010e
इति भर्तृव्रतं कुर्यात्पतिमुद्दिश्य शोभना । 011a
तदाप्रभृति सा नारी न कुर्यात्पत्युरप्रियम् ॥ 011c
यद्यदिच्छति वै भर्ता ध्रमकामार्थकारणात् । 012a
तथैवानुप्रिया भूत्वा तथैवोपचरेत्पतिम् । 012c
पतिव्रतात्वं नारीणामेतदेव सनातनम् ॥ 012e
तादृशी सा भवेन्नित्यं यादृशस्तु भवेत्पतिः । 013a
शुभाशुभसमाचार एतद्वृत्तं समासतः ॥ 013c
दैवतं सततं साध्वी भर्तारं या तु पश्यति । 014a
दैवमेव भवेत्तस्याः पतिरित्यवगम्यते ॥ 014c
एतस्मिन्कारणं देव पौराणी श्रूयते श्रुतिः । 015a
कथयामि प्रसादात्ते शृणु देव समासतः ॥ 015c
कस्य चित्त्वथ विप्रस्य भार्ये द्वे हि बभूवतुः । 016a
तयोरेका धर्मकामा देवानुद्दिश्य भक्तितः ॥ 016c
भर्तारमवमत्यैव देवतासु समाहिता । 017a
चकार विपुलं धर्मं पूजयानाऽर्चयाऽन्वितम् ॥ 017c
अपरा धर्मकामा च पतिमुद्दिश्य शोभना । 018a
भर्तारं दैवतं कृत्वा चकार किल तत्प्रियम् ॥ 018c
एवं विवर्तमाने तु युगपन्मरणेऽध्वनि । 019a
गते किल महादेव तत्रैका या पतिव्रता । 019c
देवप्रियायां तिष्ठन्त्यां पुण्यलोकं जगाम सा ॥ 019e
देवप्रिया च तिष्ठन्ती विललाप सुदुःखिता । 020a
तां यमो लोकपालस्तु बभाषे पुष्कलं वचः ॥ 020c
मा शुचस्त्वं निवर्तस्व न लोकाः सन्ति तेऽनघे । 021a
स्वधर्मविमुखा सा त्वं तस्माल्लोका न सन्ति ते ॥ 021c
देवता हि पतिर्नार्याः स्थापिता सर्वदैवतैः । 022a
अवमत्य शुभे तत्त्वं कथं लोकान्गमिष्यसि ॥ 022c
मोहेन त्वं वरारोहे न जानीषे स्वदैवतम् । 023a
पतिमत्या स्त्रिया कार्यो धर्मः पत्यर्पणस्त्विति ॥ 023c
तस्मात्त्वं हि निवर्तस्व कुरु पत्याश्रितं हितम् । 024a
तदा गन्तासि लोकांस्तान्यान्गच्छन्ति पतिव्रताः । 024c
नान्यथा शक्यते प्राप्तुं पतीनां लोकमुत्तमम् ॥ 024e
यमेनैवंविधं चोक्ता निवृत्ता पुनरेव सा । 025a
बभूव पतिमालम्ब्य पतिप्रियपरायणा ॥ 025c
एवमेतन्महगादेव दैवतं हि स्त्रियाः पतिः । 026a
तस्मात्पतिपरा भूत्वा पतीनुपचरेदिति ॥ ॥ 026c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 249 ॥