अध्यायः 248
महेश्वरेण पार्वतीम्प्रति सश्लाघं स्त्रीधर्मकथनचोदना ॥ 1 ॥ पार्वत्या गङ्गादिमहानदीषु तन्निवेदनम् ॥ 2 ॥ गङ्गया तदनुमोदनपूर्वकं भगवति तत्कथनाभ्यनुज्ञानम् ॥ 3 ॥
नारद उवाच । 001
एवमुक्त्वा महादेवः श्रोतुकामः स्वयं प्रभुः । 001a
अनुकूलां प्रियां भार्यां पार्श्वस्थामभ्यभाषत ॥ 001c
महेश्वर उवाच । 002
परावरज्ञे धर्माणां तपोवननिवासिनाम् । 002a
दीक्षाविधिदमोपेते सततं व्रतचारिणि । 002c
पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम् ॥ 002e
सावित्री ब्रह्मणः पत्नी कौशिकस्य शची शुभा । 003a
लक्ष्मीर्विष्णोः प्रिया भार्या धृतिर्भार्या यमस्य तु ॥ 003c
मार्कण्डेयस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य तु । 004a
वरुणस्य प्रिया गौरी सवितुश्च सुवर्चला ॥ 004c
रोहिणी शशिनो भार्या स्वाहा चाग्नेरनिन्दिता । 005a
काश्यपस्यादितिश्चैव वसिष्ठस्याप्यरुन्धती ॥ 005c
एताश्चान्याश्च देव्यस्तु सर्वास्ताः पतिदेवताः । 006a
श्रूयन्ते लोकविख्यातास्त्वया चैव सहोषिताः ॥ 006c
ताभिश्च पूजिताऽपि त्वमनुवृत्त्यनुभाषणैः । 007a
तस्मात्तु परिपृच्छामि धर्मज्ञे लोकसम्मते ॥ 007c
स्त्रीधर्मं श्रोतुमिच्छामि त्वयैव समुदाहृतम् । 008a
सधर्मचारिणी मे त्वं लोकसन्धारिणी तथा ॥ 008c
अयं हि स्त्रीगणस्त्वां तु अनुयाति न मुञ्चति । 009a
त्वत्प्रसादाद्धितं श्रोतुं स्त्रीवृत्तं शुभलक्षणम् ॥ 009c
त्वया चोक्तं विशेषेण गुणभूतं हि तिष्ठति । 010a
स्त्रिय एव सदा लोके स्त्रीगणस्य गतिः प्रिये ॥ 010c
शश्वद्गौर्गोषु गच्छेत नान्यत्र रमते नरः । 011a
एवं लोकगतिर्देवि आदिप्रभृति वर्तते ॥ 011c
प्रमदोक्तं तु यत्किञ्चित्तत्स्त्रीषु बहुमन्यते । 012a
न तथा मन्यते स्त्रीषु पुरुषोक्तमनिन्दिते ॥ 012c
त्वयैष विदितो ह्यर्थः स्त्रीणां धर्मः सनातनः । 013a
तस्मात्त्वां प्रति पृच्छामि पृष्टा वद ममेप्सितम् ॥ 013c
नारद उवाच । 014
एवमुक्ता तदा देवी महादेवेन शोभना । 014a
सोद्वेगा च सलज्जा च नावदत्तत्र किञ्चन । 014c
पुनः पुनस्तदा देवी देवः किमिति चाब्रवीत् ॥ 014e
उमोवाच । 015
भगवन्देवदेवेश सुरासुरनमस्कृत । 015a
त्वदन्तिके मया वक्तुं स्त्रीणां धर्मः कथं भवेत् ॥ 015c
महेश्वर उवाच । 016
मन्नियोगादवश्यं तु वक्तव्यं तु मम प्रिये ॥ 016ac
उमोवाच । 017
इमा नद्यो महादेव सर्वतीर्थोदकान्विताः । 017a
उपस्पर्शनहेतोस्त्वां न त्यजन्ति समीपतः ॥ 017c
एताभिः सह सम्मन्त्र्य प्रवक्ष्यामि तवेप्सितम् । 018a
अयुक्तं सत्सु तन्त्रेषु तानतिक्रम्य भाषितुम् ॥ 018c
मया सम्मानिताश्चैव भविष्यन्ति सरिद्वराः ॥ 019ac
नारद उवाच । 020
इति मत्वा महादेवी नदीर्देवीः समाह्वयत् । 020a
विपाशां च वितस्त्यां च चन्द्रभागां सरस्वतीम् ॥ 020c
शतद्रुं देविक्तां सिन्धुं गौतमीं कौशिकीं तथा । 021a
यमुनां नर्मदां चैव कावेरीमथ निम्नगाम् ॥ 021c
तथा देवनदीं गङ्गां श्रेष्ठां त्रिपथगां शुभाम् । 022a
सर्वतीर्थोदकवहां सर्वपापविनाशिनीम् । 022c
एता नदीः समाहूय समुद्वीक्ष्येदमब्रवीत् ॥ 022e
उमोवाच । 023
हे पुण्याः सरितः श्रेष्ठाः सर्वपापविनाशिकाः । 023a
ज्ञानविज्ञानसम्पन्नाः शृणुध्वं वचनं मम ॥ 023c
अयं भगवता प्रश्न उक्तः स्त्रीधर्ममाश्रितः । 024a
न चैकया मया साद्यं तस्माद्वस्त्वानयाम्यहम् ॥ 024c
युष्माभिस्तद्विचार्यैवं वक्तुमिच्छामि शोभनाः । 025a
तत्कथं देवदेवाय वाच्यः स्त्रीधर्म उत्तमः ॥ 025c
नारद उवाच । 026
इति पृष्टास्तथा देव्या महानद्यश्चकम्पिरे । 026a
तासां श्रेष्ठतमा गङ्गा वचनं त्ववेमब्रवीत् ॥ 026c
धन्याश्चानुगृहीताः स्म अनेन वचनेन ते । 027a
या त्वं सुरासुरैर्मान्या नदीराद्रियसेऽनघे ॥ 027c
तवैवार्हति कल्याणि एवं सान्त्वप्रसादनम् । 028a
अशक्यमपि ये मूर्खाः स्वात्मसम्भावनायुताः । 028c
वाक्यं वदन्ति संसत्सु स्वयमेव यथेष्टतः ॥ 028e
शक्तो यश्चानहंवादी सुदुर्लभतमो मतः ॥ 029ac
त्वं हि शक्ता सती देवी वक्तुं प्रश्नमशेषतः । 030a
व्याहर्तुं नेच्छसि स्त्रीत्वात्सम्पूजयसि नस्तथा ॥ 030c
त्वं हि देवि महादेवी ऊहापोहविशारदा । 031a
दिव्यज्ञानयुता देवि दिव्यज्ञानेन्धनैधिता ॥ 031c
त्वमेवार्हसि तद्वक्तुं स्त्रीणां वृत्तं शुभाशुभम् । 032a
याचामहे वयं श्रोतुममृतं त्वन्मुखोद्गतम् । 032c
नारद उवाच । 033
एवं प्रसादिता देवी गङ्गया लोकपूज्यया । 033a
प्राह धर्ममशेषेण स्त्रीधर्मं सुरसुन्दरी ॥ 033c
उमोवाच । 034
भगवन्देवदेवेश सुरेश्वर महेश्वर । 034a
त्वत्प्रसादात्सुरश्रेष्ठ तवैव प्रियकाम्यया । 034c
तमहं कीर्तयिष्यामि यथावच्छ्रोतुमिच्छसि ॥ ॥ 034e
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 248 ॥