अध्यायः 247
महेश्वरेण पार्वतीम्प्रति स्वमाहात्म्यकथनपूर्वकं दीक्षया शिवलिङ्गार्चनाफलकथनम् ॥ 1 ॥
उमोवाच । 001
त्रियक्ष त्रिदशश्रेष्ठ त्र्यम्बक त्रिदशाधिप । 001a
त्रिपुरान्तक कामाङ्गहर त्रिपथगाधर ॥ 001c
दक्षयज्ञप्रशमन शूलपाणेऽरिसूदन । 002a
नमस्ते लोकपालेश लोकपालवरप्रद ॥ 002c
नैकशाखमपर्यन्तमध्यात्मज्ञानमुत्तमम् । 003a
अप्रतर्क्यमविज्ञेयं साङ्ख्ययोगसमन्वितम् ॥ 003c
भवता परिपृष्टेन शृण्वन्त्या मम भाषितम् । 004a
इदानीं श्रोतुमिच्छामि सायुज्यं त्वद्गतं विभो ॥ 004c
कथं परिचरन्त्येते भक्तास्त्वां परमेष्ठिनम् । 005a
आचारः कीदृशस्तेषां केन तुष्टो भवेद्भवान् । 005c
वर्ण्यमानं त्वया साक्षात्प्रीणयत्यधिकं हि मा ॥ 005e
महेश्वर उवाच । 006
हन्त ते कथयिष्यामि मम सायुज्यमद्भुतम् । 006a
येन ते न निवर्तन्ते युक्ताः परमयोगिनः ॥ 006c
अव्यक्तोऽहमचिन्त्योऽहं पूर्वैरपि मुमुक्षुभिः । 007a
साङ्ख्ययोगौ मया सृष्टौ सर्वं चापि चराचरम् ॥ 007c
अर्चनीयोऽहमीशोऽहमव्ययोऽहं सनातनः । 008a
अहं प्रसन्नो भक्तानां ददाम्यमरतामपि ॥ 008c
न मां विदुः सुरगणा मुनयश्च तपोधनाः । 009a
त्वत्प्रियार्थमहं देवि मद्विभूतिं ब्रवीमि ते ॥ 009c
आश्रमेभ्यश्चतुर्भ्योऽहं चतुरो ब्राह्मणाञ्शुभे । 010a
मद्भक्तान्निर्मलान्पुण्यान्समानीय तपस्विनः ॥ 010c
व्याचख्येऽहं तथा देवि योगं पाशुपतं महत् । 011a
गृहीतं तच्च तैः सर्वं मुखाच्च मम दक्षिणात् ॥ 011c
श्रुत्वा तत्त्रिषु लोकेषु स्थापितं चापि तैः पुनः । 012a
इदानीं च त्वया पृष्टो वदाम्येकमनाः शृणु ॥ 012c
अहं पशुपतिर्नाम मद्भक्ता ये च मानवाः । 013a
सर्वे पाशुपता ज्ञेया भस्मदिग्धतनूरुहाः ॥ 013c
रक्षार्थं मङ्गलार्थं च पवित्रार्थं च भामिनि । 014a
लिङ्गार्थं चैव भक्तानां भस्म दत्तं मया पुरा ॥ 014c
तेन सन्दिग्धसर्वाङ्गा भस्मना ब्रह्मचारिणः । 015a
जटिला मुण्डिता वाऽपि नानाकारशिखण्डिनः ॥ 015c
विकृताः पिङ्गलाभिश्च नग्ना नानाप्रकारिणः । 016a
भैक्षं चरन्तः सर्वत्र निःस्पृहा निष्परिग्रहाः ॥ 016c
मृत्पात्रहस्ता मद्भक्ता मन्निवेशितबुद्धयः । 017a
चरन्तो निखिलं लोकं मम हर्षविवर्धनाः ॥ 017c
मम पाशुपतं दिव्यं योगशास्त्रमनुत्तमम् । 018a
सूक्ष्मं सर्वेषु लोकेषु विमृशन्तश्चरन्ति ते ॥ 018c
एवं नित्याभियुक्तानां मद्भक्तानां तपस्विनाम् । 019a
उपायं चिन्तयाम्याशु येन मामुपयान्ति ते ॥ 019c
स्थापितं त्रिषु लोकेषु शिवलिङ्गं मया मम । 020a
नमस्कारेण वा तस्य मुच्यन्ते सर्वकिल्बिषैः ॥ 020c
इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः । 021a
शिवलिङ्गप्रणामस्य कलां नार्हन्ति षोडशीम् ॥ 021c
अर्चया शिवलिङ्गस्य परितुष्याम्यहं प्रिये । 022a
शिवलिङ्गार्चनायां तु विधानमपि मे शृणु ॥ 022c
गोक्षीरनवनीताभ्यामर्चयेद्यः शिवं मम । 023a
इष्टस्य हयमेधस्य यत्फलं तत्फलं भवेत् ॥ 023c
घृतमण्डेन यो नित्यमर्चयेद्यः शिवं मम । 024a
स फलं प्राप्नुयान्मर्त्यो ब्राह्मणस्याग्निहोत्रिणः ॥ 024c
केवलेनापि तोयेन स्नापयेद्यः शिवं मम । 025a
स चापि लभते पुण्यं प्रियं च लभते नरः ॥ 025c
सघृतं गुग्गुलु सम्यग्धूपयेद्यः शिवान्तिके । 026a
गोसवस्य तु यज्ञस्य यत्फलं तस्य तद्भवेत् ॥ 026c
यस्तु गुग्गुलपिण्डेन केवलेनापि धूपयेत् । 027a
तस्य रुक्मप्रधानस्य यत्फलं तस्य तद्भवेत् ॥ 027c
यस्तु नानाविधैः पुष्पैर्मम लिङ्गं समर्चयेत् । 028a
स हि धेनुसहस्रस्य दत्तस्य फलमाप्नुयात् । 028c
यस्तु देशान्तरं गत्वा शिवलिङ्गं समर्चयेत् । 029a
तस्मात्सर्वमनुष्येषु नास्ति मे प्रियकृत्तमः ॥ 029c
एवं नानाविधैर्द्रव्यैः शिवलिङ्गं समर्चयेत् । 030a
मत्समानो मनुष्येषु न पुनर्जायते नरः ॥ 030c
अर्चनाभिर्नमस्कारैरुपहारैः स्तवैरपि । 031a
भक्तो मामर्चयेन्नित्यं शिवलिङ्गेष्वतन्द्रितः ॥ 031c
पलाशबिल्वपत्राणि राजवृक्षस्रजं तथा । 032a
अर्कपुष्पाणि मेध्यानि मत्प्रियाणि विशेषतः ॥ 032c
फलं वा यदि वा शाकं पुष्पं वा यदि वा जलम् । 033a
दत्तं सम्प्रीणयेद्देवि भक्तैर्मद्गतमानसैः ॥ 033c
ममाभिपरितुष्टस्य नास्ति लोकेषु दुर्लभम् । 034a
तस्मात्ते सततं भक्ता मामेवाभ्यर्चयन्त्युत ॥ 034c
मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः । 035a
मद्भक्ताः सर्वलोकेषु पूजनीया विशेषतः ॥ 035c
मद्द्वेषिणश्च ये मर्त्या मद्भक्तद्वेषिणश्च वा । 036a
यान्ति ते नरकं घोरमिष्ट्वा क्रतुशतैरपि ॥ 036c
एतत्ते सर्वमाख्यातं योगं पाशुपतं महत् । 037a
मद्भक्तैर्मनुजैर्देवि श्राव्यमेतद्दिनेदिने ॥ 037c
शृणुयाद्यः पठेद्वाऽपि ममेदं धर्मनिश्चयम् । 038a
स्वर्गं कीर्तिं धनं धान्यं स लभेत नरोत्तमः ॥ 038c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 247 ॥