अध्यायः 246 महेश्वरेण पार्वतीम्प्रति योगनिरूपणपूर्वकं तत्फलप्रतिपादनम् ॥ 1 ॥
महेश्वर उवाच । 001
साङ्ख्यज्ञाने नियुक्तानां यथावत्कीर्तितं मया । 001a
योगधर्मं पुनः कृत्स्नं कीर्तयिष्यामि ते शृणु ॥ 001c
स च योगो द्विधा भिन्नो ब्रह्मिदेवर्षिसम्मतः । 002a
समानमुभयत्रापि वृत्तं शास्त्रप्रचोदितम् ॥ 002c
स चाष्टगुणमैश्वर्यमधिकृत्य विधीयते । 003a
सायुज्यं सर्वदेवानां योगधर्मं परं श्रिताः ॥ 003c
ज्ञानं सर्वस्य योगस्य मूलमित्यवधारय । 004a
व्रतोपवासनियमैस्तत्सर्वं चापि बृंहयेत् ॥ 004c
ऐकात्म्यं बुद्धिमनसोरिन्द्रियाणां च सर्वशः । 005a
आत्मनो वेदितं प्राज्ञे ज्ञानमेतत्तु योगिनाम् ॥ 005c
अर्चयेद्ब्राह्मणानग्निं देवतायतनानि च । 006a
वर्जयेदशिवं भावं सर्वसत्त्वमुपाश्रितः ॥ 006c
दानमध्ययनं श्रुद्धा व्रतानि नियमास्तथा । 007a
सत्यमाहारशुद्धिश्च शौचमिन्द्रियनिग्रहः । 007c
एतैश्च वर्धते तेजः पापं चाप्यवधूयते ॥ 007e
निर्धूतपापस्तेजस्वी लघ्वाहारो जितेन्द्रियः । 008a
अमोघो निर्मलो दान्तः पश्चाद्योगं समाचरेत् ॥ 008c
अवरुध्यात्मनः पूर्वं मत्स्यघात इवामिषम् । 009a
एकान्ते विजने देशे सर्वतः संवृते शुचौ । 009c
कल्पयेदासनं तत्र स्वास्तीर्णं मृदुभिः कुशैः ॥ 009e
उपविश्यासने तस्मिन्नृजुकायशिरोधरः । 010a
अव्यग्रः सुखमासीनः स्वाङ्गानि न विकम्पयेत् । 010c
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ 010e
मनोऽवस्थापनं देवि योगस्योपनिषद्भवेत् । 011a
तस्मात्सर्वप्रयत्नेन मनोऽवस्थापयेत्सदा ॥ 011c
त्वक्छ्रोत्रं च ततो जिह्वा घ्राणं चक्षुश्च संहरेत् । 012a
पञ्चेन्द्रियाणि सन्धाय मनसि स्थापयेद्बुधः ॥ 012c
सर्वं चापोह्य सङ्कल्पमात्मनि स्थापयेन्मनः । 013a
यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि ॥ 013c
प्राणापानौ तदा तस्य युगपत्तिष्ठतो वशे । 014a
प्राणे हि वशमापन्ने योगसिद्धिर्ध्रुवा भवेत् ॥ 014c
शरीरं चिन्तयेत्सर्वं विपाट्य च समीपतः । 015a
अन्तर्देहगतिं चापि प्राणानां परिचिन्तयेत् ॥ 015c
ततो मूर्धानमग्निं च शरीरं परिपालयेत् । 016a
प्राणो मूर्धनि च श्वासो वर्तमाने विचेष्टते ॥ 016c
सज्जस्तु सर्वभूतात्मा पुरुषः स सनातनः । 017a
मनो बुद्धिरहङ्कारो भूतानि विषयांश्च सः ॥ 017c
बस्तिर्मूलं गुदं चैव पावकं च समाश्रितः । 018a
वहन्मूत्रं पुरीषं च सदाऽपानः प्रवर्तते ॥ 018c
अतः प्रवृत्तिर्देहेषु कर्म चापानसंयुतम् । 019a
उदीरयन्सर्वधातूनत ऊर्ध्वं प्रवर्तते । 019c
उदान इति तं विद्युरध्यात्मकुशला जनाः ॥ 019e
सन्धौसन्धौ स निर्विष्टः सर्वचेष्टाप्रवर्तकः । 020a
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते ॥ 020c
धातुष्वग्नौ च विततः समानोऽग्निः समीरणः । 021a
स एव सर्वचेष्टानामन्तकाले निवर्तकः ॥ 021c
प्राणानां सन्निपातेषु संसर्गाद्यः प्रजायते । 022a
ऊष्मा सोग्निरिति ज्ञेयः सोन्नं पचति देहिनाम् ॥ 022c
अपानप्राणयोर्मध्ये व्यानोदानावुपाश्रितौ । 023a
समन्वितः समानेन सम्यक्पचति पावकः ॥ 023c
शरीरमध्ये नाभिः स्यान्नाभ्यामग्निः प्रतिष्ठितः । 024a
अग्नौ प्राणाश्च संयुक्ताः प्राणेष्वात्मा व्यवस्थितः ॥ 024c
पक्वाशयस्त्वधो नाभेरूर्ध्वमामाशयस्तथा । 025a
नाभिर्मध्ये शरीरस्य सर्वप्राणाश्च संश्रिताः ॥ 025c
स्थिताः प्राणादयः सर्वे तिर्यगूर्ध्वमधश्वराः । 026a
वहन्त्यन्नरसान्नाड्यो दशप्राणाग्निचोदिताः ॥ 026c
योगिनामेष मार्गस्तु पञ्चस्वेतेषु तिष्ठति । 027a
जितश्रमः समासीनो मूर्धन्यात्मानमादधेत् ॥ 027c
मूर्धन्यात्मानमाधाय भ्रुवोर्मध्ये मनस्तथा । 028a
सन्निरुध्य ततः प्राणानात्मानं चिन्तयेत्परम् ॥ 028c
प्राणे त्वपानं युञ्जीत प्राणांश्चापानकर्मणि । 029a
प्राणापानगती रुद्ध्वा प्राणायामपरो भवेत् ॥ 029c
एवमन्तः प्रयुञ्जीत पञ्च प्राणान्परस्परम् । 030a
विजने सम्मिताहारो मुनस्तूष्णीं निरुच्छ्वसन् ॥ 030c
अश्रान्तश्चिन्तयेद्योगी उत्थाय च पुनःपुनः । 031a
तिष्ठन्गच्छन्स्वपंश्चापि युञ्जीतैवमतन्द्रितः ॥ 031c
एवं नियुञ्जतस्तस्य योगिनो युक्तचेतसः । 032a
प्रसीदति मनः क्षिप्रं प्रसन्ने दृश्यते परम् ॥ 032c
विधूम इव दीप्तोऽग्निरादित्य इव रश्मिवान् । 033a
वैद्युतोऽग्निरिवाकाशे पुरुषो दृश्यतेऽव्ययः ॥ 033c
दृष्ट्वा तदात्मनो ज्योतिरैश्वर्याष्टगुणैर्युतः । 034a
प्राप्नोति परमं स्थानं स्पृहणीयं सुरैरपि ॥ 034c
इमान्योगस्य दोषांश्च दशैव परिचक्षते । 035a
दोषैर्विघ्ने वरारोहे योगिनां कविभिः स्मृताः ॥ 035c
कामः क्रोधो भयं स्वप्नः स्नेहमत्यशनं तथा । 036a
वैचित्यं व्याधिरालस्यं लोभं च दशमं स्मृतम् ॥ 036c
एतैस्तेषां भवेद्विघ्नो दशभिर्देवकारितैः । 037a
तस्मादेतानपास्यादौ युञ्जीत च परं मनः ॥ 037c
इमानपि गुणानष्टौ योगस्य परिचक्षते । 038a
गुणैस्तैरष्टभिर्द्रव्यमैश्वर्यमधिगम्यते ॥ 038c
अणिमा महिमा चैव प्राप्तिः प्राकाम्यमेव हि । 039a
ईशित्वं च वशित्वं च यत्र कामावसायिता ॥ 039c
एतानष्टौ गुणान्प्राप्य कथञ्चिद्योगिनां वराः । 040a
ईशाः सर्वस्य लोकस्य देवानप्यतिशेरते ॥ 040c
योगोस्ति नैवात्यशिनो न चैकान्तमनश्नतः । 041a
न चातिस्वप्नशीलस्य नातिजागरतस्तथा ॥ 041c
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । 042a
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ 042c
अनेनैव विधानेन सायुज्यं तत्प्रकल्प्यते । 043a
सायुज्यं देवसात्कृत्वा प्रयुञ्जीतात्मभक्तितः ॥ 043c
अनन्यमनसा देवि नित्यं तद्गतचेतसा । 044a
सायुज्यं प्राप्यते देवैर्यत्नेन महता चिरात् ॥ 044c
हविर्भिरर्चनैर्होमैः प्रणामैर्नित्यचिन्तया । 045a
अर्चयित्वा यथाशक्ति स्वकं देशं विशन्ति ते ॥ 045c
सायुज्यानां विशिष्टं च मामकं वैष्णवं तथा । 046a
मां प्राप्य न निवर्तन्ते विष्णुं वा शुभलोचने ॥ 046c
इति ते कथितो देवि योगधर्मः सनातनः । 047a
न शक्यः प्रष्टुमन्येन योगधर्मस्त्वया विना ॥ ॥ 047c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 246 ॥
13-246-15 निपात्य चेति ङ.पाठः ॥