अध्यायः 245

महेश्वरेण पार्वतीम्प्रति साङ्ख्यज्ञानप्रतिपादनपूर्वकमव्यक्तादिचतुर्विंशतितत्वानामुत्पत्तिप्रकारादिकथनम् ॥ 1 ॥ तथा सत्त्वादिगुणानां कार्यविशेषनिरूपणम् ॥ 2 ॥ तथा भूतपञ्चकादिगुणप्रतिपादनम् ॥ 3 ॥

महेश्वर उवाच । 001
साङ्ख्यज्ञानं प्रवक्ष्यामि यथावत्ते शुचिस्मिते । 001a
यज्ज्ञात्वा न पुनर्मर्त्यः संसारेषु प्रवर्तते ॥ 001c
ज्ञानेनैव विमुक्तास्ते साङ्ख्याः सन्न्यासकोविदाः । 002a
शरीरं तु तपो घोरं साङ्ख्याः प्राहुर्निरर्थकम् । 002c
पञ्चविंशतिकं ज्ञानं तेषां ज्ञानमिति स्मृतम् । 003a
मूलप्रकृतिरव्यक्तमव्यक्ताज्जायते महान् ॥ 003c
महतोऽभूदहङ्कारस्तस्मात्तन्मात्रपञ्चकम् । 004a
इन्द्रियाणि दशैकं च तन्मात्रेभ्यो भवन्त्युत ॥ 004c
तेभ्यो भूतानि पञ्चास्य शरीरं यैः प्रवर्तते । 005a
इति क्षेत्रस्य सङ्क्षेपं चतुर्विंशतिरिष्यते । 005c
पञ्चविंशतित्याहुः पुरुषेणेह सङ्ख्यया ॥ 005e
सत्वं रजस्तमश्चेति गुणाः प्रकृतिसम्भवाः । 006a
तैः सृजत्यखिलं लोकं प्रकृतिः स्वात्मकैर्गुणैः ॥ 006c
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । 007a
विकाराः प्रकृतेश्चैते वेदितव्या मनीषिभिः ॥ 007c
लक्षणं चापि सर्वेषां विकल्पं चादितः पृथक् । 008a
विस्तरेणैव वक्ष्यामि तस्य व्याख्यामहं शृणु ॥ 008c
नित्यमेकमणु व्यापि क्रियाहीनमहेतुकम् । 009a
अग्राह्यमिन्द्रियैः सर्वैरेतदव्यक्तलक्षणम् ॥ 009c
अव्यक्तं प्रकृतिर्मूलं प्रधानं योनिरव्ययम् । 010a
अव्यक्तस्यैव नामानि शब्दैः पर्यायवाचकैः ॥ 010c
तत्सूक्ष्मत्वादनिर्देश्यं तत्सदित्यभिधीयते । 011a
तन्मूलं च जगत्सर्वं तन्मूला सृष्टिरिष्यते ॥ 011c
सत्वादयः प्रकृतिजा गुणास्तान्प्रब्रवीम्यहम् ॥ 012ac
सुखं तुष्टिः प्रकाशश्च त्रयस्ते सात्विका गुणाः । 013a
रागद्वेषौ सुखं दुःखं स्तम्भश्च रजसो गुणाः । 013c
अप्रकाशो भयं मोहस्तन्द्री च तमसो गुणाः ॥ 013e
श्रद्धा प्रहर्षो विज्ञानमसम्मोहो दया धृतिः । 014a
सत्वे प्रवृत्ते वर्धन्ते विपरीते विपर्ययः ॥ 014c
कामक्रोधौ मनस्तापो लोभो मोहस्तथामृषा । 015a
प्रवृद्धे परिवर्धन्ते रजस्येतानि सर्वशः ॥ 015c
विषादः संशयो मोहस्तन्द्री निद्रा भयं तथा । 016a
तमस्येतानि वर्धन्ते प्रवृद्धे हेत्वहेतुकम् ॥ 016c
एवमन्योन्यमेतानि वर्धन्ते च पुनःपुनः । 017a
हीयन्ते च तथा नित्यमभिभूतानि भूरिशः ॥ 017c
तत्र यत्प्रीतिसंयुक्तं कायेन मनसाऽपि वा । 018a
वर्तते सात्विको भाव इत्युपेक्षेत तत्तथा ॥ 018c
यदा सन्तापसंयुक्तं चित्तक्षोभकरं भवेत् । 019a
वर्तते रज इत्येव तदा तदभिचिन्तयेत् ॥ 019c
यदा सम्मोहसंयुक्तं यद्विषादकरं भवेत् । 020a
अग्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ 020c
समासात्सात्विको धर्मः समासाद्राजसं धनम् । 021a
समासात्तामसः कामस्त्रिवर्गे त्रिगुणाः क्रमात् ॥ 021c
ब्रह्मादिदेवसृष्टिर्या सात्विकीति प्रकीर्त्यते । 022a
राजसी मानवी सृष्टिस्तिर्यग्योनिस्तु तामिसी ॥ 022c
ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः । 023a
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ 023c
देवमानुषतिर्यक्षु यद्भूतं सचराचरम् । 024a
आदिप्रभृति संयुक्तं व्याप्तमेभिस्त्रिभिर्गुणैः ॥ 024c
अतः परं प्रवक्ष्यामि महदादीनि लिङ्गतः । 025a
विज्ञानं च विवेकश्च महतो लक्षणं भवेत् ॥ 025c
महान्बुद्धिर्मतिः प्रज्ञा नामानि महतो विदुः । 026a
अहङ्कारः स विज्ञेयो लक्षणेन समासतः ॥ 026c
अहङ्कारेण भूतानां सर्गो नानाविधो भवेत् । 027a
अहङ्कारनिवृत्तिर्हि निर्वाणायोपपद्यते ॥ 027c
खं वायुरग्निः सलिलं पृथिवी चेति पञ्चमी । 028a
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ॥ 028c
शब्दः श्रोत्रं तथा खानि त्रयमाकाशसम्भवम् । 029a
स्पर्शवत्प्राणिनां चेष्टा पवनस्य गुणाः स्मृताः ॥ 029c
रूपं पाकोक्षिणी ज्योतिश्चत्वारस्तेजसो गुणाः । 030a
रसः स्नेहस्तथा जिह्वा शैत्यं च जलजा गुणाः ॥ 030c
गन्धो घ्राणं शरीरं च पृथिव्यास्ते गुणास्त्रयः । 031a
इति सर्वगुणा देवि विख्याताः पाञ्चभौतिकाः ॥ 031c
गुणान्पूर्वस्यपूर्वस्य प्राप्नुवन्त्युत्तराणि तु । 032a
तस्मान्नैकगुणाश्चेह दृश्यन्ते भूतसृष्टयः ॥ 032c
उपलभ्याप्सु ये गन्धं केचिद्ब्रूयुरनैपुणाः । 033a
अपां गन्धगुणं प्राज्ञा नेच्छन्ति कमलेक्षणे ॥ 033c
तद्गन्धत्वमपां नास्ति पृथिव्या एव तद्गुणः । 034a
भूमिर्गन्धे रसे स्नेहो ज्योतिश्चक्षुषि संस्थितम् । 034c
प्राणापानाश्रयोः वायुः खेष्वाकाशः शरीरिणां ॥ 034e
केशास्थिनखदन्तत्वक्पाणिपादशिरांसि च । 035a
पृष्ठोदरकटिग्रीवाः सर्वं भूम्यात्मकं स्मृतम् ॥ 035c
यत्किञ्चिदपि कायेऽस्मिन्धातुदोषमलाश्रितम् । 036a
तत्सर्वं भौतिकं विद्धि देहैरेवास्य स्वामिकम् ॥ 036c
बुद्धीन्द्रियाणि कर्णत्वक्चक्षुर्जिह्वाऽथ नासिका । 037a
कर्मेन्द्रियाणि वाक्पाणिपादौ मेढ्रं गुदस्तथा ॥ 037c
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । 038a
बुद्धीन्द्रियार्थाञ्जानीयाद्भूतेभ्यस्त्वभिनिःसृतान् ॥ 038c
वाक्यं क्रिया गतिः प्रीतिरुत्सर्गश्चेति पञ्चधा । 039a
कर्मेन्द्रियार्थाञ्जानीयात्ते च भूतोद्भवा मताः ॥ 039c
इन्द्रियाणां तु सर्वेषामीश्वरं मन उच्यते । 040a
प्रार्थनालक्षणं तच्च इन्द्रियं तु मनः स्मृतम् ॥ 040c
नियुङ्क्ते च सदा तानि भूतानि मनसा सह । 041a
नियमे च विसर्गे च मनसः कारणं प्रभुः ॥ 041c
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना धृतिः । 042a
भूताभूतविकारश्च शरीरमिति संस्मृतम् ॥ 042c
शरीराच्च परो देही शरीरं च व्यपाश्रितः । 043a
शरीरिणः शरीरस्य सोऽन्तरं वेत्ति वै मुनिः ॥ 043c
रसः स्पर्शस्च गन्धश्च रूपं शब्दविवर्जितम् । 044a
अशरीरं शरीरेषु दिदृक्षेत निरिन्द्रियम् । 044c
अव्यक्तं सर्वदेहेषु मर्त्येष्वमरमाश्रितम् । 045a
यः पश्येत्परमात्मानं बन्धनैः स विमुच्यते ॥ 045c
नैवायं चक्षुषां ग्राह्यो नापरैरिन्द्रियैरपि । 046a
मनसैव प्रदीप्तेन महानात्मा प्रदृश्यते ॥ 046c
स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च । 047a
वसत्येको महावीर्यो नानाभावसमन्वितः ॥ 047c
नैव चोर्ध्वं न तिर्यक्च नाधस्तान्न कदाचन । 048a
इन्द्रियैरिव बुद्ध्या वा न दृश्येत कदाचन ॥ 048c
नवद्वारं पुरं गत्वा स्थितोऽसौ नियतो वशी । 049a
ईश्वरः सर्वलोकेषु स्थावरस्य चरस्य च ॥ 049c
तमेवाहुरणुभ्योऽणुं तं महद्भ्यो महत्तरम् । 050a
बहुधा सर्वभूतानि व्याप्य तिष्ठति शाश्वतम् ॥ 050c
क्षेत्रज्ञमेकतः कृत्वा सर्वं क्षेत्रमथैकतः । 051a
एवं स विमृशेज्ज्ञानी संयतः सततं हृदि ॥ 051c
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् । 052a
अकर्ता लेपको नित्यो मध्यस्थः सर्वकर्मणाम् ॥ 052c
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । 053a
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ 053c
अजय्योऽयमचिन्त्योऽयमव्यक्तोऽयं सनातनः । 054a
देही तेजोमयो देहि तिष्ठतीत्यपरे विदुः ॥ 054c
ज्ञानमूष्मा च वायुश्च शरीरे जीवसञ्ज्ञकः । 055a
इत्येते निश्चिता बुद्ध्या तत्रैते बुद्धिचिन्तकाः ॥ 055c
अपरे सर्वलोकांश्च व्याप्य तिष्ठन्तमीश्वरम् । 056a
ब्रुवते केचिदत्रैव तिलतैलवदास्थितम् ॥ 056c
अपरे नास्तिका मूढा हीनत्वात्स्थूललक्षणैः । 057a
नास्त्यात्मेति विनिश्चित्याप्रज्ञास्ते निरयालयाः ॥ 057c
एवं नानाविधा नैव विमृशन्ति महेश्वरम् ॥ 058ac
उमोवाच । 059
भगवन्ब्राह्मणो लोके नित्यमक्षरमव्ययम् । 059a
अस्त्यात्मा सर्वभूतेषु हेतुस्तत्र सुदुर्गमः ॥ 059c
महेश्वर उवाच । 060
ऋषिभिश्चापि देवैश्च व्यक्तमेष न दृश्यते । 060a
दृष्ट्वा तु तं महात्मानं पुनस्तु न निवर्तते ॥ 060c
तस्मात्तद्दर्शनादेव विन्दते परमां गतिम् । 061a
इति ते कथितो देवि साङ्ख्यधर्मः सनातनः । 061c
कपिलादिभिराचार्यैः सेवितः परमर्षिभिः ॥ ॥ 061e

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 245 ॥

13-245-59 अस्त्यात्मा सर्वदेहेष्विति ङ. पाठः ॥