अध्यायः 244
महेश्वरेण पार्वतीम्प्रति जरामरणतारणस्य निर्वाणैकसाध्यत्वोक्त्या तस्य ज्ञानैकसाध्यत्वप्रतिपादनेनेन्द्रियनिग्रहादिना वैराग्यस्य तत्कारणत्वोक्तिः ॥ 1 ॥
महेश्वर उवाच । 001
शोकव्याधिजरादुःखैर्निर्वाणं नोपपद्यते ॥ 001a अनुद्विग्नमतेर्जन्तोरस्मिन्संसारमण्डले ।001c
तस्मादुद्वेगजननं मनोऽवस्थानपं तथा । 002a
ज्ञानं ते सम्प्रवक्ष्यामि तन्मूलममृतं हि वै ॥ 002c
शोकस्थानसहस्राणि भयस्थानशतानि च । 003a
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥ 003c
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते । 004a
अहो दुःखमिति ध्यायञ्शोकस्य पदमाव्रजेत् ॥ 004c
द्रव्येषु समतीतेषु ये शुभास्तान्न चिन्तयेत् । 005a
ताननाद्रियमाणस्य शोकबन्धः प्रणश्यति ॥ 005c
सम्प्रयोगादनिष्टस्य विप्रयोगात्प्रियस्य च । 006a
मानुषा मानसैर्दुःखैः संयुज्यन्तेऽल्पबुद्धयः ॥ 006c
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति । 007a
सन्तापेन च युज्येत तच्चास्य न निवर्तते ॥ 007c
उत्पन्नमिह मानुष्ये गर्भप्रभृति मानवम् । 008a
विविधान्युपवर्तन्ते दुःखानि च सुखानि च ॥ 008c
तयोरेकतरो मार्गो यद्येनमभिसन्नमेत् । 009a
सुखं प्राप्य न संहृष्येन्न दुःखं प्राप्य सञ्ज्वरेत् ॥ 009c
दोषदर्शी भवेत्तत्र यत्र स्नेहः प्रवर्तते । 010a
अनिष्टेनान्वितं पश्येद्यथा क्षिप्रं विरज्यते ॥ 010c
यथा काष्ठं च काष्ठं च समेयातां महोदधौ । 011a
समेत्य च व्यपेयातां तद्वज्ज्ञातिसमागमः ॥ 011c
अदर्शनादापतिताः पुनश्चादर्शनं गताः । 012a
स्नेहस्तत्र न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥ 012c
कुटुम्बपुत्रदारांश्च शरीरं धनसञ्चयम् । 013a
ऐश्वर्यं स्वस्तिता चेति न मुह्येत्तत्र पण्डितः ॥ 013c
सुखमेकान्ततो नास्ति शक्रस्यापि त्रिविष्टपे । 014a
तत्रापि सुमहद्दुःखं न नित्यं लभते सुखम् ॥ 014c
सुखस्यान्तरं दुःखं दुःखस्यानन्तरं सुखम् । 015a
क्षयान्ता निचयाः सर्वे पतनान्ताः समुच्छ्रयाः ॥ 015c
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् । 016a
उच्छ्रयांश्च निपातांश्च दृष्ट्या प्रत्यक्षतस्त्रयम् । 016c
अनित्यमसुखं चेति व्यवस्येत्सर्वमेव च ॥ 016e
अर्थानामार्जने दुःखमार्जितानां तु रक्षणे । 017a
नाशे दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम् ॥ 017c
अर्थवन्तं नरं नित्यं पञ्चाभिघ्नन्ति शत्रवः । 018a
राजा चोरश्च दायादा भूतानि क्षय एव च ॥ 018c
अर्थमेव ह्यनर्थस्य मूलमित्यवधारय । 019a
न ह्यनर्थाः प्रबाधन्ते नरमर्थविवर्जितम् ॥ 019c
अर्थप्राप्तिर्महद्दुःखमाकिञ्चिन्यं परं सुखम् । 020a
उपद्रवेषु चार्थानां दुःखं हि नियतं भवेत् ॥ 020c
धनलोभेन तृष्णाया न तृप्तिरुपलभ्यते । 021a
लब्धाश्रयो विवर्धेत समिद्ध इव पावकः ॥ 021c
जित्वाऽपि पृथिवीं कृत्स्नां चतुःसागरमेखलाम् । 022a
सागराणां पुनः पारं जेतुमिच्छत्यसंशयम् ॥ 022c
अलं परिग्रहेणेह दोषवान्हि परिग्रहः । 023a
कोशकारः क्रिमिर्देवि बध्यते हि परिग्रहात् ॥ 023c
एकोऽपि पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति च । 024a
एकस्मिन्नेव राष्ट्रे तु स चापि निवसेन्नृपः ॥ 024c
तस्मिन्राष्ट्रेऽपि नगरमेकमेवाधितिष्ठति । 025a
नगरेऽपि गृहं चैकं भवेत्तस्य निवेशनम् ॥ 025c
एक एव प्रतिष्ठः स्यादावासस्तद्गृहेऽपि च । 026a
आवासे शयनं चैकं निशि यत्र प्रलीयते ॥ 026c
शयनस्यार्धमेवास्य स्त्रियाश्चार्धं विधीयते । 027a
तदनेन प्रसङ्गेन स्वल्पेनैव हि युज्यते ॥ 027c
सर्वं ममेति सम्मूढो बलं पश्यति बालिशः । 028a
एवं सर्वोपयोगेषु स्वल्पमस्य प्रयोजनम् ॥ 028c
तण्डुलप्रस्थमात्रेण यात्रा स्यात्सर्वदेहिनाम् । 029a
ततो भूयस्तरो योगो दुःखाय तपनाय च ॥ 029c
नास्ति तृष्णासमं दुःखं नास्ति त्यागसमं सुखम् । 030a
सर्वान्कामान्परित्यज्य ब्रह्मभूयाय कल्पते ॥ 030c
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । 031a
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ 031c
न जातु कामः कामानामुपभोगेन शाम्यति । 032a
हविषा कुष्णवर्त्मेव भूय एवाभिवर्धते ॥ 032c
आयासविटपस्तीव्रः कामाग्निः कर्षणारणिः । 033a अलाभेनैव कामानां शोकं त्यजति पण्डितः ।033c
इन्द्रियार्थैश्च सम्मोह्य दहत्यकुशलं जनम् ॥ 033e
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । 034a
नालमेकस्य पर्याप्तमिति पश्यन्न मुह्यति ॥ 034c
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । 035a
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ 035c
इन्द्रियाणीन्द्रियार्थेषु नैव धीरो नियोजयेत् । 036a
मनःषष्ठानि संयम्य नित्यमात्मनि योजयेत् ॥ 036c
इन्द्रियाणां विसर्गेण दोषमृच्छत्यसंशयम् । 037a
सन्नियम्य नु तान्येव ततः सिद्धिमवाप्नुयात् ॥ 037c
षण्णामात्मनि युक्तानामैश्वर्यं योऽधिगच्छति । 038a
न च पापैर्न चानर्थैः संयुज्येत विचक्षणः ॥ 038c
अप्रमत्तः सदा रक्षेदिन्द्रियाणि विचक्षणः । 039a
अरक्षितेषु तेष्वाशु नरो नरकमेति हि ॥ 039c
हृदि काममयश्चित्रो मोहसञ्चयसम्भवः । 040a
अज्ञानरूढमूलस्तु विवित्सापरिषेचनः ॥ 040c
रोषलोभमहास्कन्धः पुरा दुष्कृतसारवान् । 041a
आयासविटपस्तीव्रशोकपुष्पो भयाङ्कुरः ॥ 041c
नानासङ्कल्पपत्राढ्यः प्रमादात्परिवर्धितः । 042a
महतीभिः पिपासाभिः समन्तात्परिवेष्टितः ॥ 042c
संरोहत्यकृतप्रज्ञे पादपः कामसम्भवः । 043a
नैव रोहति तत्वज्ञे रूढो वा छिद्यते पुनः ॥ 043c
कृच्छ्रोपायेष्वनित्येषु निःसारेषु फलेषु च । 044a
दुःखादिषु दुरन्तेषु कामयोगेषु का रतिः ॥ 044c
इन्द्रियेषु च जीर्यत्सु च्छिद्यमाने तताऽऽयुषि । 045a
पुरस्ताच्च स्थिते मृत्यौ किं सुखं पश्यतासुखे ॥ 045c
व्याधिभिः पीड्यमानस्य नित्यं शारीरमानसैः । 046a
नरस्याकृतकृत्यस्य किं सुखं मरणे सति ॥ 046c
सञ्चिन्वानं तमेवार्थं कामानामवितृप्तकम् । 047a
व्याघ्रः पशुमिवारण्ये मृत्युरादाय गच्छति ॥ 047c
जन्ममृत्युजरादुःखैः सततं समभिद्रुतः । 048a
संसारे पच्यमानस्तु पापान्नोद्विजते जनः ॥ 048c
उमोवाच । 049
केनोपायेन मर्त्यानां निवर्त्येते जरान्तकौ । 049a
यद्यस्ति भगवन्मह्यमेतदाचक्ष्व माचिरम् ॥ 049c
तपसा वा सुमहता कर्मणा वा श्रुतेन वा । 050a
रसायनप्रयोगैर्वा केनात्येति जरान्तकौ ॥ 050c
महेश्वर उवाच । 051
नैतदस्ति महाभागे जरामृत्युनिवर्तनम् । 051a
सर्वलोकेषु जानीहि मोक्षादन्यत्र भामिनि ॥ 051c
न धनेन न राज्येन नोग्रेण तपसाऽपि वा । 052a
मरणं नातितरते विना मुक्त्या शरीरिणः ॥ 052c
अश्वमेधसहस्राणि वाजपेयशतानि च । 053a
न तरन्ति जरामृत्यू निर्वाणाधिगमाद्विना ॥ 053c
ऐस्वर्यं धनधान्यं च विद्यालाभस्तपस्तथा । 054a
रसायनप्रयोगाद्वै न तरन्ति जरान्तकौ ॥ 054c
दानयज्ञतपःशीलरसायनविदोऽपि वा । 055a
स्वाध्यायनिरता वाऽपि न तरन्ति जरान्तकौ ॥ 055c
देवदानवगन्धर्वकिन्नरोरगराक्षसान् । 056a
स्ववशे कुरुते कालो न कालस्यास्त्यगोचरः ॥ 056c
न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः । 057a
स्रेयं प्रपद्यते ध्यानमजस्रं ध्रुवमव्ययम् ॥ 057c
स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव । 058a
आयुरादाय मर्त्यानामहोरात्रेषु सन्ततम् ॥ 058c
जीवितं सर्वभूतानामक्षयः क्षपयन्नसौ । 059a
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥ 059c
यस्यां रात्र्यां व्यतीतायामायुरल्पतरं भवेत् । 060a
गाधोदके मत्स्य इव किन्नु तस्य कुमारता ॥ 060c
मरणं हि शरीरस्य नियतं ध्रुवमेव च । 061a
तिष्ठन्नपि क्षणं सर्वः कालस्यैति वशं पुनः ॥ 061c
न म्रियेरन्न जीर्येरन्यदि स्युः सर्वदेहिनः । 062a
न चानिष्टं प्रवर्तेत शोको वा प्राणिनं क्वचित् ॥ 062c
अप्रमत्तः प्रमत्तेषु कालो भूतेषु तिष्ठति । 063a
अप्रमत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते ॥ 063c
श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् । 064a
कोपि तद्वेद यत्रासौ मृत्युना नाभिवीक्षितः ॥ 064c
वर्षास्विदं करिष्यामि इदं ग्रीष्मवसन्तयोः । 065a
इति बालश्चिन्तयति अन्तरायं न बुध्यति ॥ 065c
इदं मे स्यादिदं मे स्यादित्येवं मनसा नराः । 066a
अनवाप्तेषु कामेषु ह्रियन्ते मरणं प्रति ॥ 066c
कालपाशेन बद्धानामहन्यहनि जीर्यताम् । 067a
का श्रद्धा प्राणिनां मार्गे विषमे भ्रमतां सदा ॥ 067c
युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् । 068a
फलानामिव पक्वानां सदा हि पतनाद्भयम् ॥ 068c
मर्त्यस्य किं धनैर्दारैः पुत्रैर्भोगैः प्रियैरपि । 069a
एकाह्ना सर्वमुत्सृज्य मृत्योस्तु वशमन्वियात् ॥ 069c
जायमानांश्च सम्प्रेक्ष्य म्रियमाणांस्तथैव च । 070a
न संवेगोस्ति चेत्पुंसः काष्ठलोष्ठसमो हि सः ॥ 070c
विनाशिनो ह्यध्रुवजीवितस्य किं बन्धुभिर्मित्रपरिग्रहैश्च । 071a
विहाय यद्गच्छति सर्वमेवं क्षणेन गत्वा न निवर्तते च ॥ 071c
एवं चिन्तयतो नित्यं सर्वार्थानामनित्यताम् । 072a
उद्वेगो जायते शीघ्रं निर्वाणस्य पुरस्सरः ॥ 072c
तेनोद्वेगेन चाप्यस्य विमर्शो जायते पुनः । 073a
विमर्शो नाम वैराग्यं सर्वद्रव्येषु जायते ॥ 073c
वैराग्येण परां शान्तिं लभन्ते मानवाः शुभे । 074a
मोक्षस्योपनिषद्दिव्यं वैराग्यमिति निश्चितम् ॥ 074c
एतत्ते कथितं देवि वैराग्योत्पादनं वचः । 075a
एवं सञ्चिन्त्य सञ्चिन्त्य मुच्यन्ते हि मुमुक्षवः ॥ ॥ 075c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 244 ॥
13-244-18 दाराश्चोराश्चेति क.पाठः ॥