अध्यायः 243

महेश्वरेण पार्वतीम्प्रति नानाधर्मामामपि प्रत्येकं साफल्यकथनेन तेषु मोक्षधर्मस्यैव श्रैष्ठ्यप्रतिपादनम् ॥ 1 ॥ तथा ज्ञानस्य मोक्षसाधनत्वकथनपूर्वकं तत्प्राप्त्युपायकथनम् ॥ 2 ॥

उमोवाच । 001
देवदेव नमस्तेऽस्तु कालसूदन शङ्कर । 001a
लोकेषु विविधा धर्मास्त्वत्प्रसादान्मया श्रुताः ॥ 001c
विशिष्टं सर्वधर्मेभ्यः शाश्वतं ध्रुवमव्ययम् । 002a
श्रुतुमिच्छाम्यहं सर्वमत्र मुह्यति मे मनः ॥ 002c
केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः । 003a
वानप्रस्थं पुनः केचिद्गार्हस्थ्यं केचिदाश्रमम् ॥ 003c
राजधर्माश्रयं केचित्केचित्स्वाध्यायमेव च । 004a
ब्रह्मचर्याश्रमं केचित्केचिद्वाक्संयमाश्रयम् ॥ 004c
मातरं पितरं केचित्सेवमाना दिवं गताः । 005a
अहिंसया परः स्वर्गे सत्येन च महीयते ॥ 005c
आहवेऽभिमुखाः केचिन्निहतास्त्रिदिवं गताः । 006a
केचिदुञ्छवृत्ते सिद्धाः स्वर्गमार्गं समाश्रिताः ॥ 006c
आर्जवेनापरे युक्ता महतां पूजते रताः । 007a
ऋजवो नाकपृष्ठे तु शुद्धात्मानः प्रतिष्ठिताः ॥ 007c
एवं बहुविधैर्लोके धर्मद्वारैः सुसंवृतैः । 008c
ममापि मतिराविद्धा मेघलेखेव वायुना ॥ 008c
एतस्मिन्संशयस्थाने संशयच्छेदकारि यत् । 009a
वचनं ब्रूहि देवेश निश्चयज्ञानसञ्ज्ञितम् ॥ 009c
नारद उवाच । 010
एवं पृष्टः स्वया देव्या महादेवः पिनाकधृक् । 010a
प्रोवाच मधुरं वाक्यं सूक्ष्ममध्यात्मसंश्रितम् ॥ 010c
महेश्वर उवाच । 011
न्यायतस्त्वं महाभागे श्रोतुकामाऽसि निश्चयम् । 011a
एतदेव विशिष्टं ते यत्त्वं पृच्छसि मां प्रिये ॥ 011c
सर्वत्र विहितो धर्मः स्वर्गलोकफलाश्रितः । 012a
बहुद्वारस्य धर्मस्य नेहास्ति विफलाः क्रियाः ॥ 012c
यस्मिन्यस्मिंश्च विषये योयो याति विनिश्चयम् । 013a
तं तमेवाभिजानाति नान्यं धर्मं शुचिस्मिते ॥ 013c
शृणु देवि समासेन मोक्षद्वारमनुत्तमम् । 014a
एतद्धि सर्वधर्माणां विशिष्टं शुभमव्ययम् ॥ 014c
नास्ति मोक्षात्परं देवि मोक्ष एव परा गतिः । 015a
सुखमात्यन्तिकं श्रेष्ठमनिवृत्तं च तद्विदुः ॥ 015c
नात्र देवि जरा मृत्युः शोको वा दुःखमेव वा । 016a
अनुत्तममचिन्त्यं च तद्देवि परमं सुखम् ॥ 016c
ज्ञानानामुत्तमं ज्ञानं मोक्षज्ञानं विदुर्बुधाः । 017a
ऋषिभिर्देवसङ्घैश्च प्रोच्यते परमं पदम् ॥ 017c
नित्यमक्षरमक्षोभ्यमजेयं शाश्वतं शिवम् । 018a
विशन्ति तत्पदं प्राज्ञाः स्पृहणीयं सुरोत्तमैः ॥ 018c
दुःखादिश्च दुरन्तश्च संसारोयं प्रकीर्तितः । 019a
शोकव्याधिजरादोषैर्मरणेन च संयुतः ॥ 019c
यथा ज्योतिर्गणा व्योम्नि विवर्तन्ते पुनःपुनः । 020a
तस्य मोक्षस्य मार्गोऽयं श्रुयतां शुभलक्षणे ॥ 020c
ब्रह्मादिस्थावरान्तश्च संसारो यः प्रकीर्तितः । 021a
संसारे प्राणिनः सर्वे निवर्तन्ते यथा पुनः ॥ 021c
तत्र संसारचक्रस्य मोक्षो ज्ञानेन दृश्यते । 022a
अध्यात्मतत्वविज्ञानं ज्ञानमित्यभिधीयते ॥ 022c
ज्ञानस्य ग्रहणोपायमाचारं ज्ञानिनस्तथा । 023a
यथावत्सम्प्रवक्ष्यामि तत्त्वमेकमनाः शृणु ॥ 023c
ब्राह्मणः क्षत्रियो वाऽपि भूत्वा पूर्वं गृहे स्थितः । 024a
आनृण्यं सर्वतः प्राप्य ततस्तान्सन्त्यजेद्गृहान् ॥ 024c
ततः सन्त्यज्य गार्हस्थ्यं निश्चितो वनमाश्रयेत् ॥ 025ac
वने गुरुं समाज्ञाय दीक्षितो विधिपूर्वकम् । 026a
दीक्षां प्राप्य यथान्यायं स्ववृत्तं परिपालयेत् ॥ 026c
गृह्णीयादप्युपाध्यायान्मोक्षज्ञानमनिन्दितः । 027a
द्विविधं च पुनर्मोक्षं साङ्ख्ययोगमिति स्मृतिः ॥ 027c
पञ्चविंशतिविज्ञानं साङ्ख्यमित्यभिधीयते । 028a
ऐश्वर्यं देवसारूप्यं योगशास्त्रस्य निर्णयः । 028c
तयोरन्यतरं ज्ञानं शृणुयाच्छिष्यतां गतः ॥ 028e
नाकालो नाप्यकाषायी नाप्यसंवत्सरोषितः । 029a
नासाङ्ख्ययोगो नाश्राद्धं गुरुणा स्नेहपूर्वकम् । 029c
समः शीतोष्णहर्षादीन्विषहेत स वै मुनिः ॥ 029e
अमृष्यः क्षुत्पिपासाभ्यामुचितेभ्यो निवर्तयेत् । 030a
त्यजेत्सङ्कल्पजान्ग्रन्थीन्सदा ध्यानपरो भवेत् ॥ 030c
कुण्डिकाचमसं शिक्यं छत्रं यष्टिमुपानहौ । 031a
चेलमित्येव नैतेषु स्थापयेत्साम्यमात्मनः ॥ 031c
गुरोः पूर्वं समुत्तिष्ठेज्जघन्यं तस्य संविशेत् । 032a
नैवाविज्ञाप्य भर्तारमावश्यकमपि व्रजेत् ॥ 032c
द्विरह्नि स्नानशाटेन सन्ध्ययोरभिषेचनम् । 033a
एककालाशनं चास्य विहितं यतिभिः पुरा ॥ 033c
भैक्षं सर्वत्र गृह्णीयाच्चिन्तयेत्सततं निशि । 034a
कारणे चापि सम्प्राप्ते न ज्ञाप्येत कदाचन ॥ 034c
ब्रह्मिचर्यं वने वासं शौचमिन्द्रियसंयमः । 035a
दया च सर्वभूतेषु तस्य धर्मः सनातनः ॥ 035c
विमुक्तः सर्वपापेभ्यो लघ्वाहारो जितेन्द्रियः । 036a
आत्मयुक्तः परां बुद्धिं लभते पापनाशिनीम् ॥ 036c
यदा भावं न कुरुते सर्वभूतेषु पापकम् । 037a
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ 037c
अनिष्ठुरोऽनहङ्कारो निर्द्वन्द्वो वीतमत्सरः । 038a
वीतशोकभयाबाधं पदं प्राप्नोत्यनुत्तमम् ॥ 038c
तुल्यनिन्दास्तुतिर्मौनी समलोष्टाश्मकाञ्चनः । 039a
समः शत्रौ च मित्रे च निर्वाणमधिगच्छति ॥ 039c
एवं युक्तसमाचारस्तत्परोऽध्यात्मचिन्तकः । 040a
ज्ञानाभ्यासेन तेनैव प्राप्नोति परमां गतिम् ॥ ॥ 040c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 243 ॥