अध्यायः 242
महेश्वरेण पार्वतीम्प्रति प्राणिनां मरणस्य स्वाभाविकत्वयत्नसाध्यत्वभेदेन द्वैविध्यकथनपूर्वकं द्वितीयस्य योगादिना शरीरत्यागादिभेदेन चातुर्विध्यकथनेन तस्य महाफलहेतुत्वकथनम् ॥ 1 ॥ कामक्रोधादिना शरीरत्यागस्य नकरभोगहेतुत्वकथनम् ॥ 2 ॥
उमोवाच । 001
भगवन्मानुषाः केचित्कालधर्ममुपस्थिताः । 001a
प्राणमोक्षं कथं कृत्वा परत्रि हितमाप्नुयुः ॥ 001c
महेश्वर उवाच । 002
हन्त ते कथयिष्यामि शृणु देवि समाहिता । 002a
द्विविधं मरणं लोके स्वभावाद्यत्नतस्तथा ॥ 002c
तयोः स्वभावं नापायं यत्नतः करणोद्भवम् । 003a
एतयोरुभयोर्देवि विधानं शृणु शोभने ॥ 003c
कल्याकल्यशरीरस्य यत्नजं द्विविधं स्मृतम् । 004a
यत्नजं नाम मरणमात्मत्यागो मुमूर्षया ॥ 004c
तत्राकल्यशरीरस्य जरा व्याधिश्च कारणम् । 005a
महाप्रस्थानगमनं तथा प्रायोपवेशनम् । 005c
जलावगाहनं चैव अग्निचित्यां प्रवेशनम् ॥ 005e
एवं चतुर्विधः प्रोक्त आत्मत्यागो मुमूर्षताम् । 006a
एतेषां क्रमयोगेन विधानं शृणु शोभने ॥ 006c
स्वधर्मयुक्तं गार्हस्थ्यं चिरमूढ्वा विधानतः । 007a
तत्रानृण्यं च सम्प्राप्य वृद्धो वा व्याधितोऽपि वा ॥ 007c
दर्शयित्वा स्वदौर्बल्यं सर्वानेवानुमान्य च । 008a
सर्वं विहाय बन्धूंश्च क्रमाणां भरणं तथा ॥ 008c
दानानि विधिवत्कृत्वा धर्मिकार्यर्थमात्मनः । 009a
अनुज्ञाप्य जनं सर्वं वाचा मधुरया ब्रुवन् ॥ 009c
अहतं वस्त्रमाच्छाद्य बद्ध्वा तत्कुशरज्जुना । 010a
उपस्पृश्च प्रतिज्ञाय व्यवसायपुरःसरम् ॥ 010c
परित्यज्य ततो ग्राम्यं धर्मं कुर्याद्यथेप्सितम् । 011a
महाप्रस्थानमिच्छेच्चेत्प्रतिष्ठेतोत्तरां दिशम् ॥ 011c
भूत्वा तावन्निराहारो यावत्प्राणविमोक्षणम् । 012a
चेष्टाहानौ शयित्वाऽपि तन्मनाः प्राणमुत्सृजेत् । 012c
एवं पुण्यकृतां लोकानमलान्प्रतिपद्यते ॥ 012e
प्रायोपवेशनं चेच्छेत्तेनैव विधिना नरः । 013a
देशे पुण्यतमे श्रेष्ठे निराहारस्तु संविशेत् ॥ 013c
अप्राणं तु शुचिर्भूत्वा कुर्वन्दानं स्वशक्तितः । 014a
पुण्यं परित्यजेत्प्राणानेष धर्मः सनातनः । 014c
एवं कलेवरं त्यक्त्वा स्वर्गलोके महीयते ॥ 014e
अग्निप्रवेशनं चेच्छेत्तेनैव विधिना शुभे । 015a
कृत्वा काष्ठमयं चित्यं पुण्यक्षेत्रे नदीषु वा ॥ 015c
दैवतेभ्यो नमस्कृत्वा कृत्वा चापि प्रदक्षिणम् । 016a
भूत्वा शुचिर्व्यवसितः प्रविशेदग्निसंस्तरम् । 016c
सोपि लोकान्यथान्यायं प्राप्नुयात्पुण्यकर्मणाम् ॥ 016e
जलावगाहनं चेच्छेत्तेनैव विधिना शुभे । 017a
ख्याते पुण्यतमे तीर्थे निमज्जेत्सुकृतं स्मरन् ॥ 017c
सोपि पुण्यतमाल्ँलोकान्निःसङ्गात्प्रतिपद्यते । 018a
ततः कल्यशरीरस्य सन्त्यागं शृणु तत्वतः ॥ 018c
रक्षार्थं क्षत्रियः श्रेष्ठः प्रजापालनकारणात् । 019a
योधानां भर्तृपिण्डार्थं गुर्वर्थं ब्रह्मचारिणाम् ॥ 019c
गोब्राह्मणार्थं सर्वेषां प्राणत्यागो विधीयते । 020a
स्वराज्यरक्षणार्तं वा कुजनैः पीडिताः प्रजाः ॥ 020c
मोक्तुकामस्त्यजेत्प्राणान्युद्धमार्गे यथाविधि । 021a
सुसन्नद्धो व्यवसितः सम्प्रविश्यापराङ्मुखः । 021c
एवं राजा मृतः सद्यः स्वर्गलोके महीयते ॥ 021e
तादृशी सुगतिर्नास्ति क्षत्रियस्य विशेषतः । 022a
भृत्यो वा भर्तृपिण्डार्थं भर्तृकर्मण्युपस्थिते ॥ 022c
कुर्वंस्तत्र तु साहाय्यमात्मप्राणानपेक्षया । 023a
स्वाम्यर्थं सन्त्यजेत्प्राणान्पुण्याल्ँलोकान्स गच्छति ॥ 023c
स्पृहणीयः सुरगणैस्तत्र नास्ति विचारणा । 024a
एवं गोब्राह्मणार्थं वा दीनार्थं वा त्यजेत्तनुम् ॥ 024c
सोपि पुण्यमवाप्नोति आनृशंस्यव्यपेक्षया । 025a
इत्येते जीवितत्यागे मार्गास्ते समुदाहृताः ॥ 025c
कामक्रोधाद्भयाद्वाऽपि यदि चेत्सन्त्यजेत्तनुम् । 026a
सोऽनन्तं नरकं याति आत्महन्तृत्वकारणात् ॥ 026c
स्वभावं मरणं नाम न तु चात्मेच्छया भवेत् । 027a
यथा मृतानां यत्कार्यं तन्मे शृणु यथाविधि ॥ 027c
तत्रापि मरणं त्यागो मूढत्यागाद्विशिष्यते । 028a
भूमौ संवेशयेद्देहं नरस्य विनशिष्यतः ॥ 028c
निर्जीवं वृणुयात्सद्यो वाससा तु कलेवरम् । 029a
माल्यगन्धैरलङ्कृत्य सुवर्णेन च भामिनि ॥ 029c
श्मशाने दक्षिणे देशे चिताग्नौ प्रदहेन्मृतम् । 030a
अथवा निक्षिपेद्भूमौ शरीरं जीववर्जितम् ॥ 030c
दिवा च शुक्लपक्षश्च उत्तरायणमेव च । 031a
मुमूर्षूणां प्रशस्तानि विपरीतं तु गर्हितम् ॥ 031c
औदकं चाष्टकाश्राद्धं बहुभिर्बहुभिः कृतम् । 032a
आप्यायनं मृतानां तत्परलोके भवेच्छुभम् । 032c
एतत्सर्वं मया प्रोक्तं मानुषाणां हितं वचः ॥ ॥ 032e
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 242 ॥