अध्यायः 241
महेश्वरेण पार्वतीम्प्रति प्राणिनां शुभाशुभत्वनिश्चायकलिङ्गकथनम् ॥ 1 ॥
उमोवाच । 001
मानुषेष्वेव जीवत्सु गतिर्विज्ञायते न वा । 001a
यथा शुभगतिर्जीवो नासौ त्वशुभभागिति ॥ 001c
एतदिच्छाम्यहं श्रोतुं तन्मे शंसितुमर्हसि ॥ 002ac
महेश्वर उवाच । 003
तदहं ते प्रवक्ष्यामि जीवितं विद्यते यथा । 003a
द्विविधाः प्राणिनो लोके दैवमासुरमाश्रिताः ॥ 003c
मनसा कर्मणा वाचा प्रतिकला भवन्ति ये । 004a
तादृशानासुरान्विद्धि मर्त्यास्ते नरकालयाः ॥ 004c
हिंस्राश्चोराश्च धूर्ताश्च परदाराभिमर्शकाः । 005a
नीचकर्मरता ये च शौचमङ्गलवर्जिताः ॥ 005c
शुचिविद्वेषिणः पापा लोकचारित्रदूषकाः । 006a
एवं युक्तसमाचारा जीवन्तो नरकालयाः ॥ 006c
लोकोद्वेगकराश्चान्ये पशवश्च सरीसृपाः । 007a
वृक्षाः कण्टकिनो रूक्षास्तादृशान्विद्धि चासुरान् ॥ 007c
अपरान्देवपक्षांस्तु शृणु देवि समाहिता ॥ 008ac
मनोवाक्कर्मभिर्नित्यमनुकूला भवन्ति ये । 009a
तादृशानमरान्विद्धि ते नराः स्वर्गगामिनः ॥ 009c
शौचार्जवपरा धीराः परार्थं नाहरन्ति ये । 010a
ये समाः सर्वभूतेषु ते नराः स्वर्गगामिनः ॥ 010c
भयाद्वा वृत्तिहेतोर्वा अनृतं न वदन्ति ये । 011a
सत्यं वदन्ति सततं ते नराः स्वर्गगामिनः ॥ 011c
धार्मिकाः शौचसम्पन्नाः शुक्ला मधुरवादिनः । 012a
नाकार्यं मनसेच्छन्ति ते नराः स्वर्गगामिनः ॥ 012c
स्वदुःखमिव मन्यन्ते परेषां दुःखवेदनम् । 013a
दरिद्रा अपि ये केचिद्याचिताः प्रीतिपूर्वकम् । 013c
ददत्येव च यत्किञ्चित्ते नराः स्वर्गगामिनः ॥ 013e
आस्तिका मङ्गलपराः सततं वृद्धसेविनः । 014a
पुण्यकर्मपरा नित्यं ते नराः स्वर्गगामिनः ॥ 014c
व्रतिनो दानशीलाश्च धर्मशीलाश्च मानवाः । 015a
ऋजवो मृदवो नित्यं ते नराः स्वर्गगामिनः ॥ 015c
गुरुशुश्रूषणपरा देवब्राह्मणपूजकाः । 016a
कृजज्ञाः कृतविद्याश्च ते नराः स्वर्गगामिनः ॥ 016c
जितेन्द्रिया जितक्रोधा जितमानमदाः स्मृताः । 017a
लोभमात्सर्यहीना ये ते नराः स्वर्गगामिनः ॥ 017c
निर्मा निरहङ्कारः सानुक्रोशाः स्वबन्धुषु । 018a
दीनानुकम्पिनो नित्यं ते नराः स्वर्गगामिनः ॥ 018c
ऐहिकेन तु वृत्तेन पारत्रमनुमीयते । 019a
एवंविधा नरा लोके जीवन्तः स्वर्गगामिनः ॥ 019c
यदन्यच्च शुभं लोके प्रजानुग्रहकारि च । 020a
पशवश्चैव वृक्षाश्च प्रजानां हितकारिणः । 020c
तादृशान्देवपक्षस्थानिति विद्धि शुभानने ॥ 020e
शुभाशुभमयं लोके सर्वं स्थावरजङ्गमम् । 021a
दैवं शुभमिति प्राहुरासुरं चाशुभं प्रिये ॥ ॥ 021c
इति श्रीमन्यहाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 241 ॥