अध्यायः 240

महेश्वरेण पार्वतीम्प्रति भद्राश्वकेतुमालादिखण्डानां सुकृतिनां भोगस्थानत्वादिप्रतिपादनम् ॥ 1 ॥

उमोवाच । 001
भगवन्सर्वभूतेश पुरमर्दन शङ्कर । 001a
श्रुतं पापकृतां दुःखं यमलोके वरप्रद ॥ 001c
श्रोतुमिच्छाम्यहं देव नृणां सुकृतकर्मणाम् । 002a
कथं ते भुञ्जते भोगान्स्वर्गलोके महेश्वर ॥ 002c
कथिताः कीदृशा लोका नृणां सुकृतकारिणाम् । 003a
एतन्मे वद देवश श्रोतुं कौतूहलं हि मे ॥ 003c
महेश्वर उवाच । 004
शृणु कल्याणि तत्सर्वं यत्त्वमिच्छसि शोभने । 004a
विविधाः पुण्यलोकास्ते कर्मकर्मण्यतां गताः ॥ 004c
मेरुं हि कनकात्मानं परितः सर्वतोदिशम् । 005a
भद्राश्चः केतुमालश्च उत्तराः कुरवस्तथा ॥ 005c
जम्बूवनादयः स्वर्गा इत्येते कर्मवर्जिताः । 006a
तेषु भूत्वा स्वयम्भूताः प्रदृश्यते यतस्ततः ॥ 006c
योजनानां सहस्रं च एकैकं मानमात्रया । 007a
नित्यं पुष्पफलोपेतास्तत्र वृक्षाः समन्ततः ॥ 007c
आसक्तवस्त्राभरणाः सर्वे कनकसन्निभाः । 008a
द्विरेफाश्चाण्डजास्तत्र प्रवालमणिसन्निभाः । 008c
विचित्राश्च मनोज्ञाश्च कूजितैः शोभयन्ति तान् ॥ 008e
कुशेशयवनच्छन्ना नलिन्यश्च मनोरमाः । 009a
तत्र वान्त्यनिला नित्यं दिव्यगन्धसुखावहाः ॥ 009c
सर्वे चाम्लानमाल्याश्च विरजोम्बरसंवृताः । 010a
एवं बहुविधा देवि दिव्यभोगाः सुखावहाः ॥ 010c
स्त्रियश्च पुरुषाश्चैव सर्वे सुकृतकारिणः । 011a
रमन्ते तत्र चान्योन्यं कामरागसमन्विताः ॥ 011c
मनोहरा महाभागाः सर्वे ललितकुण्डलाः । 012a
एवं तत्र स्थिता मर्त्याः प्रमदाः प्रियदर्शनाः ॥ 012c
नानाभावसमायुक्ता यौवनस्थाः सदैव तु । 013a
युवत्यः कल्पितास्तत्र कामजा ललितास्तथा ॥ 013c
मनोनुकूला मधुरा भोगिनामुपकल्पिताः । 014a
प्रमदाश्चोद्भवन्त्येव स्वर्गलोके यथा तथा ॥ 014c
एवंविधाः स्त्रियश्चात्र पुरुषाश्च परस्परम् । 015a
रमन्ते चेन्द्रियैः स्वस्थै शरीरैर्भोगसंस्कृतैः ॥ 015c
कामहर्षगुणाभ्यस्ता नान्ये क्रोधादयः प्रिये । 016a
क्षुत्पिपासा न चास्त्यत्रि गात्रक्लेशाश्च शोभने ॥ 016c
सर्वतो रमणीयं च सर्वत्र कुसुमान्विम् । 017a
यावत्पुण्यफलं तावद्दृश्यन्ते बहुसङ्गताः । 017c
निरन्तरं भोगयुता रमन्ते स्वर्गवासिनः ॥ 017e
तत्र भोगान्यथायोगं भुक्त्वा पुण्यक्षयात्पुनः । 018a
नश्यन्ति जायमानास्ते शरीरैः सहसा प्रिये ॥ 018c
स्वर्गलोकात्परिभ्रष्टाः जायन्ते मानुषे पुनः । 019a
पूर्वपुण्यावशेषेण विशिष्टाः सम्भवन्ति ते ॥ 019c
एषा स्वर्गगतिः प्रोक्ता पृच्छन्त्यास्तव भामिनि । 020a
अत ऊर्ध्वं पदान्यष्टौ सुकर्माणि शृणु प्रिये । 020c
भोगयुक्तानि पुण्यानि उच्छ्रितानि परस्परम् ॥ 020e
विद्याधराः किम्पुरुषा यक्षगन्धर्वकिन्नराः । 021a
अप्सरो दानवा देवा यथाक्रममुदाहृताः ॥ 021c
तेषु स्थानेषु जायन्ते प्राणिनाः पुण्यकर्मणः । 022a
तेषामपि च ये लोकाः स्वर्गलोकोपमाः स्मृताः ॥ 022c
स्वर्गवत्तत्र ते भोगान्भुञ्जते च रमन्ति च । 023a
रूपसत्वबलोपेताः सर्वे दीर्घायुषस्तथा ॥ 023c
तेषां सर्वक्रियारम्भो मानुषेष्विव दृश्यते । 024a
अतिमानुषमैश्वर्यमत्र मायाबलात्कृतम् ॥ 024c
जराप्रसूतिमरणं तेषु स्थानेषु दृश्यते । 025a
गुणा दोषाश्च सन्त्यत्र आकाशगमनं तथा ॥ 025c
अन्तर्धानं बलं सत्त्वमायुश्च चिरजीवितम् । 026a
तपोविशेषज्जायन्ते यथा कर्मणि भामिनि ॥ 026c
देवलोके प्रवृत्तिस्तु तेषामेव विधीयते । 027a
न तथा देवलोको हि तद्विशिष्टाः सुराः स्मृताः ॥ 027c
तत्र भोगमनिर्देश्यममृतत्वं च विद्यते । 028a
विमानगमनं नित्यमप्सरोगणसेवितम् ॥ 028c
एवमन्यच्च तत्कर्म देवताभ्यो विशिष्यते । 029a
प्रत्यक्षं तव तत्सर्वं देवलोके प्रवर्तनम् ॥ 029c
तस्मान्न वर्णये देवि विदितं च त्वया शुभे । 030a
तत्सर्वं सुकृतैरेव प्राप्यते चोत्तमं पदम् ॥ ॥ 030c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 240 ॥