अध्यायः 239
महेश्वरेण पार्वतीं प्रति दानत्रैविध्यात्तत्फलत्रैविध्यादिकथनम् ॥ 1 ॥ तथा दानफलस्य पञ्चविधत्वप्रतिपादनम् ॥ 2 ॥ तथा नानाधर्मतत्फलप्रतिपादनम् ॥ 3 ॥
उमोवाच । 001
एवं कृतस्य धर्मस्य श्रोतुमिच्छाम्यहं प्रभो । 001a
प्रमाणं फलमानानां तन्मे शंसितुमर्हसि ॥ 001c
महेश्वर उवाच । 002
प्रमाणकल्पनां देवि दानस्य शृणु भामिनि ॥ 002ac
यत्सारस्तु नरो लोके तद्दानं चोत्तमं स्मृतम् । 003a
सर्वदानविधिं प्राहुस्तदेव भुवि शोभने ॥ 003c
प्रस्थं सारं दरिद्रस्य शतं कोटिधनस्य च । 004a
प्रस्थसारस्तु तत्प्रस्थं ददन्महदवाप्नुयात् ॥ 004c
कोटिसारस्तु तां कोटिं ददान्महदवाप्नुयात् । 005a
उभयं तन्महत्तच्च फलेनैव समं स्मृतम् ॥ 005c
धर्मार्थकामभोगेषु शक्त्यभावस्तु मध्यमम् । 006a
स्वद्रव्यादतिहीनं तु तद्दानमधमं स्मृतम् ॥ 006c
शृणु दत्तस्य वै देवि पञ्चधा फलकल्पनाम् । 007a
आनन्त्यं च महच्चैव समं हीनं हि पातकम् ॥ 007c
तेषां विशेषं वक्ष्यामि शृणु देवि समाहिता । 008a
दुस्त्यजस्य च वै दानं पात्र आनन्त्यमुच्यते ॥ 008c
दानं षङ्गुणयुक्तं तु महदित्यभिधीयते । 009a
यथाश्रद्धं तु वै दानं यथार्हं सममुच्यते ॥ 009c
गुणतस्तु तथा हीनं दानं हीनमिति स्मृतम् । 010a
दानं पातकमित्याहुः षड्गुणानां विपर्यये ॥ 010c
देवलोके महत्कालमान्त्यस्य फलं विदुः । 011a
महतस्तु तथा कालं स्वर्गलोके तु पूज्यते ॥ 011c
समस्य तु तदा दानं मानुष्यं भोगमावहेत् । 012a
दानं निष्फलमित्याहुर्विहीनं क्रियया शुभे ॥ 012c
अथवा म्लेच्छदेशेषु तत्र तत्फलतां व्रजेत् । 013a
नरकं प्रेत्य तिर्यक्षु गच्छेदशुभदानतः ॥ 013c
उमोवाच । 014
अशुभस्यापि दानस्य शुभं स्याच्च फलं कथम् ॥ 014ac
महेश्वर उवाच । 015
मनसा तत्वतः शुद्धमानृशंस्यपुरःसरम् । 015a
प्रीत्या तु सर्वदानानि दत्त्वा फलमवाप्नुयात् ॥ 015c
रहस्यं सर्वदानानामेतद्विद्धि शुभेक्षणे । 016a
अन्यानि धर्मकार्याणि शृणु सद्भिः कृतानि च ॥ 016c
आरामदेवगोष्ठानि सङ्क्रमाः कूप एव च । 017a
गोवाटश्च तटाकश्च सभा शाला च सर्वशः ॥ 017c
पाषण्डावसथश्चैव पानीयं गोतृणानि च । 018a
व्याधितानां च भैषज्यमनाथानां च पोषणम् ॥ 018c
अनाथशवसंस्कारस्तीर्थमार्गविशोधनम् । 019a
व्यसनाभ्यवपत्तिश्च सर्वेषां च स्वशक्तितः ॥ 019c
एतत्सर्वं समासेन धर्मकार्यमिति स्मृतम् । 020a
तत्कर्तव्यं मनुष्येण स्वशक्त्या श्रद्धया शुभे ॥ 020c
प्रेत्यभावे लभेत्पुण्यं नास्ति तत्र विचारणा । 021a
रूपं सौभाग्यमारोग्यं बलं सौख्यं लभेन्नरः । 021c
स्वर्गो वा मानुषे वाऽपि तैस्तैराप्यायते हि सः ॥ 021e
उमोवाच । 022
भगवन्लोकपालेश धर्मस्तु कतिभेदकः । 022a
दृश्यते परितः सद्भिस्तन्मे शंसितुमर्हसि ॥ 022c
महेश्वर उवाच । 023
शृणु देवि समुद्देशान्नानात्वं धर्मसङ्कटे । 023a
धर्मा बहुविधा लोके श्रुतिभेदमुखोद्भवाः ॥ 023c
स्मृतिधर्मश्च बहुधा सद्भिराचार इष्यते ॥ 024ac
देशधर्माश्च दृश्यन्ते कुलधर्मास्तथैव च । 025a
जातिधर्माश्च वै धर्मा गणधर्माश्च शोभने ॥ 025c
शरीरकालवैषम्यादापद्धर्मश्च दृश्यते । 026a
एतद्धर्मस्य नानात्वं क्रियते लोकवासिभिः ॥ 026c
कारणात्तत्र तत्रैव फलं धर्मस्य चेष्यते । 027a
तत्कारणसमायोगे लभेत्कुर्वन्फलं नरः ॥ 027c
अन्यथा न लभेत्पुण्यमतदर्हः समाविशेत् । 028a
एवं धर्मस्य नानात्वं फलं कुर्वल्लँभेन्नरः ॥ 028c
श्रौतस्मार्तस्तु धर्माणां प्राकृतो धर्म उच्यते । 029a
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ ॥ 029c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 239 ॥