अध्यायः 238
महेश्वरेण पार्वतीं प्रति श्राद्धविधानादिकथनम् ॥ 1 ॥
उमोवाच । 001
पितृमेधः कथं देव तन्मे शंसितुमर्हसि । 001a
सर्वेषां पितरः पूज्याः सर्वसम्पत्प्रदायिनः ॥ 001c
महेश्वर उवाच । 002
पितृमेधं प्रवक्ष्यामि यथावत्तन्मना शृणु । 002a
देशकालौ विधानं च तत्क्रियायाः शुभाशुभम् ॥ 002c
लोकेषु पितरः पूज्या देवतानां च देवताः । 003a
शुचयो निर्मलाः पुण्या दक्षिणां दिशमाश्रिताः ॥ 003c
यथा वृष्टिं प्रतीक्षन्ते भूमिष्ठाः सर्वजन्तवः । 004a
पितरश्च तथा लोके पितृमेधं शुभेक्षणे ॥ 004c
तस्य देशाः कुरुक्षेत्रं गया गङ्गा सरस्वती । 005a
प्रभासं पुष्करं चेति तेषु दत्तं महाफलम् ॥ 005c
तीर्थानि सरितः पुण्या विविक्तानि वनानि च । 006a
नदीनां पुलिनानीति देशाः श्राद्धस्य पूजिताः ॥ 006c
माघप्रोष्ठपदौ मासौ श्राद्धकर्मणि पूजितौ । 007a
पक्षयोः कृष्णपक्षश्च पूर्वपक्षात्प्रशस्यते ॥ 007c
अमावास्यां त्रयोदश्यां नवम्यां प्रतिपत्सु च । 008a
तिथिष्वेतासु तुष्यन्ति दत्तेनेह पितामहाः ॥ 008c
पूर्वाह्णे शुक्लपक्षे च रात्रौ जन्मदिनेषु वा । 009a
युग्मेष्वहस्सु च श्राद्धं न च कुर्वीत पण्डितः ॥ 009c
एष कालो मया प्रोक्तः पितृमेधस्य पूजितः । 010a
यस्मिंश्च ब्राह्म्णं पात्रं पश्येत्कालः स च स्मृतः ॥ 010c
अपाङ्क्तेया द्विजा वर्ज्या ग्राह्यास्ते पङ्क्तिपावनाः । 011a
भोजयेद्यदि पापिष्ठाञ्श्राद्धेषु नरकं व्रजेत् ॥ 011c
वृत्तश्रुतकुलोपेतान्सकलत्रान्गुणान्वितान् । 012a
तदर्हाञ्श्रोत्रियान्विद्धि ब्राह्मणानयुजः शुभे ॥ 012c
एतान्निमन्त्रयेद्विद्वान्पूर्वेद्युः प्रातरेव वा । 013a
तत्र श्राद्धक्रियां पश्चादारभेत यथाविधि ॥ 013c
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः । 014a
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वरा ॥ 014c
कुतपः खङ्गपात्रं च कुशा दर्भास्तिला मधु । 015a
कालशाकं गजच्छाया पवित्रं श्राद्धकर्मसु ॥ 015c
तिलानवकिरेत्तत्र नानावर्णान्समन्ततः । 016a
अशुद्धं पितृयज्ञश्च तिलैः शुध्यति शोभने ॥ 016c
नीलकाषायवस्त्रं च भिन्नवर्णं नवव्रणम् । 017a
हीनाङ्गमशुचिं वाऽपि वर्जयेत्तत्र दूरतः ॥ 017c
कुक्कुटांश्च वराहांश्च नग्नं क्लीबं रजस्वलाम् । 018a
आयसं त्रपुसीसं च श्राद्धकर्मणि वर्जयेत् ॥ 018c
मांसैः प्रीणन्ति पितरो मुद्गमाषयवैरिह । 019a
शशरौरवमांसेन षण्मासं तृप्तिरिष्यते ॥ 019c
संवत्सरं च गव्येन हविषा पायसेन च । 020a
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ 020c
आनन्त्याय भवेद्दत्तं खङ्गमांसं पितृक्षये । 021a
पायसं सतिलं क्षौद्रं खङ्गमांसेन सम्मितम् ॥ 021c
महाशकलिनो मस्याश्छागो वा सर्वलोहितः । 022a
कालशाकमितीत्येव तदानन्त्याय कल्पितम् ॥ 022c
सापूपं सामिषं स्निग्धमाहारमुपकल्पयेत् । 023a
उपकल्प्य तदाहारं ब्राह्मणानर्चयेत्ततः ॥ 023c
श्मश्रुकर्मशिरः स्नातान्समारोप्यासनं क्रमात् । 024a
सुगन्धमाल्याभरणैः स्नग्भिरेतान्विभूषयेत् ॥ 024c
अलङ्कृत्योपविष्टांस्तान्पिण्डावापं निवेदयेत् ॥ 025ac
ततः प्रस्तीर्य दर्भाणां प्रस्तरं दक्षिणामुखम् । 026a
तत्समीपेऽग्निमिद्ध्वा च स्वधां च जुहुयात्ततः । 026c
समीपे त्वग्नीषोमाभ्यां पितृभ्यो जुहुयात्तदा ॥ 026e
तथा दर्भेषु पिण्डांस्त्रीन्निर्वपेद्दक्षिणामुखः । 027a
अपसव्यमपाङ्गुष्ठं नामधेयपुरस्कृतम् ॥ 027c
एतेन विधिना दत्तं पितॄणामक्षयं भवेत् । 028a
ततो विप्रान्यथाशक्ति पूजयेन्नियतः शुचिः । 028c
सदक्षिणं ससम्भारं यथा तुष्यन्ति ते द्विजाः ॥ 028e
यत्र तत्क्रियते तत्र न जल्पन्न जपेन्मिथः । 029a
नियम्य वाच्यं देहं च श्राद्धकर्म समारभेत् ॥ 029c
ततो निर्वपने वृत्ते तान्पिण्डांस्तदनन्तरम् । 030a
ब्राह्मणोऽग्निरजो गौर्वा भक्षयेदप्सु वा क्षिपेत् ॥ 030c
पत्नीं वा मध्यमं पिण्डं पुत्रकामो हि प्राशयेत् । 031a
आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् ॥ 031c
तृप्तानुत्थाप्य तान्विप्रानन्नशेषं निवेदयेत् । 032a
तच्छेषं बहुभिः पश्चात्सभृत्यो भक्षयेन्नरः ॥ 032c
एष प्रोक्तः समासेन पितृयज्ञः सनातनः । 033a
पितरस्तेन तुष्यन्ति कर्ता च फलमाप्नुयात् ॥ 033c
अहन्यहनि वा कुर्यान्मासे मासेऽथवा पुनः । 034a
संवत्सरं द्विः कुर्याच्च चतुर्वाऽपि स्वशक्तितः ॥ 034c
दीर्घायुश्च भवेत्स्वस्थः पितृमेधेन वा पुनः । 035a
सपुत्रो बहुभृत्यश्च प्रभूतधनधान्यवान् ॥ 035c
श्राद्धदः स्वर्गमाप्नोति निर्मलं विविधात्मकम् । 036a
अप्सरोगणसङ्घुष्टं विरजस्कमनन्तरम् ॥ 036c
श्राद्धानि पुष्टिकामा वै ये प्रकुर्वन्ति पण्डिताः । 037a
तेषां पुष्टिं प्रजां चैव दास्यन्ति पितरः सदा ॥ 037c
धन्यं यशस्यमायुष्यं स्वर्ग्यं शत्रुविनाशनम् । 038a
कुलसन्धारकं चेति श्राद्धमाहुर्मनीषिणः ॥ 038c
उमोवाच । 039
भगवन्देवदेवेश मृतास्ते भुवि जन्तवः । 039a
नानाजातिषु जायन्ते शीघ्रं कर्मवशात्पुनः ॥ 039c
पितरः स्वस्ति ते तत्र कथं तिष्ठन्ति देववत् । 040a
पितॄणां कतमो देशः पिण्डानश्नन्ति वै कथम् ॥ 040c
अन्ने दत्ते मृतानां तु कथमाप्यायनं भवेत् । 041a
एवं मया संशयितं भगवन्वक्तुमर्हसि ॥ 041c
नारद उवाच । 042
एतद्विरुद्धं पृच्छन्त्यां रुद्राण्यां परिषद्भृशम् । 042a
बभूव सर्वा मुदिता श्रोतुं हि परमं हितम् ॥ 042c
महेश्वर उवाच । 043
स्थाने संशयितं देवि शृणु कल्याणि तत्वतः । 043a
गुह्यानां परमं गुह्यं हितानां परमं हितम् ॥ 043c
यथा देवगणा देवि तथा पितृगणाः प्रिये । 044a
दक्षिणस्यां दिशि शुभे सर्वे पितृगणाः स्थिताः ॥ 044c
प्रेतानुद्दिश्य या पूजा क्रियते मानुषैरिह । 045a
तेन तुष्यन्ति पितरो न प्रेताः पितरः स्मृताः ॥ 045c
उत्तरस्यां यथा देवा रमन्ते यज्ञकर्मभिः । 046a
दक्षिणस्यां तथा देवि तुष्यन्ति विविधैर्मखैः ॥ 046c
द्विविधं क्रियते कर्म हव्यकव्यसमाश्रितम् । 047a
तयोर्हव्यक्रिया देवान्कव्यमाप्यायते पितॄन् । 047c
प्रसव्यं मङ्गलैर्द्रव्यैर्हव्यकर्म विधीयते । 048a
अपसव्यममङ्गल्यैः कव्यं चापि विधीयते ॥ 048c
सदेवासुरगन्धर्वाः पितॄनभ्यर्चयन्ति च । 049a
आप्यायन्ते च ते श्राद्धैः पुनराप्याययन्ति तान् ॥ 049c
अनिष्ट्वा च पितॄन्पूर्वं यः क्रियां प्रकरोति चेत् । 050a
रक्षांसि च पिशाचाश्च फलं भोक्ष्यन्ति तस्य तत् ॥ 050c
हव्यकव्यक्रियास्तस्मात्कर्तव्या भुवि मानुषैः । 051a
कर्मक्षेत्रं हि मानुष्यं तदन्यत्र न विद्यते ॥ 051c
कव्येन सन्ततिर्दृष्टा हव्ये भूतिः पृथग्विधाः । 052a
इति ते कथितं देवि देवगुह्यं सनातनम् ॥ ॥ 052c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टत्रिंशदधिकद्विशततमोऽध्यायः ॥ 238 ॥