अध्यायः 237
महेश्वरेण पार्वतीं प्रति यज्ञप्रशंसनम् ॥ 1 ॥ तथा देवानां पूजादिफलकथनम् ॥ 2 ॥ तथा देवानां मनुष्यचिन्तितविज्ञानसामर्थ्यकथनम् ॥ 3 ॥
उमोवाच । 001
भगवन्देवदेवेश विशिष्टं यज्ञमुच्यते । 001a
लौकिकं वैदिकं चैव तन्मे शंसितुमर्हसि ॥ 001c
महेश्वर उवाच । 002
देवतानां तु पूजा या यज्ञेष्वेव समाहिता । 002a
यज्ञा वेदेष्वधीताश्च वेदा ब्राह्मणसंयुताः ॥ 002c
इदं तु सकलं दिव्यं दिवि वा भुवि वा प्रिये । 003a
यज्ञार्थं विद्धि तत्सृष्टं लोकानां हितकाम्यया ॥ 003c
एवं विज्ञाय तत्कर्ता सदारः सततं द्विजः । 004a
प्रेत्यभावे लभेल्लोकान्ब्रह्मकर्मसमाधिना ॥ 004c
ब्राह्मणेष्वेव तद्ब्रह्म नित्यं देवि समाहितम् । 005a
तस्माद्विप्रैर्यथाशास्त्रं विधिदृष्टेन कर्मणा ॥ 005c
यज्ञकर्म कृतं सर्वं देवता अभितर्पयेत् । 006a
ब्राह्मणाः क्षत्रियाश्चैव यज्ञार्थं प्रायशः स्मृताः ॥ 006c
अग्निष्टोमादिभिर्यज्ञैर्वेदेषु परिकल्पितैः । 007a
सुशुद्धैर्यजमानैश्च ऋत्विग्भिश्च यथाविधिः । 007c
शुद्धैर्द्रव्योपकरणैर्यष्टव्यमिति निश्चयः ॥ 007e
तथा कृतेषु यज्ञेषु देवानां तोषणं भवेत् । 008a
तुष्टेषु सर्वदेवेषु यज्वा यज्ञफलं लभेत् ॥ 008c
देवाः सन्तोषिता यज्ञैर्लोकान्संवर्धयन्त्युत । 009a
उभयोर्लोकयोर्भूतिर्देवि यज्ञे प्रदृश्यते ॥ 009c
तस्माद्यज्वा दिवं गत्वा अमरैः सह मोदते । 010a
नास्ति यज्ञसमं दानं नास्ति यज्ञसमो निधिः ॥ 010c
सर्वधर्मसमुद्देशो देवि यज्ञे समाहितः । 011a
एषा यज्ञकृता पूजा लौकिकीमपरां शृणु ॥ 011c
देवसत्कारमुद्दिश्य क्रियते लौकिकोत्सवः ॥ 012ac
देवगोष्ठेऽधिसंस्कृत्य चोत्सवं यः करोति वै । 013a
यागान्देवोपहारांश्च शुचिर्भूत्वा यथाविधि । 013c
देवान्सन्तोषयित्वा स देवि धर्ममवाप्नुयात् ॥ 013e
गन्धमाल्यैश्च विविधैः परमान्नेन धूपनैः । 014a
बह्वीभिः स्तुतिभिश्चैव स्तुवद्भिः प्रयतैर्नरैः ॥ 014c
नृत्तैर्वाद्यैश्च गान्धर्वैरन्यैर्दृष्टिविलोभनैः । 015a
देवसत्कारमुद्दिश्य कुर्वते ये नरा भुवि ॥ 015c
तेषां भक्तिकृतेनैव सत्कारेणैव पूजिताः । 016a
तेनैव तोषं संयान्ति देवि देवास्त्रिविष्टपे ॥ 016c
मानुषैश्चोपकारैर्वा शुचिभिः सत्परायणैः । 017a
ब्रह्मचर्यपरैरेतत्कृतं धर्मफलं लभेत् ॥ 017c
केवलैः स्तुतिभिर्देवि गन्धमाल्यसमाहितैः । 018a
प्रयतैः शुद्धगात्रैस्तु शुद्धदेशे सुपूजिताः । 018c
सन्तोषं यान्ति ते देवा भक्तैः सम्पूजितास्तथा ॥ 018e
देवान्सन्तोषयित्वैव देवि धर्ममवाप्नुयात् ॥ 019ac
उमोवाच । 020
त्रिविष्टपस्था वै भूमौ देवा मानुषचेष्टितम् । 020a
कथं ज्ञास्यन्ति विधिवत्तन्मे शंसितुमर्हसि ॥ 020c
महेश्वर उवाच । 021
तदहं तेप्रवक्ष्यामि यथा तैर्विद्यते प्रिये । 021a
प्राणिनां तु शरीरेषु अन्तरात्मा व्यवस्थितः ॥ 021c
आत्मानं परमं देवमिति विद्धि शुभेक्षणे । 022a
आत्मा मनोव्यवस्थानात्सर्वं वेत्ति शुभाशुभम् ॥ 022c
आत्मैव देवास्तद्विद्युरव्यग्रमनसा कृतम् । 023a
सतां मनोव्यवस्थानाच्छुभं भवति वै नृणाम् ॥ 023c
तस्माद्देवाऽभिसम्पूज्या ब्राह्मणानां तथैव च । 024a
यज्ञाश्च धर्मकार्याणि गुरुपूजा च शोभने ॥ 024c
शुद्धगात्रैर्व्रतयुतैस्तन्मयैस्तत्परायणैः । 025a
एवं व्यवस्थितैर्नित्यं कर्तव्यमिति निश्चयः ॥ 025c
एवं कृत्वा शुभाकाङ्क्षी परत्रेह च मोदते । 026a
अन्यथा मन आविश्य कृतं न फलति प्रिये । 026c
ऋतेऽपि तु मनो देवि अशुभं फलति ध्रुवम् ॥ ॥ 026e
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तत्रिंशदधिकद्विशततमोऽध्यायः ॥ 237 ॥