अध्यायः 236
महेश्वरेणोमां प्रति तिलदानप्रकारतत्फलयोः कथनम् ॥ 1 ॥ तथा जलान्नादिनानादानफलकथनम् ॥ 2 ॥ तथा सेतुकूपतटाकनिर्मापणादिधर्मफलकथनम् ॥ 3 ॥
उमोवाच । 001
भगवन्देवदेवेश कथं देयं तिलान्वितम् । 001a
तस्य तस्य फलं ब्रूहि दत्तस्य च कृतस्य च ॥ 001c
महेश्वर उवाच । 002
तिलकल्पविधिं देवि तन्मे शृणु समाहिता ॥ 002ac
समृद्धैरसमृद्धैर्वा तिला देया विशेषतः । 003a
तिलाः पवित्राः पापघ्नाः सुपुण्या इति संस्मृताः ॥ 003c
न्यायतस्तु तिलाञ्शुद्धान्संहृत्याथ स्वशक्तितः । 004a
तिलराशिं पुनः कुर्यात्पर्वाताभं सुरत्नकम् । 004c
महान्तं यदि वा स्तोकं नानाद्रव्यसमन्वितम् ॥ 004e
सुवर्णरजताभ्यां च मणिमुक्ताप्रवालकैः । 005a
अलङ्कृत्य यथायोगं सपताकं सवेदिकम् । 005c
सभूषणं सवस्त्रं च शयनासनसम्मितम् ॥ 005e
प्रायशः कौमुदीमासे पौर्णमास्यां विशेषतः । 006a
भोजयित्वा च विधिवद्ब्राह्मणानर्हतो बहून् ॥ 006c
स्वयं कृतोपवासश्च वृत्तशौचसमन्वितः । 007a
दद्यात्प्रदक्षिणीकृत्य तिलराशिं सदक्षिणम् ॥ 007c
एकस्यापि बहूनां वा दातव्यं भूतिमिच्छता । 008a
तस्य दानफलं देवि अग्निष्टोमेन संयुतम् ॥ 008c
केवलं वा तिलैरेव भूमौ कृत्वा गवाकृतिम् । 009a
सवस्त्रकं सरत्नं च पुंसा गोदानकाङ्क्षिणा । 009c
तदर्हाय प्रदातव्यं तस्य गोदानतः फलम् ॥ 009e
शरावांस्तिलसम्पूर्णान्सहिरण्यान्सचम्पकान् । 010a
नृपोऽददद्ब्राह्मणाय सु पुण्यफलभाग्भवेत् ॥ 010c
एवं तिलमयं देयं नरेण हितमिच्छता । 011a
नानादानफलं भूयः शृणु देवि समाहिता ॥ 011c
बलमायुष्यमारोग्यमन्नदानाल्लभेन्नरः । 012a
पानीयदस्तु सौभाग्यं रसज्ञानं लभेन्नरः ॥ 012c
वस्त्रदानाद्वपुःशोभामलङ्कारं लभेन्नरः । 013a
दीपदो बुद्धिवैशद्यं द्युतिशोभां लभेन्नरः ॥ 013c
राजपीडाविमोक्षं तु छत्रदो लभते फलम् । 014a
दासीदासप्रदानात्तु भवेत्कर्मान्तभाङ्नरः । 014c
दासीदासं च विविधं लभेत्प्रेत्य गुणान्वितम् ॥ 014e
यानानि वाहनं चैव तदर्हाय ददन्नरः । 015a
पादरोगपरिक्लेशान्मुक्तः श्वसनवाहवान् । 015c
विचित्र रमणीयं च लभते यानवाहनम् ॥ 015e
प्रतिश्रयप्रदानं च तदर्हाय तदिच्छते । 016a
वर्षाकाले तु रात्रौ वा लभेत्पक्षबलं शुभम् ॥ 016c
सेतुकूपतटाकानां कर्ता तु लभते नरः । 017a
दीर्घायुष्यं च सौभाग्यं तता प्रेत्य गतिं शुभां ॥ 017c
वृक्षसंरोपको यस्तु छायापुष्पफलप्रदः । 018a
प्रेत्यभावे लभेत्पुण्यमभिगम्यो भवेन्नरः ॥ 018c
यस्तु सङ्क्रमकृल्लोके नदीषु जलहारिणाम् । 019a
लभेत्पुण्यफलं प्रेत्य व्यसनेभ्यो विमोक्षणम् ॥ 019c
मार्गकृत्सततं मर्त्यो भवेत्सन्तानवान्नरः । 020a
कायदोषविमुक्तस्तु तीर्थकृत्सततं भवेत् ॥ 020c
औषधानां प्रदानात्तु सततं कृपयाऽन्वितः । 021a
भवेद्व्याधिविहीनश्च दीर्घायुश्च विशेषतः ॥ 021c
अनाथान्पोषयेद्यस्तु कृपणान्धकपङ्गुकान् । 022a
स च पुण्यफलं प्रेत्य लभते कृच्छ्रमोक्षणम् ॥ 022c
वेदगोष्ठाः शुभाः शाला भिक्षूणां च प्रतिश्रयम् । 023a
यः कुर्याल्लभते नित्यं नरः प्रेत्य फलं शुभम् ॥ 023c
प्रासादवासं विविधं यक्षशोभां लभेत्पुनः । 024a
विविधं विविधाकारं भक्ष्यभोज्यगुणान्वितम् ॥ 024c
रम्यं तं दैवगोवाटं यः कुर्याल्लभते नरः । 025a
प्रेत्य भावे शुभां जातिं व्याधिमोक्षं तथैव च ॥ 025c
एवं नानाविधं द्रव्यं दानकर्ता लभेत्फलम् ॥ 026ac
उमोवाच । 027
कृतं दत्तं यथा यावत्तस्य तल्लभते फलम् । 027a
एतन्मे देवदेवेश तत्र कौतूहलं महत् ॥ 027c
महेश्वर उवाच । 028
प्रेत्यभावे शृणु फलं दत्तस्य च कृतस्य च । 028a
दानं षङ्गुणयुक्तं तु तदर्हाय यथाविधिः । 028c
यथाविभवतो दानं दातव्यमिति मानवैः ॥ 028e
बुद्धिमायुष्यमारोग्यं बलं भाग्यं तथाऽऽगमम् । 029a
रूपेण सप्तधा भूत्वा मानुष्यं फलति ध्रुवम् ॥ 029c
इदं दत्तमिदं देयमित्येवं फलकाङ्क्षया । 030a
यद्दत्तं तत्तदेव स्यान्न तु किञ्चन लभ्यते ॥ 030c
ध्रुवं देव्यत्तमे दानं मध्यमे त्वधमं फलम् ॥ ॥ 031ac
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 236 ॥ 13-236-10 सहिरण्यान्सवस्त्रकानिति थ.पाठः ॥