अध्यायः 235
परमेश्वरेण पार्वतीं प्रति अन्नस्वर्णगोभूकन्याविद्यादानानां महिमप्रतिपादनम् ॥ 1 ॥
उमोवाच । 001
भगवन्कानि देयानि धर्ममुद्दिश्य मानवैः । 001a
तान्यहं श्रोतुमिच्छामि तन्मे शंसितुमर्हसि ॥ 001c
महेश्वर उवाच । 002
अजस्रं धर्मकार्यं च तथा नैमित्तिकं प्रिये । 002a
अन्नं प्रतिश्रयो दीपः पानीयं तृणमिन्धनम् ॥ 002c
स्नेहो गन्धश्च भैषज्यं तिलाश्च लवणं तथा । 003a
एवमादि तथाऽन्यश्च दानमाजस्रमुच्यते ॥ 003c
अजस्रदानात्सततमाजस्रमिति निश्चितम् । 004a
सामान्यं सर्ववर्णानां दानं शृणु समाहिता ॥ 004c
अन्नं प्राणो मनुष्याणामन्नदः प्राणदो भवेत् । 005a
तस्माकदन्नं विशेषेण दातुमिच्छति मानवः ॥ 005c
ब्राह्मणायाभिरूपाय यो दद्यादन्नमीप्सितम् । 006a
निदधाति निधिं श्रेष्ठं सोऽनन्तं पारलौकिकम् ॥ 006c
श्रान्तमध्वपरिश्रान्तमतिथिं गृहमागतम् । 007a
अर्चयीत प्रयत्नेन स हि यज्ञो वरप्रदः ॥ 007c
कृत्वा तु पातकं कर्म यो दद्यादन्नमर्थिनाम् । 008a
ब्राह्मणानां विशेषेण सोपहन्ति स्वकं तमः ॥ 008c
पितरस्तस्य नन्दन्ति सुवृष्ट्या कर्षका इव । 009a
पुत्रो यस्य तु पौत्रो वा श्रोत्रियं भोजयिष्यति ॥ 009c
अपि चण्डालशूद्राणामन्नदानं न गर्ह्यते । 010a
तस्मात्सर्वप्रयत्नेन दद्यादन्नममत्सरः ॥ 010c
कलत्रं पीडयित्वाऽपि पोषयेदतिथीन्सदा । 011a
जन्मापि मानुषे लोके तदर्थं हि विधीयते ॥ 011c
अन्नदानाच्च लोकांस्तान्सम्प्रवक्ष्याम्यनिन्दिते । 012a
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् ॥ 012c
अनेकशतभौमानि सान्तर्जलवनानि च । 013a
वैडूर्यार्चिःप्रकाशानि हेमरूप्यमयानि च ॥ 013c
नानारूपाणि संस्थानां नानारत्नमयानि च । 014a
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च ॥ 014c
तरुणादित्यवर्णानि स्थावराणि चराणि च । 015a
यथेष्टभक्ष्यभोज्यानि शयनासनवन्ति च ॥ 015c
सर्वकामफलाश्चात्र वृक्षा भवनसंस्थिताः । 016a
वाप्यो बह्व्यश्च कूपाश्च दीर्घिकाश्च सहस्रशः ॥ 016c
अरुजानि विशोकानि नित्यानि विविधानि च । 017a
भवनानि विचित्राणि प्राणदानां त्रिविष्टपे ॥ 017c
विवस्वतश्च सोमस्य ब्रह्मणश्च प्रजापतेः । 018a
विशन्ति लोकांस्ते नित्यं जगत्यन्नोदकप्रदाः ॥ 018c
तत्र ते सुचिरं कालं विहृत्याप्सरसां गणैः । 019a
जायन्ते मानुषे लोके सर्वकल्याणसंयुताः ॥ 019c
बलसंहननोपेता नीरोगाश्चिरजीविनः । 020a
कुलीना मतिमन्तश्च भवन्त्यन्नप्रदा नराः ॥ 020c
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता । 021a
सर्वकालं च सर्वस्य सर्वत्र च सदैव च ॥ 021c
सुवर्णदानं परमं स्वर्ग्यं स्वस्त्ययनं महत् । 022a
तस्मात्ते वर्णयिष्यामि यथावदनुपूर्वशः ॥ 022c
अपि पापकृतं क्रूरं दत्तं रुक्मं प्रकाशयेत् ॥ 023ac
सुवर्णं ये प्रयच्छन्ति श्रोत्रिभेभ्यः सुचेतसः । 024a
देवतास्ते तर्पयन्ति समस्ता इति वैदिकम् ॥ 024c
अग्निर्हि देवताः सर्वाः सुवर्णं चाग्निरुच्यते । 025a
तस्मात्सुवर्णदानेन तृप्ताः स्युः सर्वदेवताः ॥ 025c
अग्न्यभावे तु कुर्वन्ति वह्निस्थानेषु काञ्चनम् । 026a
तस्मात्सुवर्णदातारः सर्वान्कामानवाप्नुयुः ॥ 026c
आदित्यस्य हुताशस्य लोकान्नानाविधाञ्शुभान् । 027a
काञ्चनं सम्प्रदायाशु प्रविशन्ति न संशयः ॥ 027c
अलङ्कारं कृतं चापि केवलान्प्रविशिष्यते । 028a
सौवर्णैर्ब्राह्मणं काले तैरलङ्कृत्य भोजयेत् ॥ 028c
य एतत्परमं दानं दत्त्वा सौवर्णमद्भुतम् । 029a
द्युतिं मेधां वपुः कीर्तिं पुनर्जाते लभेद्ध्रुवम् ॥ 029c
तस्मात्स्वशक्त्या दातव्यं काञ्चनं भुवि मानवैः । 030a
न ह्येतस्मात्परं लोकेष्वन्यत्पापात्प्रमुच्यते ॥ 030c
अत ऊर्ध्वं प्रवक्ष्यामि गवां दानमनिन्दिते । 031a
नहि गोभ्यः परं दानं विद्यते जगति प्रिये ॥ 031c
लोकान्सिसृक्षुणा पूर्वं गावः सृष्टाः स्वयम्भुवा । 032a
वृत्त्यर्थं सर्वभूतानां तस्मात्ता मातरः स्मृताः ॥ 032c
लोकज्येष्ठा लोकवृत्त्या प्रवृत्ता मय्यायत्ताः सोमनिष्यन्दभूताः । 033a
सौम्याः पुण्याः प्राणदाः कामदाश्चतस्मात्पूज्याः पुण्यकामैर्मनुष्यैः ॥ 033c
धेनुं दत्त्वा निभृतां सुशीलां कल्याणवत्सां च पयस्विनीं च । 034a
यावन्ति रोमाणि भवन्ति तस्यास्तावत्समाः स्वर्गफलानि भुङ्क्ते ॥ 034c
प्रयच्छते यः कपिलां सचेलां सकांस्यदोहां कनकाग्र्यशृङ्गीम् । 035a
पुत्राश्च पौत्रांश्च कुलं च सर्वमासप्तमं तारयते परत्र च ॥ 035c
अन्तर्जाताः क्रीतका द्यूतलब्धाः प्राणक्रीताः सोदकाश्चौजसा वा । 036a
कृच्छ्रोत्सृष्टाः पोषणार्थागताश्च द्वारैरेतैस्ताः प्रलब्धाः प्रदद्यात् ॥ 036c
कृशाय बहुपुत्राय श्रोत्रियायाहिताग्नये । 037a
प्रदाय नीरुजां धेनुं लोकान्प्राप्नोत्यनुत्तमान् ॥ 037c
नृशंसस्य कृतघ्नस्य लुब्धस्यानृतवादिनः । 038a
हव्यकव्यव्यपेतस्य न दद्याद्गाः कथञ्चन ॥ 038c
समानवत्सां यो दद्याद्धेर्नुं विप्रे पयस्विनीम् । 039a
सुवृत्तां वस्त्रसञ्छन्नां सोमलोके महीयते ॥ 039c
समानवत्सां यो दद्यात्कृष्णां धेनुं पयस्विनीम् । 040a
सुवृत्तां वस्त्रसञ्छन्नां लोकान्प्राप्नोत्यपाम्पतेः ॥ 040c
हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् । 041a
प्रदाय वस्त्रसम्पन्नां यान्ति कौबेरसद्मनः ॥ 041c
वायुरेणुसवर्णाञ्च सवत्सां कांस्यदोहनाम् । 042a
प्रदाय वस्त्रसम्पन्नां वायुलोके महीयते ॥ 042c
समानवत्सां यो धेनुं दत्त्वा गौरीं पयस्विनीम् । 043a
सुवृत्तां वस्त्रसञ्छन्नामग्निलोके महीयते ॥ 043c
युवानं बलिनं श्यामं शतेन सह यूथपम् । 044a
गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलङ्कृतम् ॥ 044c
ऋषभं ये प्रयच्छन्ति श्रोत्रियाणां महात्मनाम् । 045a
ऐश्वर्यमभिजायन्ते जायमानाः पुनःपुनः ॥ 045c
गवां मूत्रपुरीषाणि नोद्विजेन कदाचन । 046a
न चासां मांसमश्नीयाद्गोषु भक्तः सदा भवेत् ॥ 046c
ग्रासमुष्टिं परगवे दद्यात्संवत्सरं शुचि । 047a
अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् ॥ 047c
गवामुभयतः काले नित्यं स्वस्त्ययनं वदेत् । 048a
न चासां चिन्तयेत्पापमिति धर्मविदो विदुः ॥ 048c
गावः पवित्रं परमं गोषु लोकाः प्रतिष्ठिताः । 049a
कथञ्चिन्नावमन्तव्या गावो लोकस्य मातरः ॥ 049c
तस्मादेव गवां दानं विशिष्टमिति कथ्यते । 050a
गोषु पूजा च भक्तिश्च नरस्यायुष्यतां वहेत् ॥ 050c
अतःपरं प्रवक्ष्यामि भूमिदानं महाफलम् । 051a
भूमिदानसमं दानं लोके नास्तीति निश्चयः ॥ 051c
गृहयुक्क्षेत्रयुग्वाऽपि भूमिभागः प्रदीयते । 052a
सुखभोगं निराक्रोशं वास्तुपूर्वं प्रकल्प्य च ॥ 052c
ग्रहीतारमलङ्कृत्य वस्त्रपुष्पानुलेपनैः । 053a
सभृत्यं सपरीवारं भोजयित्वा यथेष्टतः । 053c
यो दद्याद्दक्षिणां काले त्रिरद्भिर्गृह्यतामिति ॥ 053e
एवं भूम्यां प्रदत्तायां श्रद्धया वीतमत्सरैः । 054a
यावत्तिष्ठति सा भूमिस्तावद्दत्तफलं विदुः ॥ 054c
भूमिदः स्वर्गमारुह्य रमते शाश्वतीः समाः । 055a
अचला ह्यक्षया भूमिः सर्वकामान्दुधुक्षति ॥ 055c
यत्किञ्चित्कुरुते पापं पुरुषो वृत्तिकर्शितः । 056a
अपि गोकर्णमात्रेण भूमिदानेन मुच्यते ॥ 056c
सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च । 057a
सर्वमेतन्महाभागे भूमिदाने प्रतिष्ठितम् ॥ 057c
भर्तुर्निः श्रेयसे युक्तास्त्यक्तात्मानो रणे हताः । 058a
ब्रह्मलोकाय संसिद्धा नातिक्रामन्ति भूमिदम् ॥ 058c
हलकृष्टां महीं दद्यात्सर्वबीजफलान्विताम् । 059a
सुकूपशरणां वाऽपि सा भवेत्सर्वकामदा ॥ 059c
निष्पन्नसस्यां पृथिवीं यो ददाति द्विजन्मनाम् । 060a
विमुक्तः कलुषैः सर्वैः शक्रलोकं स गच्छति ॥ 060c
यथा जनित्री क्षीरेण स्वपुत्रमभिवर्धयेत् । 061a
एवं सर्वफलैर्भूमिर्दातारमभिवर्धयेत् ॥ 061c
ब्राह्मणं वृत्तसम्पन्नमाहिताग्निं शुचिव्रतम् । 062a
ग्राहयित्वा निजां भूमिं न यान्ति यमसादनम् ॥ 062c
यथा चन्द्रमसो वृद्धिरहन्यहनि दृश्यते । 063a
तथा भूमेः कृतं दानं सस्ये सस्ये विवर्धते ॥ 063c
यथा बीजानि रोहन्ति प्रकीर्णानि महीतले । 064a
तथा कामाः प्ररोहन्ति भूमिदानगुणार्जिताः ॥ 064c
पितरः पितृलोकस्था देवताश्च दिवि स्थिताः । 065a
सन्तर्पयन्ति भोगैस्तं यो ददाति वसुन्धराम् ॥ 065c
दीर्घायुष्यं वराङ्गत्वं स्फीतां च श्रियमुत्तमाम् । 066a
परत्र लभते मर्त्यः सम्प्रदाय वसुन्धराम् ॥ 066c
एतत्सर्वं मयोद्दिष्टं भूमिदानस्य यत्फलम् । 067a
श्रद्दधानैर्नरैर्नित्यं श्राव्यमेतत्सनातनम् ॥ 067c
अतः परं प्रवक्ष्यामि कन्यादानं यथाविधि । 068a
कन्या देया महादेवि परेषामात्मनोपि वा ॥ 068c
कन्यां शुद्धव्रताचारां कुलरूपसमन्विताम् । 069a
यस्मै दित्सति पात्राय तेनापि भृशकामिताम् ॥ 069c
प्रथमं तत्समाकल्प्य बन्धुभिः कृतनिश्चयः । 070a
कारयित्वा गृहं पूर्वं दासीदासपरिच्छदैः ॥ 070c
गृहोपकरणैश्चैव पशुधान्येन संयुताम् । 071a
तदर्थिने तदर्हाय कन्यां तां समलङ्कृताम् ॥ 071c
सविवाहं यथान्यायं प्रयच्छेदग्निसाक्षिकम् । 072a
वृत्त्यायतीं यथा कृत्वा सद्गृहे तौ निवेशयेत् ॥ 072c
एवं कृत्वा वधूदानं तस्य दानस्य गौरवात् । 073a
प्रेत्यभावे महीयेत स्वर्गलोके यथासुखम् ॥ 073c
पुनर्जातस्य सौभाग्यं कुलवृद्धिं तथाऽऽप्नुयात् ॥ 074ac
विद्यादानं तथा देवि पात्रभूताय वै ददत् । 075a
प्रेत्यभावे लभेन्मर्त्यो मेधां वृद्धिं धृतिं स्मृतिम् ॥ 075c
अनुरूपाय शिष्याय यश्च विद्यां प्रयच्छति । 076a
यथोक्तस्य प्रदानस्य फलमानन्त्यमश्नुते ॥ 076c
दापनं त्वथ विद्यानां दरिद्रेभ्योऽर्थवेदनैः । 077a
स्वयं दत्तेन तुल्यं स्यादिति विद्धि शुभानने ॥ 077c
एवं ते कथितान्येव महादानानि मानिनि । 078a
त्वत्प्रियार्थं मया देवि भूयः श्रोतुं किमिच्छसि ॥ ॥ 078c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥ 235 ॥