अध्यायः 234
महेश्वरेण पार्वतीं प्रति दानस्य षाङ्गुण्यप्रतिपादनपूर्वकं तत्फलकथनम् ॥ 1 ॥
महेश्वर उवाच । 001
एतदर्थमवाप्नोति नरः प्रेत्य शुभेक्षणे ॥ 001a
उमोवाच । 002
लोकसिद्धं तु यद्द्रव्यं सर्वसाधारणं भवेत् । 002a
तददत्सर्वसामान्यं कथं धर्मं लभेन्नरः । 002c
एवं साधारणे द्रव्ये तस्य स्वत्वं कथं भवेत् ॥ 002e
महेश्वर उवाच । 003
लोके भूतमयं द्रव्यं सर्वसाधारणं तथा । 003a
तथैव तद्ददन्मर्त्यो लभेत्पुण्यं स तच्छृणु ॥ 003c
दाता प्रतिग्रहीता च देयं सोपक्रमं तथा । 004a
देशकालौ च यत्त्वेतद्दानं षङ्गुणमुच्यते । 004c
तेषां सम्पद्विशेषांश्च कीर्त्यमानान्निबोध मे ॥ 004e
आदिप्रभृति यः शुद्धो मनोवाक्कायकर्मभिः । 005a
सत्यवादी जितक्रोधस्त्वलुब्धो नाभ्यसूयकः । 005c
श्रुद्धावानास्तिकश्चैवक एवं दाता प्रशस्यते ॥ 005e
शुद्धो दान्तो जितक्रोधस्तथा दीनकुलोद्भवः । 006a
श्रुतचारित्रसम्पन्नस्तथा बहुकलत्रवान् ॥ 006c
पञ्चयज्ञपरो नित्यं निर्विकारशरीरवान् । 007a
एतान्पात्रगुणान्विद्धि तादृक्पात्रं प्रशस्यते ॥ 007c
पितृदेवाग्निकार्येषु तस्य दत्तं महाफलम् । 008a
यद्यदर्हति यो लोके पात्रं तस्य भवेच्च सः । 008c
मुच्येदापद आपन्नो येन पात्रं तदस्य तु ॥ 008e
अन्नस्य क्षुधितं पात्रं तृषितस्तु जलस्य वै । 009a
एवं पात्रेषु नानात्वमिष्यते पुरुषं प्रति ॥ 009c
जारश्चोरश्च षण्डश्च हिंस्रः समयभेदकः । 010a
लोकविघ्नकराश्चान्ये वर्जितव्याः सर्वशः प्रिये ॥ 010c
परोपघाताद्यद्द्रव्यं चौर्याद्वा लभ्यते नृभिः । 011a
निर्दयाल्लभ्यते यच्च धूर्तभावेन वै तथा ॥ 011c
अधर्मादर्थमोहाद्वा बहूनामुपरोधनात् । 012a
यल्लभ्यते धनं देवि तदत्यन्तविगर्हितम् ॥ 012c
तादृशेन कृतं धर्मं निष्फलं विद्धि भामिनि । 013a
तस्मान्न्यायागतेनैव दातव्यं शुभमिच्छता ॥ 013c
यद्यदात्मप्रियं नित्यं तत्तद्देयमिति स्थितिः । 014a
उपक्रममिमं विद्धि दातॄणां परमं हितम् ॥ 014c
पात्रभूतं तु दूरस्थमभिगम्य प्रसाद्य च । 015a
दाता दानं तथा दद्याद्यथा तुष्येत तेन सः । 015c
एष दानविधइः श्रेष्ठः समाहूय तु मध्यमः ॥ 015e
पूर्वं च पात्रतां ज्ञात्वा समाहूय निवेद्य च । 016a
शौचाचमनसंयुक्तं दातव्यं श्रद्धया प्रिये ॥ 016c
याचितॄणां तु परममाभिमुख्यं पुरस्कृतम् । 0117a
सम्मानपूर्वं सङ्ग्राह्यं दातव्यं देशकालयो ॥ 017c
अपात्रेभ्योपि चान्येभ्यो दातव्यं भूतिमिच्छता ॥ 018ac
पात्राणि सम्परीक्ष्यैव दात्रा वै नाममात्रया । 019a
अतिशक्त्या परं दानं यथाशक्ति तु मध्यमम् । 019c
तृतीयं चापरं दानं नानुरूपमिवात्मनः ॥ 019e
यथा सम्भाषितं पूर्वं दातव्यं तत्तथैव च । 020a
पुण्यक्षेत्रेषु यद्दत्तं पुण्यकालेषु वा यथा । 020c
तच्छोभनतरं विद्धि गौरवाद्देशकालयोः ॥ 020e
उमोवाच । 021
यश्च पुण्यतमो देशस्तथा कालश्च शंस मे ॥ 021ac
महेश्वर उवाच । 022
कुरुक्षेत्रं महानन्यो यश्च देवर्षिसेवितः । 022a
गिरिर्वरश्च तीर्थानि देशभागेषु पूजितः । 022c
ग्रहीतुमीप्सितो यत्र तत्र दत्तं महाफलम्॥ 022e
शरद्वसन्तकालश्च पुण्यमासस्तथैव च । 023a
शुक्लपक्षश्च पक्षाणां पौर्णमासी च पर्वसु ॥ 023c
पितृदैवतनक्षत्रनिर्मलो दिवसस्तथा । 024a
तच्छोभनतरं विद्धि चन्द्रसूर्यग्रहे तथा ॥ 024c
प्रतिग्रहीतुर्यः कालो मनसा कीर्तितः शुभे । 025a
एवमादिष्टकालेषु दत्तं दानं महद्भवेत् ॥ 025c
दाता देयं च पात्रं च उपक्रमयुता क्रिया । 026a
देशकालं तथा तेषां सम्पच्छुद्धिः प्रकीर्तिता ॥ 026c
यथैव युगपत्सम्पत्तत्र दानं महद्भवेत् ॥ 027ac
अत्यल्पमपि यद्दानमेभिः षड्भिर्गुणैर्युतम् । 028a
भूत्वाऽनन्तं नयेत्स्वर्गं दातारं दोषवर्जितम् ॥ 028c
सुमहद्वाऽपि यद्दानं गुणैरेभिर्विनाकृतम् । 029a
अत्यल्पफलनिर्योगमफलं वा फलोद्धतम् ॥ 029c
उमोवाच । 030
एवङ्गुणयुतं दानं दत्तं च फलतां व्रजेत् । 030a
तदस्ति चेन्महद्देयं तन्मे शंसितुमर्हसि ॥ 030c
महेश्वर उवाच । 031
तदप्यस्ति महाभागे नराणां भावदोषतः ॥ 031ac
कृत्वा धर्मं तु विधिवत्पश्चात्तापं करोति चेत् । 032a
श्लाघया वा यदि ब्रूयाद्वृथा संसदिं यत्कृतम् ॥ 032c
प्रकल्पयेच्च मनसा तत्फलं प्रेत्यभावतः । 033a
कर्म धर्मकृतं यच्च सततं फलकाङ्क्षया । 033c
एतत्कृतं वा दत्तं वा परत्र विफलं भवेत् ॥ 033e
एते दोषा विवर्ज्याश्च दातृभिः पुण्यकाङ्क्षिभिः । 034a
सनातनमिदं वृत्तं सद्भिराचरितं तथा ॥ 034c
अनुग्रहात्परेषां तु गृहस्थानामृणं हि तत् । 035a
इत्येवं मन आविश्य दातव्यं सततं बुधैः ॥ 035c
एवमेव कृतं नित्यं सुकृतं तद्भवेन्महत् । 036a
सर्वसाधारणं द्रव्यमेवं दत्त्वा महत्फलम् ॥ ॥ 036c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 234 ॥