अध्यायः 233
महेश्वरेणोमां प्रति मांसभक्षणाभक्षणयोर्दोषगुणकथनम् ॥ 1 ॥ गुरुप्रशंसनपूर्वकं तत्पूजादिफलकथनम् ॥ 2 ॥ तथा तीर्थस्नानोपवासादिफलकथनम् ॥ 3 ॥
उमोवाच । 001
भक्षयन्त्यपरे मांसं वर्जयन्त्यपरे विभो । 001a
तन्मे वद महादेव भक्ष्याभक्ष्यविनिर्णयम् ॥ 001c
महेश्वर उवाच । 002
मांसस्य भक्षणे दोषो यश्चास्याभक्षणे गुणः । 002a
तदहं कीर्तयिष्यामि तन्निबोध यथातथम् ॥ 002c
इष्टं दत्तमधीतं च क्रतवश्च सदक्षिणाः । 003a
अमांसभक्षणस्यैव कलां नार्हन्ति षोडशीम् ॥ 003c
आत्मार्थं यः परप्राणान्हिस्यात्स्वादुफलेप्सया । 004a
व्यालगृध्रसृगालैश्च राक्षसैश्च समस्तु सः ॥ 004c
यो वृथा नित्यमांसाशी स पुमानधमो भवेत् । 005a
ततः कष्टतरं नास्ति स्वयमाहृत्य भक्षणात् ॥ 005c
स्वमांसं परमांसेन यो वर्धयितुमिच्छति । 006a
उद्विग्नवासं लभते यत्र यत्रोपजायते ॥ 006c
सञ्छेदनं स्वमांसस्य यथा सञ्जनयेद्रुजम् । 007a
तथैव परमांसेऽपि वेदितव्यं विजानता ॥ 007c
यस्तु सर्वाणि मांसानि यावज्जीवं न भक्षयेत् । 008a
स स्वर्गे विपुलं स्थानं लभते नात्र संशयः ॥ 008c
यत्तु वर्षशतं पूर्णं तप्यते परमं तपः । 009a
यच्चापि वर्जयेन्मांसं सममेतन्न वा समम् ॥ 009c
न हि प्राणैः प्रियतमं लोके किञ्चन विद्यते । 010a
तस्मात्प्राणिदया कार्या यथात्मनि तथा परे ॥ 010c
सर्वे यज्ञा न तत्कुर्युः सर्वे देवाश्च भामिनि । 011a
यो मांसरसमास्वाद्य पुनर्मासं विवर्जयेत् ॥ 011c
इत्येवं मुनयः प्राहुर्मांसस्याभक्षणे गुणाः । 012a
एवं बहुगुणं देवि नृणां मांसविवर्जनम् ॥ 012c
न शक्नुयाद्यदाऽतीव त्यक्तं मांसं कथञ्चन । 013a
पुण्यं तन्मासमात्रं वा वर्जनीयं विशेषतः ॥ 013c
न शक्नुयादपि तथा कौमुदीमासमेव च । 014a
जन्मनक्षत्रतिथिषु सदा पर्वसु रात्रिषु । 014c
वर्जनीयं तथा मांसं परत्र हितमिच्छता ॥ 014e
अशक्तः कारणान्मर्त्यो भोक्तुमिच्छेद्विधिं शृणु । 015a
अनेनि खादन्विधिना कलुषेण न लिप्यते ॥ 015c
सूनायां च गतप्राणान्क्रीत्वा न्यायेन भामिनि । 016a
ब्राह्मणातिथिपूजार्थं भोक्तव्यं हितमिच्छता ॥ 016c
भैषज्यकारणाद्व्याधौ खादन्पापैर्न लिप्यते । 017a
पितृशेषं तथैवाश्नन्मांसं नाशुभमृच्छति ॥ 017c
उमोवाच । 018
गुरुपूजा कथं देव क्रियते धर्मचारिभिः ॥ 018ac
महेश्वर उवाच । 019
गुरुपूजां प्रवक्ष्यामि यथावत्तव शोभने । 019a
कृतज्ञानां परो धर्म इति वेदानुशासनम् ॥ 019c
तस्मात्स्वगुरवः पूज्यास्ते हि पूर्वोपकारिणः । 020a
गुरूणां च गरीयांसस्त्रयो लोकेषु पूजिताः ॥ 020c
उपाध्यायः पिता माता सम्पूज्यास्ते विशेषतः । 021a
ये पितुर्भ्रातरो ज्येष्ठा ये च तस्यानुजास्तथा । 021c
पितुः पिता च सर्वे ते पूजनीयाः पिता तथा ॥ 021e
मातुर्या भगिनी ज्येष्ठा मातुर्या च यवीयसी । 022a
मातामही च धात्री च सर्वास्ता मातरः स्मृताः ॥ 022c
उपाध्यायस्य यः पुत्रो यश्च तस्य भवेद्गुरुः । 023a
ऋत्विग्गुरुः पिता चेति गुरवः सम्प्रकीर्तिताः ॥ 023c
ज्येष्ठो भ्राता नरेन्द्रश्च मातुलः श्वशुरस्तथा । 024a
भयत्राता च भर्ता च गुरवस्ते प्रकीर्तिताः ॥ 024c
इत्येष कथितः साध्वि गुरूणां सर्वसङ्ग्रहः । 025a
अनुवृत्तिं च पूजां च तेषामपि निबोध मे ॥ 025c
आराध्या मातापितरावुपाध्यायस्तथैव च । 026a
कथञ्चिन्नावमन्तव्या नरेण हितमिच्छता ॥ 026c
येन प्रीणन्ति पितरस्तेन प्रीतः प्रजापतिः । 027a
येन प्रीणाति चेन्माता प्रीताः स्युर्देवमातरः ॥ 027c
ये प्रीणात्युपाध्यायो ब्रह्मा तेनाभिपूजितः । 028a
अप्रीतेषु पुनस्तेषु नरो नरकमेति हि ॥ 028c
गुरूणां वैरनिर्बन्धो न कर्तव्यः कथञ्चन । 029a
नरः स्वगुरुमप्रीत्या मनसाऽपि न गच्छति ॥ 029c
न ब्रूयाद्विप्रियं तेषामनिष्टं न प्रवर्तयेत् । 030a
विगृह्य न वदेत्तेषां समीपे स्पर्धया क्वचित् ॥ 030c
यद्यदिच्छन्ति ते कर्तुमस्वतन्त्रस्तदाचरेत् । 031a
वेदानुशासनसमं गुरुशासनमिष्यते ॥ 031c
कलहांश्च विवादांश्च गुरुभिः सह वर्जयेत् । 032a
कैतवं परिहासांश्च मन्युकामाश्रयाः कथाः ॥ 032c
गुरूणां योऽनहंवादी करोत्याज्ञामतन्द्रितः । 033a
न तस्मात्सर्वमर्त्येषु विद्यते पुण्यकृत्तमः ॥ 033c
असूयामपवादं च गुरूणां परिवर्जयेत् । 034a
तेषां प्रियहितान्वेषी भूत्वा परिचरेत्सदा ॥ 034c
न तद्यज्ञफलं कुर्यात्तपो वाऽऽचरितं महत् । 035a
यत्कुर्यात्पुरुषस्येह गुरुपूजा सदा कृता ॥ 035c
अनुवृत्तेर्विना धर्मो नास्ति सर्वाश्रमेष्वपि । 036a
तस्मात्क्षमावृतः क्षान्तो गुरुवृत्तिं समाचरेत् ॥ 036c
स्वमर्थं स्वशरीरं च गुर्वर्थे सन्त्यजेद्बुधः । 037a
विवादं धनहेतोर्वा मोहाद्वा तैर्न रोचयेत् ॥ 037c
ब्रह्मचर्यमहिंसा च दानानि विविधानि च । 038a
गुरुभिः प्रतिषिद्धस्य सर्वमेतपार्थकम् ॥ 038c
उपाध्यायं पितरं मातरं च येऽभिद्रुह्युर्मनसा कर्मणा वा । 039a
तेषां पापं भ्रूणहत्याविशिष्टन्तेभ्यो नान्यः पापकृदस्ति लोके ॥ 039c
उमोवाच । 040
उपवासविधिं तत्र तन्मे शंसितुमर्हसि ॥ 040ac
महेश्वर उवाच । 041
शरीरमलशान्त्यर्थमिन्द्रियोच्छोषणाय च । 041a
एकभुक्तोपवासैस्तु धारयन्ते व्रतं नराः ॥ 041c
लभन्ते विपुलं धर्मं तथाऽऽहारपरिक्षयात् । 042a
बहूनामुपरोधं तु न कुर्यादात्मकारणात् ॥ 042c
जीवोपघातं च तथा स जीवन्धन्य इष्यते । 043a
तस्मात्पुण्यं लभेन्मर्त्यः स्वयमाहारकर्शनात् । 043c
तद्गृहस्थैर्यथाशक्ति कर्तव्यमिति निश्चयः ॥ 043e
उपवासार्दिते काये आपदर्शं पयो जलम् । 044a
भुञ्जन्न प्रतिघाती स्याद्ब्राह्मणाननुमान्य च ॥ 044c
उमोवाच । 045
ब्रह्मचर्यं कथं देव रक्षितव्यं विजानता ॥ 045ac
महेश्वर उवाच । 046
तदहं ते प्रवक्ष्यामि शृणु देवि समाहिता ॥ 046ac
ब्रह्मचर्यं परं शौचं ब्रह्मचर्यं परं तपः । 047a
केवलं ब्रह्मचर्येणि प्राप्यते परमं पदम् ॥ 047c
सङ्कल्पाद्दर्शनाच्चैव तद्युक्तवचनादपि । 048a
संस्पर्शादथ संयोगात्पञ्चधा रक्षितं व्रतम् ॥ 048c
व्रतवद्धारितं चैव ब्रह्मचर्यमकल्मषम् । 049a
नित्यं संरक्षितं तस्य नैष्ठिकानां विधियते । 049c
तदिष्यते गृहस्थानां कालमुद्दिश्य कारणम् ॥ 049e
जन्मनक्षत्रयोगेषु पुण्यवासेषु पर्वसु । 050a
देवताधर्मकार्येषु ब्रह्मचर्यव्रतं चरेत् ॥ 050c
ब्रह्मचर्यव्रतफलं लभेद्दारव्रती सदा । 051a
शौचमायुस्तथाऽऽरोग्यं लभ्यते ब्रह्मचारिभिः ॥ 051c
उमोवाच । 052
तीर्थचर्याव्रतं देव क्रियते धर्मकाङ्क्षिभि । 052a
कानि तीर्थानि लोकेषु तन्मे शंसितुमर्हसि ॥ 052c
महेश्वर उवाच । 053
हन्त ते कथयिष्यामि तीर्थस्नानविधिं प्रिये । 053a
पावनार्थं च शौचार्थं ब्रह्मणा निर्मितं पुरा ॥ 053c
यास्तु लोके महानद्यस्ताः सर्वास्तीर्थसञ्ज्ञिताः । 054a
तासां प्राक्स्रोतसः श्रेष्ठाः सङ्गमश्च परस्परम् । 054c
तासां सागरसंयोगो वरिष्ठश्चेति विद्यते ॥ 054e
तासामुभयतः कूलं तत्र तत्र मनीषिभिः । 055a
देवैर्वा सेवितं देवि तत्तीर्थं परमं स्मृतम् ॥ 055c
समुद्रश्च महातीर्थं पावनं परमं शुभम् । 056a
तस्य कूलगतास्तीर्था महद्भिश्च समाप्लुताः ॥ 056c
स्रोतसां पर्वतानां च जोषितानां महर्षिभिः । 057a
अपि कूपं नटाकं वा सेवितुं मुनिभिः प्रिये ॥ 057c
तत्तु तीर्थमिति ज्ञेयं प्रभावात्तु तपस्विनाम् । 058a
तदा प्रभृति तीर्थत्वं लेभे लोकहिताय वै ॥ 058c
एवं तीर्थं भवेद्देवि तस्य स्नानविधिं शृणु ॥ 059ac
जन्मना व्रतभूयिष्ठो गत्वा तीर्थानि काङ्क्षया । 060a
उपवासत्रयं कुर्यादेकं वा नियमान्वितः ॥ 060c
पुण्यमासेवते काले पौर्णमास्यां यथाविधि । 061a
बहिरेव शुचिर्भूत्वा तत्तीर्थं मन्मना विशेत् ॥ 061c
त्रिराप्लुत्य जलाभ्याशे दत्त्वा ब्राह्मणदक्षिणाम् । 062a
अभ्यर्च्य देवायतनं ततः प्रायाद्यथागतम् ॥ 062c
एतद्विधानं सर्वेषां तीर्थं तीर्थमिति प्रिये । 063a
समीपतीर्थस्नानात्तु दूरतीर्थं सुपूजितम् ॥ 063c
आदिप्रभृतिशुद्धस्य तीर्थस्नानं शुभं भवेत् । 064a
तपोर्थं पापनाशार्थं शौचार्थं तीर्थगाहनम् ॥ 064c
एवं पुण्येषु तीर्थेषु तीर्थस्नानं शुभं भवेत् । 065a
एतन्नैयमिकं सर्वं सुकृतं कथितं तव ॥ ॥ 065c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मिपर्वणि त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 233 ॥