अध्यायः 232

परमेश्वरेण पार्वतीं प्रति सुकृतस्य त्रेधा विभजनेन तल्लक्षणादिकथनम् ॥ 1 ॥

महेश्वर उवाच । 001
विधानं सुकृतस्यापि भूयः शृणु शुचिस्मिते । 001a
प्रोच्यते तत्त्रिधा देवि सुकृतं च समासतः ॥ 001c
यदौपरमिकं चैव सुकृतं निरुपद्रवम् । 002a
तथैव सोपकरणं तावता सुकृतं विदुः ॥ 002c
निवृत्तिः पापकर्मभ्यस्तदौपरमिकं प्रिये । 003a
मनोवाक्कायजा दोषाः शृणु मे वर्जनाच्छुभम् ॥ 003c
त्रैविध्यदोषोपरमे यस्तु दोषव्यपेक्षया । 004a
स हि प्राप्नोति सकलं सर्वदुष्कृतवर्जनात् ॥ 004c
प्रथमं वर्जयेद्दोषान्युगपत्पृथगेव वा । 005a
तथा धर्ममवाप्नोति दोषत्यागो हि दुष्करः । 005c
दोषसाकल्यसन्त्यागान्मुनिर्भवति मानवः ॥ 005e
सौकर्यं पश्य धर्मस्य कार्यारम्भादृतेऽपि च । 006a
आत्मा च लब्धोपरमो लभन्ते सुकृतं परम् ॥ 006c
अहो नृशंसाः पच्यन्ते मानुषाः स्वल्पबुद्धयः । 007a
एतादृशं न बुध्यन्ते आत्माधीनं न निर्व्यथाः ॥ 007c
दुष्कृतत्यागमात्रेण पदमूर्ध्वं हि लभ्यते ॥ 008ac
पापभीरुत्वमात्रेण दोषाणां परिवर्जनात् । 009a
सुशोभनो भवेद्देविऋरजुर्धर्मव्यपेक्षया । 009c
इत्यौपरमिकं देवि कथितं सुकृतं तव ॥ 009e
श्रुत्वा च वृद्धसंयोगादिन्द्रियाणां च निग्रहात् । 010a
सन्तोषाच्च धृतेश्चैव शक्यते दोषवर्जनम् ॥ 010c
तदेव धर्ममित्याहुर्दोषसंयमनं प्रिये । 011a
यमधर्मेण धर्मोस्ति नान्यः शुभतरः प्रिये । 011c
यमधर्मेण यतयः प्राप्नुवन्त्युत्तमां गतिम् ॥ 011e
ईश्वराणां प्रभवतां दरिद्राणां च वै नृणाम् । 012a
सफलो दोषसन्त्यागो दानादपि शुभादपि ॥ 012c
तपो दानं महादेवि दोषमल्पं हि निर्भरेत् । 013a
सुकृतं यामिकं चोक्तं वक्ष्ये निरुपसाधनम् ॥ 013c
सुखाभिसन्धिर्लोकानां सत्यं शौचमथार्जवम् । 014a
व्रतोपवासः प्रीतिश्च ब्रह्मचर्यं दमः शमः ॥ 014c
एवमादि शुभं कर्म सुकृतं नियमाश्रितम् । 015a
शृणु तेषां विशेषांश्च कीर्तयिष्यामि भामिनि ॥ 015c
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव । 016a
नास्ति सत्यात्परं दानं नास्ति सत्यात्परं तपः ॥ 016c
यथा श्रुतं यथा दृष्टमात्मना यद्यथा कृतम् । 017a
तथा तस्याविकारेण वचनं सत्यलक्षणम् ॥ 017c
यच्छलेनाभिसंयुक्तं सत्यरूपं मृषैव तत् । 018a
सत्यमेव प्रवक्तव्यं पारावर्यं विजानता ॥ 018c
दीर्घायुश्च भवेत्सत्यात्कुलसन्तानपालकः । 019a
लोकसंस्थितिपालश्च भवेत्सत्येन मानवः ॥ 019c
उमोवाच । 020
कथं सन्धारयन्मर्त्यो व्रतं शुभमवाप्नुयात् ॥ 020ac
महेश्वर उवाच । 021
पूर्वमुक्तं तु यत्पापं मनोवाक्कायकर्मभिः । 021a
व्रतवत्तस्य सन्त्यागस्तपोव्रतमिति स्मृतम् ॥ 021c
त्याज्यं वा यदि वा जोष्यमव्रतेनि वृथा चरन् । 022a
तथा फलं न लभते तस्माद्धर्मं वृथा चरेत् ॥ 022c
शुद्धकायो नरो भूत्वा स्नात्वा तीर्थ यथाविधि । 023a
पञ्चभूतानि चन्द्रार्कौ सन्ध्ये धर्मयमौ पितॄन् ॥ 023c
आत्मनैव तथाऽऽत्मानं निवेद्य व्रतवच्चरेत् । 024a
व्रतमामरणाद्वाऽपि कालच्छेदेन वा हरेत् ॥ 024c
शाकादिषु व्रतं कुर्यात्तथा पुष्पफलादिषु । 025a
ब्रह्मचर्यव्रतं कुर्यादुपवासव्रतं तथा ॥ 025c
एवमन्येषु बहुषु व्रतं कार्यं हितैषिणा । 026a
व्रतभङ्गो यथा न स्याद्रक्षितव्यं तथा बुधैः । 026c
व्रतभङ्गे महत्पापमिति विद्धि शुभेक्षणे ॥ 026e
औषधार्थं यदज्ञानाद्गुरूणां वचनादपि । 027a
अनुग्रहार्थं बन्धूनां व्रतभङ्गो न दुष्यते ॥ 027c
व्रतापवर्गकाले तु दैवब्राह्मणपूजनम् । 028a
नरेण तु यथा विद्धि कार्यसिद्धिं यथाऽऽप्तुयात् ॥ 028c
उमोवाच । 029
कथं शौचविधिस्तत्र तन्मे शंसितुमर्हसि ॥ 029ac
महेश्वर उवाच । 030
बाह्ममाभ्यन्तरं चेति द्विविधं शौचमिष्यते । 030a
मानसं सुकृतं यत्तच्छौचमाभ्यन्तरं स्मृतम् ॥ 030c
सदाऽऽहारविशुद्धिश्च कायप्रक्षालनं च यत् । 031a
बाह्यशौचं भवेदेतत्तथैवाचमनादिना ॥ 031c
मृच्चैव शुद्धदेशस्था गोशकृन्मूत्रमेव च । 032a
द्रव्याणि गन्धयुक्तानि यानि पुष्टिकराणि च । 032c
एतैः सम्मार्जयेत्कायमम्भसा च पुनः पुनः ॥ 032e
अक्षोभ्यं यत्प्रकीर्णं च नित्यस्रोतं च यज्जलम् । 033a
प्रायशस्तादृशे मज्जेदन्यथा च विवर्जयेत् ॥ 033c
त्रिस्त्रिराचमनं श्रेष्ठं निष्फेनैर्निर्मलैर्जलैः । 034a
तथा विण्मूत्रयोः शुद्धिरद्भिर्बहुमृदा भवेत् । 034c
तथैव जलसंशुद्धिर्यत्संशुद्धं तु संस्पृशेत् ॥ 034e
शकृता भूमिशुद्धिः स्याल्लौहानां भस्मना स्मृतम् । 035a
तक्षणं घर्षणं चैव दारवाणां विशोधनम् ॥ 035c
दहनं मृण्मयानां च मर्त्यानां कृच्छ्रधारणम् । 036a
शेषाणां देवि सर्वेषामातपेन जलेन च । 036c
ब्राह्मणानां च वाक्येन सदा संशोधनं भवेत् ॥ 036e
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते । 037a
एवमापदि संशुद्धिरेवं शौचं विधीयते । 037c
उमोवाच । 038
आहारशुद्धिस्तु कथं देवदेव महेश्वर ॥ 038ac
महेश्वर उवाच । 039
अमांसमद्यमक्लेद्यमपर्युषितमेव च । 039a
अतिकट्वम्ललवणहनं च शुभगन्धि च ॥ 039c
क्रिमिकेशमलैर्हीनं संवृतं शुद्धदर्शम् । 040a
एवंविधं सदाहार्यं देवब्राह्मणसात्कृतम् ॥ 040c
श्रुतमित्येव तज्ज्ञेयमन्यथा मन्यसेऽशुभम् । 041a
ग्राम्यादारण्यकैः सिद्धं श्रेष्ठमित्यवधारय ॥ 041c
अतिमात्रगृहीतात्तु अल्पदत्तं भवेच्छुचि । 042a
यज्ञशेषं हविःशेषं पितृशेषं च निर्मलम् । 042c
इति ते कथितं देवि भूयः किं श्रोतुमिच्छसि ॥ ॥ 042e

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥ 232 ॥