अध्यायः 231

परमेश्वरेण पार्वतीं प्रति शुभाशुभकर्मणां मानसिकत्वादिभेदेन त्रैविध्यकथनपूर्वकं तत्तत्फलनिरूपणम् ॥ 1 ॥ तथा मद्योत्पत्तिकारणादिकथनपूर्वकं तत्पानजदोषादिप्रतिपादनम् ॥ 2 ॥

उमोवाच । 001
भगवन्देवदेवेश शूलपाणे वृषध्वज । 001a
श्रुतं मे परमं गुह्यं प्रसादात्ते वरप्रद ॥ 001c
श्रोतुं भूयोऽहमिच्छामि प्रजानां हितकारणात् । 002a
शुभाशुभमिति प्रोक्तं कर्म स्वस्वं समासतः ॥ 002c
तन्मे विस्तरतो ब्रूहि शुभाशुभविधिं प्रति । 003a
अशुभं कीदृशं कर्म प्राणिनो यन्निपातयेत् ॥ 003c
शुभं वापि कथं देव प्रजानामूर्ध्वदं भवेत् । 004a
एतन्मे वद देवेश श्रोतुकामाऽस्मि कीर्तय ॥ 004c
महेश्वर उवाच । 005
तदहं ते प्रवक्ष्यामि तत्सर्वं शृणु शोभने । 005a
सुकृतं दुष्कृतं चेति द्विविधं कर्मविस्तरम् ॥ 005c
तयोर्यद्दुष्कृतं कर्म तच्च सञ्जायते त्रिधा । 006a
मनसा कर्मणा वाचा बुद्धिमोहसमुद्भवात् ॥ 006c
मनःपूर्वं तु वा कर्म वर्तते वाङ्मयं ततः । 007a
जायते वै क्रियायोगमनु चेष्टाक्रमः प्रिये ॥ 007c
अभिद्रोहोऽभ्यसूया च परार्थेषु च वै स्पृहा । 008a
शुभाशुभानां मर्त्यानां वर्तनं परिवारितम् ॥ 008c
धर्मकार्ये यदाऽश्रद्धा पापकर्मणि हर्षणम् । 009a
एवमाद्यशुभं कर्म मनसा पापमुच्यते ॥ 009c
अनृतं यच्च परुषमबद्धवचनं कटु । 010a
असत्यं परिवादश्च पापमेतत्तु वाङ्मयम् ॥ 010c
अगम्यागमनं चैव परदारनिषेवणम् । 011a
वधबन्धपरिक्लेशैः परप्राणोपतापनम् ॥ 011c
चौर्यं परेषां द्रव्याणां हरणं नाशनं तथा । 012a
अभक्ष्यभक्षणं चैव व्यसनेष्वविषङ्गता ॥ 012c
दर्पात्स्तम्भाभिमानाच्च परेषामुपतापनम् । 013a
अकार्याणां च करणमशौचं पानसेवनम् ॥ 013c
दौःशील्यं पापसम्पर्के साहाय्यं पापकर्मणि । 014a
अधर्म्यमयशस्यं च कार्यं तस्य निषेवणम् । 014c
एवमाद्यशुभं चान्यच्छारीरं पापमुच्यते ॥ 014e
मानसाद्वाङ्मयं पापं विशिष्टमिति लक्ष्यते । 015a
वाङ्मयादपि वै पापाच्छारीरं गण्यते बहु ॥ 015c
एवं पापयुतं कर्म त्रिविधं पातयेन्नरम् । 016a
परापकारजननमत्यन्तं पातकं स्मृतम् ॥ 016c
त्रिविधं तत्कृतं पापं कर्तारं पापकं नयेत् । 017a
पातकं चापि यत्कर्म कर्मणा बुद्धिपूर्वकम् ॥ 017c
सापदेशमवश्यं तत्कर्तव्यमिति तत्कृतम् । 018a
कथञ्चित्तत्कृतमपि कर्ता तेन स लिप्यते ॥ 018c
अवश्यं पापदेशेन प्रतिहृन्येत कारणम् ॥ 019ac
उमोवाच । 020
भगवन्पापकं कर्म यथा कृत्वा न लिप्यते ॥ 020ac
महेश्वर उवाच । 021
यो नरोऽनपराधी च स्वात्मप्राणस्य रक्षणात् । 021
शत्रुमुद्यतशस्त्रं वा पूर्वं तेन हतोपि वा । 021c
प्रतिहन्यान्नरो हिंस्यान्न स पापेन लिप्यते ॥ 021e
चोरादधिकसन्त्रस्तस्तत्प्रतीकारचेष्टया । 022a
यः प्रजघ्नन्नरो हन्यान्न स पापेन लिप्यते ॥ 022c
ग्रामार्थं भर्तृपिण्डार्थं दीनानुग्रहकारणात् । 023a
वधबन्धपरिक्लेशान्कुर्वन्पापात्प्रमुच्यते ॥ 023c
दुर्भिक्षे चात्मवृत्त्यर्थमेकायतनगस्तथा । 024a
अकार्यं वाऽप्यभक्ष्यं वा कृत्वा पापान्न लिप्यते 024c
विधिरेष गृहस्थानां प्रायेणैवोपदिश्यते । 025a
अवाच्यं वाऽप्यकार्यं वा देशकालवशेन तु ॥ 025c
बुद्धिपूर्व नरः कुर्वंस्तत्प्रयोजनमात्रया । 026a
किञ्चिद्वा लिप्यते पापैरथवा न च लिप्यते ॥ 026c
एवं देवि विजानीहि नास्ति तत्र विचारणा ॥ 027ac
उमोवाच । 028
भगवन्पानदोषांश्च पेयापेयत्वकारणम् । 028a
एतदिच्छाम्यहं श्रोतुं तन्मे वद महेश्वर ॥ 028c
महेश्वर उवाच । 029
हन्त ते कथयिष्यामि पानोत्पत्तिं शुचिस्मिते ॥ 029ac
पुरा सर्वेऽभवन्मर्त्या बुद्धिमन्तो नयानुगाः । 030a
शुचयश्च शुभाचाराः सर्वे चोन्मनसः प्रिये ॥ 030c
एवम्भूते तदा लोके प्रेष्यकृन्न परस्परम् । 031a
प्रेष्याभावान्मनुष्याणां कर्मारम्भो ननाश ह ॥ 031c
उभयोर्लोकयोर्नाशं दृष्ट्वा कर्मक्षयात्प्रभुः । 032a
यज्ञकर्म कथं लोके वर्तेतेति पितामहः ॥ 032c
आज्ञापयत्सुरान्देवि मोहयस्वेति मानुषान् । 033a
तमसः सारमुद्धृत्य पानं बुद्धिप्रणाशनम् । 033c
न्यपातयन्मनुष्येषु पापदोषावहं प्रिये ॥ 033e
तदाप्रभृति तत्पानान्मुमुहुर्मानवा भुवि । 034a
कार्याकार्यमजानन्तो वाच्यावाच्यं गुणागुणम् ॥ 034c
केचिद्धसन्ति तत्पीत्वा प्रवदन्ति तथा परे । 035a
नृत्यन्ति मुदिताः केचिद्गायन्ति च शुभाशुभान् । 035c
कलिं ते कुर्वतेऽभीष्टं प्रहरन्ति परस्परम् । 036a
क्वचिद्धावन्ति सहसा प्रस्खलन्ति पतन्ति च ॥ 036c
अयुक्तं बहु भाषन्ते यत्र क्वचन शोभने । 037a
नग्ना विक्षिप्य गात्राणि नष्टज्ञाना इवासते ॥ 037c
एवं बहुविधान्भावान्कुर्वन्ति भ्रान्तचेतनाः । 038a
ये पिबन्ति महामोहं पानं पापयुता नराः ॥ 038c
धृतिं लज्जां च बुद्धिं च पानं पीतं प्रणाशयेत् । 039a
तस्मान्नराः सम्भवन्ति निर्लज्जा निरपत्रपाः ॥ 039c
बुद्धिसत्वैः परिक्षीणास्तेजोहीना मलान्विताः । 040a
पीत्वापीत्वा तृषायुक्ताः पानपाः सम्भवन्ति च ॥ 040c
पानकामाः पानकथाः पानकालाभिकाङ्क्षिणः । 041a
पानार्थं कर्मवश्यास्ते सम्भवन्ति नराधमाः ॥ 041c
पानकामास्तृषायोगाद्बुद्धिसत्वपरिक्षयात् । 042a
पानदानां प्रेष्यकाराः पानपाः सहसाऽभवन् ॥ 042c
तदाप्रभृति वै लोके दीनैः पानवशैर्नरैः । 043a
कारयन्ति च कर्माणि बुद्धिमन्तस्तु पानपाः ॥ 043c
कारुत्वमथ दासत्वं प्रेष्यतामेत्य पानपाः । 044a
सर्वकर्मकराश्चासन्पशुवद्रज्जुबन्धिताः ॥ 044c
पानपस्तु सुरां पीत्वा तदा बुद्धिप्रणाशनात् । 045a
कार्याकार्यस्य चाज्ञानाद्यथेष्टकरणात्स्वयम् । 045c
विदुषामविधेयत्वात्पापमेवाभिपद्यते ॥ 045e
परिभूतो भवेल्लोके मद्यपो मित्रभेदकः । 046a
सर्वकालमशुद्धिं च सर्वभक्षस्तथा भवेत् ॥ 046c
विनष्टो ज्ञातिविद्वद्भ्यः सततं कलिभावगः । 047a
परुषं कटुकं घोरं वाक्यं वदति सर्वशः ॥ 047c
गुरूनतिवदेन्मत्तः परदारान्प्रधर्षयेत् । 048a
संविदं कुरुते शौण्डेर्न शृणोति हितं क्वचित् ॥ 048c
एवं बहुविधा दोषाः पानपे सन्ति शोभने । 049a
केवलं नरकं यान्ति नास्ति तत्र विचारणा । 049c
तस्मात्तद्वर्जितं सद्भिः पानमात्महितैषिभिः ॥ 049e
यदि पानं न वर्जेरन्सन्तश्चारित्रकारणात् । 050a
भवेदेतज्जगत्सर्वममर्यादं च निष्क्रियम् ॥ 050c
तस्माद्बुद्धेर्हि रक्षार्थं सद्भिः पानं विवर्जितम् । 051a
इति ते दुष्कृतं सर्वं कथितं त्रिविधं प्रिये ॥ ॥ 051c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकत्रिंशदधिकद्विशततमोऽद्यायः ॥ 231 ॥ 13-231-47 विनष्टो ज्ञानविद्वद्भ्य इति ङ.थ.पाठः ॥