अध्यायः 230
परमेश्वरेण पार्वतीं प्रति रौरवादिनरकविभजनपूर्वकं प्राणिनां दुष्कृततारतम्येन तेषु यातनानुभवप्रकारकथनम् ॥ 1 ॥ तथा यातनानुभवानन्तरं कर्मशेषफलतया नानानीचयोनिप्राप्त्यादिकथनम् ॥ 2 ॥
उमोवाच । 001
भगवंस्ते कथं तत्र दण्ड्यन्ते नरकेषु वै । 001a
कति ते नरका घोराः कीदृशास्ते महेश्वर ॥ 001c
महेश्वर उवाच । 002
शृणु भामिनि तत्सर्वं पञ्चैते नरकाः स्मृताः । 002a
भूमेरधस्ताद्विहिता घोरा दुष्कृतकर्मणाम् ॥ 002c
प्रथमं रौरवं नाम शतयोजनमायतम् । 003a
तावत्प्रमाणविस्तीर्णं तामसं पापपीडितम् ॥ 003c
भृशं दुर्गन्धि परुषं क्रिमिभिर्दारुणैर्वृतम् । 004a
अतिघोरमनिर्देश्यं प्रतिकूलं ततस्ततः ॥ 004c
ते चिरं तत्र तिष्ठन्ति न तत्र शयनासने । 005a
क्रिमिभिर्भक्ष्यमाणाश्च विष्ठागन्धसमायुताः ॥ 005c
एवम्प्रमाणमुद्विग्ना यावत्तिष्ठन्ति तत्र ते । 006a
यातनाभ्यो दशगुणं नरके दुःखमिष्यते ॥ 006c
तत्र चात्यन्तिकं दुःखमिष्यते च शुभेक्षणे 007a
क्रोशन्तश्च रुद्रन्तश्च वेदनास्तत्र भुञ्जते ॥ 007c
भ्रमन्ति दुःखमोक्षार्थं ज्ञाता कश्चिन्न विद्यते । 008a
दुःखस्यान्तरमात्रं तु ज्ञानं वा न च लभ्यते ॥ 008c
महारौरवसञ्ज्ञं तु द्वितीयं नरकं प्रिये । 009a
तस्माद्द्विगुणितं विद्धि माने दुःखे च रौरवात् ॥ 009c
तृतीयं नरकं तत्र कण्टिकावनसञ्ज्ञितम् । 010a
ततो द्विगुणितं तच्च पूर्वाभ्यां दुःखमानयोः । 010c
महापातकसंयुक्ता घोरास्तस्मिन्विशन्ति हि ॥ 010e
अग्निकुण्डमिति ख्यातं चतुर्थं नरकं प्रिये । 011a
एतद्द्विगुणितं तस्माद्यथानिष्टसुखं तथा ॥ 011c
ततो दुःखं हि सुमहदमानुषमिति स्मृतम् । 012a
भुञ्जते तत्र तत्रैव दुःखं दुष्कृतकारिणः ॥ 012c
तत्र दुःखमनिर्देश्यं वहद्धोरं यथा तथा । 013a
पञ्चेन्द्रियैरसम्बाधात्पञ्चकष्टमिति स्मृतम् । 013c
भुञ्जते तत्र तत्रैव दुःखं दुष्कृतकारिणः ॥ 013e
अमानुषार्हजं दुःखं महाभूतैश्च भुञ्जते । 014a
अतिघोरं चिरं कृत्वा महाभूतानि यान्ति तम् ॥ 014c
पञ्च् कष्टेन हि समं नास्ति दुःखं तथा परम् । 015a
दुःखस्थानमिति प्राहुः पञ्चकष्टमिति प्रिये ॥ 015c
एवं त्वेतेषु तिष्ठन्ति प्राणिनोः दुःखभागिनः । 016a
अन्ये च नरकाः सन्ति अवीचिप्रमुखाः प्रिये ॥ 016c
क्रोशन्तश्च रुदन्तश्च वेदनार्ता भृशातुराः । 017a
केचिद्भ्रमन्तश्चेष्टन्ते केचिद्धावन्ति चातुराः ॥ 017c
आधावन्तो निवार्यन्ते शूलहस्तैर्यतस्ततः । 018a
रुजार्दितास्तृषायुक्ताः प्राणिनः पापकारिणः ॥ 018c
यावत्पूर्वकृतं तावन्न मुच्यन्ते कथञ्चन । 019a
क्रिमिभिर्भक्ष्यमाणाश्च वेदनार्तास्तृषान्विताः ॥ 019c
संस्मरन्तः स्वकं पापं कृतमात्मापराधजम् । 020a
शोचन्तस्तत्र तिष्ठन्ति यावत्पापक्षयं प्रिये । 020c
एवं भुक्त्वा तु नरकं मुच्यन्ते पापसङ्क्षयात् ॥ 020e
उमोवाच । 021
भगवन्कतिकालं ते तिष्ठन्ति नरकेषु वै ॥ 021ac
महेश्वर उवाच । 022
शतवर्षसहस्राणामादिं कृत्वा हि जन्तवः । 022a
तिष्ठन्ति नरकावासाः प्रलयान्तमिति स्थितिः ॥ 022c
उमोवाच । 023
भगवंस्तेषु के तत्र तिष्ठन्तीति वद प्रभो ॥ 023ac
महेश्वर उवाच । 024
रौरवे शतसाहस्रं वर्षाणामिति संस्थितिः । 024a
मानुषघ्नाः कृतघ्नाश्च तथैवानृतवादिनः ॥ 024c
द्वितीये द्विगुणं कालं पच्यन्ते तादृशा नराः । 025a
महापातकयुक्तास्तु तृतीये दुःखमाप्नुयुः ॥ 025c
एतावन्मानुषसहं परमन्येषु लक्ष्यते ॥ 026ac
यक्षा विद्याधराश्चैव काद्रवेयाश्च किन्नराः । 027a
गन्धर्वभूतसङ्घाश्च तेषां पापयुता भृशम् । 027c
चतुर्थे परिपच्यन्ते तादृशा नरकाः स्मृताः ॥ 027e
चतुर्थे परितप्यन्ते यावद्युगविपर्ययः । 028a
सहन्तस्तादृशं घोरं पञ्चकष्टे तु यादृशम् । 028c
तत्रास्य चिरदुःखस्य ह्यधोन्यान्विद्धि मानुषान् ॥ 028e
एवं ते नरकान्भुक्त्वा तत्र क्षपितकल्मषाः । 029a
नरकेभ्यो विमुक्ताश्च जायन्ते कृमिजातिषु ॥ 029c
उद्भेदजेषु वा केचिदत्रापि क्षीणकल्मषाः । 030a
पुनरेव प्रजायन्ते मृगपक्षिषु शोभने । 030c
मृगपक्षिषु तद्भुक्त्वा लभन्ते मानुषं पदम् ॥ 030e
उमोवाच । 031
नानाजातिषु केनैव जायन्ते पापकारिणः ॥ 031ac
महेश्वर उवाच । 032
तदहं ते प्रवक्ष्यामि यत्त्वमिच्छसि शोभने । 032a
सर्वदाऽऽत्मा कर्मवशो नानाजातिषु जायते ॥ 032c
यश्च मांसप्रियो नित्यं काकगृध्नान्स संस्पृशेत् । 033a
सुरापः सततं मर्त्यः सूकरत्वं व्रजेद्भुवम् ॥ 033c
अभक्ष्यभक्षणो मर्त्यः काकजातिषु जायते । 034a
आत्मघ्नो यो नरः कोपात्प्रेतजातिषु तिष्ठति ॥ 034c
पैशुन्यात्परिवादाच्च कुक्कुटत्वमवाप्नुयात् । 035a
नास्तिकश्चैव यो मूर्खो मृगजातिं स गच्छति ॥ 035c
हिंसाविहारस्तु नरः क्रिमिकीटेषु जायते । 036a
अतिमानयुतो नित्यं प्रेत्य गर्दभतां व्रजेत् ॥ 036c
अगम्यागमनाच्चैव परदारनिषेवणात् । 037a
मूषिकत्वं व्रजेन्मर्त्यो नास्ति तत्र विचारणा ॥ 037c
कृतघ्नो मित्रघाती च सृगालवृकजातिषु । 038a
कृतघ्नः पुत्रघाती च स्थावरेष्वथ तिष्ठति ॥ 038c
एवमाद्यशुभं कृत्वा नरा निरयगामिनः । 039a
तांस्तान्भावान्प्रपद्यन्ते स्वकृतस्यैव कारणात् ॥ 039c
एवञ्जातिषु निर्देश्याः प्राणिनः पापकारिणः । 040a
कथञ्चित्पुनरुत्पद्यि लभन्ते मानुषं पदम् ॥ 040c
बहुशश्चाग्निसङ्क्रान्तं लोहं शुचिमयं तथा । 041a
बहुदुःखाभिसन्तप्तस्तथाऽऽत्मा शोध्यते बलात् । 041c
तस्मात्सुदुर्लभं चेति विद्धि जन्मसु मानुषम् ॥ ॥ 041e
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिंशदधिकद्विशततमोऽध्यायः ॥ 230 ॥