अध्यायः 229

महादेवेन देवीं प्रति यमनगरतन्मार्गादिप्रतिपादनपूर्वकं पापिनां यातनानुभवप्रकारादिप्रतिपादनम् ॥ 1 ॥

उमोवाच । 001
भगवन्सर्वलोकेश त्रिपुरार्दन शङ्कर । 001a
कीदृशा यमदण्डास्ते कीदृशाः परिचारकाः ॥ 001c
कथं मृतास्ते गच्छन्ति प्राणिनो यमसादनम् । 002a
कीदृशं भवनं तस्य कथं दण्डयति प्रजाः । 002c
एतत्सर्वं महादेव श्रोतुमिच्छाम्यहं प्रभो ॥ 002e
महेश्वर उवाच । 003
शृणु कल्याणि तत्सर्वं यत्ते देवि मनःप्रियम् । 003a
दक्षिणस्यां दिशि शुभे यमस्य सदनं महत् ॥ 003c
विचित्रं रमणीयं च नानाभावसमन्वितम् । 004a
पितृभिः प्रेतसङ्घैश्च यमदूतैश्च सन्ततम् ॥ 004c
प्राणिसङ्घैश्च बहुभिः कर्मवश्यैश्च पूरितम् । 005a
तत्रास्ते दण्डयन्नित्यं यमो लोकहिते रतः ॥ 005c
मायया सततं वेत्ति प्राणिनां यच्छुभाशुभम् । 006a
मायया संहरंस्तत्र प्राणिसङ्घान्यतस्ततः ॥ 006c
तस्य मायामयाः पाशा न वेद्यन्ते सुरासुरैः । 007a
को हि मानुषमात्रस्तु देवस्य चरितं महत् ॥ 007c
एवं संवसतस्तस्य यमस्य परिचारकाः । 008a
गृहीत्वा सन्नयन्त्येव प्राणिनः क्षीणकर्मणः । 008c
यन केनापदेशेन त्वपदेशसमुद्भवाः ॥ 008e
कर्मणा प्राणिनो लोके उत्तमाधममध्यमाः । 009a
यथार्हं तान्समादाय नयन्ति यमसादनम् ॥ 009c
धार्मिकानुत्तमान्विद्धि स्वर्गिणस्ते यथाऽमराः । 010a
त्रिषु जन्म लभन्ते ये कर्मणा मध्यमाः स्मृताः । 010c
तिर्यङनरकगन्तारो ह्यधमास्ते नराधमाः ॥ 010e
पन्थानस्त्रिविधा दृष्टाः सर्वेषां गतजीविनाम् । 011a
रमणीयं निराबाधं दुर्दर्शमिति नामतः ॥ 011c
रमणीयं तु यन्मार्गं पताकाध्वजसङ्कुलम् । 012a
धूपितं सिक्तसम्मृष्टं पुष्पमालाभिसङ्कुलम् ॥ 012c
मनोहरं सुखस्पर्शं गच्छतामेव तद्भवेत् । 013a
निराबाधं यथालोकं सुप्रशस्तं कृतं भवेत् ॥ 013c
तृतीयं यत्तु दुर्दर्शं दुर्गन्धि तमसा वृतम् । 014a
परुषं शर्कराकीर्णं श्वदंष्ट्राबहुलं भृशम् । 014c
किमिकीटसमाकीर्णं भजतामतिदुर्गमम् ॥ 014e
मार्गैरेवं त्रिभिर्नित्यमुत्तमाधममध्यमान् । 015a
सन्नयन्ति यथा काले तन्मे शृणु शुचिस्मिते ॥ 015c
उत्तमानन्तकाले तु यमदूताः सुसंवृताः । 016a
नयन्ति सुखमादाय रमणीयपथेन वै ॥ 016c
उमोवाच । 017
भगवंस्तत्र चात्मानं त्यक्तदेहं निराश्रयम् । 017a
अदृश्यं कथमादाय सन्नयन्ति यमान्तिकम् ॥ 017c
महेश्वर उवाच । 018
शृणु भामिनि तत्स्रवं त्रिविधं देहकारणम् । 018a
कर्मवश्यं भोगवश्यं दुःखवश्यमिति प्रिये ॥ 018c
मानुषं कर्मवश्यं स्याद्द्वितीयं भोगसाधनम् । 019a
तृतीयं यातनावश्यं शरीरं मायया कृतम् । 019c
यमलोके न चान्यत्र दृश्यते यातनायुतम् ॥ 019e
शरीरैर्यातनावश्यैर्जीवानामुच्य भामिनि । 020a
नयन्ति यामिकास्तत्र प्राणिनो मायया मृतान् ॥ 020c
मध्यमान्योधवेषेण मध्यमेन पथा तथा ॥ 021ac
चण्डालवेषास्त्वधमान्गृहीत्वा भर्त्सतर्जनैः । 022a
आकर्षन्तस्तथा पाशैर्दुर्दर्शेन नयन्ति तान् ॥ 022c
त्रिविधानेवमादाय नयन्ति यमसादनम् । 023a
धर्मासनगतं दक्षं भ्राजमानं स्वतेजसा ॥ 023c
लोकपालं सहाध्यक्षं तथैव परिषद्गतम् । 024a
दर्शयन्ति महाभागे यामिकास्तं निवेद्य ते ॥ 024c
पूजयन्दण्डयन्कांश्चित्तेषां शृण्वञ्शुभाशुभम् । 025a
व्याहृतो बहुसाहस्रैस्तत्रास्ते सततं यमः ॥ 025c
गतानां तु यमस्तेषामुत्तमानभिपूजया । 026a
अभिसङ्गृह्य विधिवत्पृष्ट्वा स्वागतकौशलम् । 026c
प्रस्तुत्य तत्कृतं तेषां लोकं सन्दिशते यमः ॥ 026e
यमेनैवमनुज्ञाता यान्ति पश्चात्त्रिविष्टपम् ॥ 027ac
मध्यमानां यमस्तेषां श्रुत्वा कर्म यथातथम् । 028a
जायन्तां मानुषेष्वेव इति सन्दिशते च तान् ॥ 028c
अधमान्पाशसंयुक्तान्यमो नावेक्षते गतान् । 029a
यमस्य पुरुषा घोराश्चण्डालसमदर्शनाः । 029c
यातनाः प्रापयन्त्येताल्ँलोकपालस्य शासनात् ॥ 029e
भिन्दन्तश्च तुदन्तश्च प्रकर्षन्तो यतस्ततः । 030a
क्रोशन्तः पातयन्त्येतान्मिथो गर्तेष्ववाङ्मुखान् ॥ 030c
संयामिन्यः शिलास्तेषां पतन्ति शिरसि प्रिये । 031a
अयोमुखाः कङ्कवला भक्षयन्ति सुदारुणाः ॥ 031c
असिपत्रवने घोरे चारयन्ति तथा परान् । 032a
तीक्ष्णदंष्ट्रास्तथा श्वानः कांश्चित्तत्र ह्यदन्ति वै ॥ 032c
तत्र वैतरणी नाम नदी ग्राहसमाकुला । 033a
दुष्प्रवेशा च घोरा च मूत्रशोणितवाहिनी । 033c
तस्यां सम्मज्जयन्त्येते तृषितान्पाययन्ति तान् ॥ 033e
आरोपयन्ति वै कांश्चित्तत्र कण्टकशल्मलीम् । 034a
यन्त्रचक्रेषु तिलवत्पीड्यन्ते तत्र केचन ॥ 034c
अङ्गरेषु च दह्यन्ते तथा दुष्कृतकारिणः । 035a
कुम्भीपाकेषु पच्यन्ते पच्यन्ते सिकतासु वै ॥ 035c
पाठ्यन्ते तरुवच्छस्त्रैः पापिनः क्रकचादिभिः । 036a
भिद्यन्ते भागशः शूलैस्तुद्यन्ते सूक्ष्मसूचिभिः ॥ 036c
एवं त्वया कृतं दोषं तदर्थं दण्डनं त्विति । 037a
वाचैव घोषयन्ति स्म दण्डमानाः समन्ततः ॥ 037c
एवं ते यातनां प्राप्य शरीरैर्यातनाशयैः । 038a
प्रसहन्तश्च तद्दुःखं स्मरन्तः स्वापराधजम् ॥ 038c
क्रोशन्तश्च रुद्रन्तश्च न मुच्यन्ते कथञ्चन । 039a
स्मरन्तस्तत्र तप्यन्ते पापमात्मकृतं भृशम् ॥ 039c
एवं बहुविधा दण्डा भुज्यन्ते पापकारिभिः । 040a
यातनाभिश्च पच्यन्ते नरकेषु पुनः पुनः ॥ 040c
अपरे यातनां भुक्त्वा मुच्यन्ते तत्र किल्बिषात् । 041a
पापदोषक्षयकरा यातनाः संस्मृता नृणाम् । 041c
बहुतप्तं यथा लोहममलं तत्तथा भवेत् ॥ ॥ 041e

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनत्रिंशदधिकद्विशततमोऽध्यायः ॥ 229 ॥