अध्यायः 228
परमेश्वरेण पार्वतीं प्रति प्राणिनां फलनिष्पत्तौ दैवपुरुषकारयोः परस्परसापेक्षत्वेन साधनत्वोक्तिः ॥ 1 ॥ तथाऽण्डजरायुजानां गर्भप्रवेशादिप्रकारकथनम् ॥ 2 ॥
उमोवाच । 001
भगवन्सर्वभूतेश लोके कर्मक्रियापथे । 001a
दैवात्प्रवर्तते सर्वमिति केचिद्व्यवस्थिताः ॥ 001c
अपरे चेष्टया चेति दृष्ट्वा प्रत्यक्षतः क्रियाम् । 002a
पक्षभेदे द्विधा चास्मिन्संशयस्थं मनो मम । 002c
तत्त्वं वद महादेव श्रोतुं कौतूहलं हि मे ॥ 002e
महेश्वर उवाच । 003
तदहं ते प्रवक्ष्यामि शृणु तत्वं समाहिता । 003a
तदेवं कुरुते कर्म लोके देवि शुभाशुभम् ॥ 003c
लक्ष्यते द्विविधं कर्म मानुषेष्वेव तच्छृणु । 004a
पुराकृतं तयोरेकमैहिकं त्वितरस्तथा ॥ 004c
अदृष्टपूर्वं यत्कर्म तद्दैवमिति लक्ष्यते । 005a
विहीनं दृष्टकरणं तन्मानुषमिति स्मृतम् ॥ 005c
मानुषं तु क्रियामात्रं दैवात्सम्भवते फलम् । 006a
एवं तदुभयं कर्म मानुषं विद्धि तन्नृषु ॥ 006c
लौकिकं तु प्रवक्ष्यामि दैवमानुषनिर्मितम् । 007a
कृषौ तु दृश्यते कर्म कर्षणं वपनं तथा ॥ 007c
रोपणं चैव लवनं यच्चान्यत्पौरुषं स्मृतम् । 008a
दैवादसिद्धिश्च भवेद्दुष्कृतं चास्ति पौरुषे ॥ 008c
सुयत्नाल्लभ्यते कीर्तिर्दुर्यत्नादयशस्तथा । 009a
एवं लोकगतिर्देवि आदिप्रभृति वर्तते ॥ 009c
उमोवाच । 010
भगवन्सर्वलोकेश सुरासुरनमस्कृत । 010a
कथमात्मा सदा गर्भं संविशेत्कर्मकारणात् । 010c
तन्मे वद महादेव तद्धि गुह्यं परं मतम् ॥ 010e
महेश्वर उवाच । 011
शृणु भामिनि तत्सर्वं गुह्यानां परमं प्रिये । 011a
देवगुह्यादपि परमात्मगुह्यमिति स्मृतम् ॥ 011c
देवासुरास्तन्न विदुरात्मनो हि गतागतम् । 012a
अदृश्यो हि सदैवात्मा जनैः सौक्ष्म्यान्निराश्रयात् ॥ 012c
अतिमायेति मायानामात्ममाया सेदष्यते । 013a
सोयं चतुर्विधां जातिं संविशत्यात्ममायया । 013c
मैथुनं शोणितं बीजं दैवमेवात्र कारणम् ॥ 013e
बीजशोणितसंयोगो यदा सम्भवते शुभे । 014a
तदाऽऽत्मा विशते गर्भमेवमण्डजरायुजे ॥ 014c
एवं संयोगकाले तु आत्मा गर्भत्वमेयिवान् ॥ 015ac
कलिलाज्जायते पिण्डं पिण्डात्पेश्यर्बुदं भवेत् । 016a
व्यक्तिभावगतं चैव कर्म त्वाश्रयते क्रमात् ॥ 016c
एवं विवर्धमानेन कर्मात्मा सह वर्धते । 017a
एवमात्मगतिं विद्धि यन्मां पृच्छसि सुप्रभे ॥ 017c
रोपणं चैव लवनं यच्चान्यत्पौरुषं स्मृतम् ॥ 018ac
काले वृष्टिः सुवापं च प्ररोहः पक्तिरेव च । 019a
एवमादि तु यच्चान्यत्तद्दैवतमिति स्मृतम् ॥ 019c
पञ्चभूतस्थितिश्चैव ज्योतिषामयनं तथा । 020a
अबुद्धिगम्यं यन्मर्त्यैर्हेतुभिर्वा न विद्यते ॥ 020c
तादृशं कारणं दैवं शुभं वा यदि वेतरत् । 021a
यादृशं चात्मना शक्यं तत्पौरुषमिति स्मृतम् ॥ 021c
केवलं फलनिष्पत्तिरेकेन तु न शक्यते । 022a
पौरुषेणैव दैवेनि युगपद्ग्रथितं प्रिये । 022c
तयोः समाहितं कर्म शीतोष्णं युगपत्तथा ॥ 022e
पौरुषं तु तयोः पूर्वमारब्धव्यं विजानता । 023a
आत्मना तु न शक्यं हि न तथा कीर्तिमाप्नुयात् ॥ 023c
खननान्मथनाल्लोके जलाग्निप्रापणं यथा । 024a
तथा पुरुषकारे तु दैवसम्पत्समाहिता ॥ 024c
नरस्याकुर्वतः कर्म दैवसम्पन्न लभ्यते । 025a
तस्मात्सर्वसमारम्भो दैवमानुषनिर्मितः ॥ 025c
असुरा राक्षसाश्चैव मन्यन्ते लोकनाशनाः । 026a
पश्यन्ते न च ते पापाः केवलं मांसभक्षणाः ॥ 026c
प्रच्छादितं हि तत्सर्वं गूढमाया हि देवताः । 027a
तदहं ते प्रवक्ष्यामि देवि गुह्यं पुरस्सरम् ॥ 027c
आदिकाले नराः सर्वे कृत्वा कर्म शुभाशुभम् । 028a
भुञ्जते पश्यमानास्ते वृत्तान्तं लोकयोर्द्वयोः ॥ 028c
यथैवात्मकृतं विद्युर्देशान्तरगता नराः । 029a
विद्युस्तथैवान्तकाले सुकृतं पौर्वदैहिकम् ॥ 029c
एवं व्यवस्थिते लोके सर्वे धर्मरताऽभवन् । 030a
अचिरेणैव कालेन स्वर्गः सम्पूरितस्तदा ॥ 030c
देवानामपि सम्बाधं दृष्ट्वा ब्रह्माऽप्यचिन्तयत् । 031a
सञ्चरन्ते कथं स्वर्गं मानुषाः प्रविशन्ति हि ॥ 031c
इत्येवमनुचिन्त्यैव मानुषान्सममोहयत् । 032a
तदाप्रभृति ते मर्त्या न विदुस्ते पुराकृतम् ॥ 032c
कामक्रोधौ तु तत्काले मानुषेष्ववपातयत् । 033a
ताभ्यामभिहता मर्त्याः स्वर्गलोकं न पेदिरे ॥ 033c
पुराकृतस्याविज्ञानात्कामक्रोधाभिपीडिताः । 034a
नैतदस्तीति मन्वाना विकारंश्चक्रिरे पुनः ॥ 034c
अकार्यादिमहादोषानाहरन्त्यात्मकारणात् । 035a
विस्मृत्य धर्मकार्याणि परलोकभयं तदा ॥ 035c
एवं व्यवस्थिते लोके कश्मलं समपद्यत । 036a
लोकानां चैव देवानां क्षयायैव तथा प्रिये । 036c
नरकाः पूरिताश्चासन्प्राणिभिः पापकारिभिः ॥ 036e
पुनरेव तु तान्दृष्ट्वा लोककर्ता पितामहः । 037a
अचिन्तयत्तमेवार्थं लोकानां हितकारणात् । 037c
समत्वेन कथं लोके वर्तेतेति मुहुर्मुहुः ॥ 037e
चिन्तयित्वा तदा ब्रह्मा ज्ञानेन तपसा प्रिये । 038a
अकरोज्ज्ञानदृश्यं तत्परलोकं न चक्षुषा ॥ 038c
उमोवाच । 039
भगवन्मृतमात्रस्तु योयं जात इति स्मृतः । 039a
तथैव दृश्यते जातस्तत्रात्मा तु कथं भवेत् ॥ 039c
गर्भादावेव संविष्ट आत्मा तु भगवन्मम । 040a
एष मे संशयो देव तन्मे छेत्तुं त्वमर्हसि ॥ 040c
महेश्वर उवाच । 041
तदहं ते प्रवक्ष्यामि शृणु तत्वं समाहिता ॥ 041ac
अन्यो गर्भगतो भूत्वा तत्रैव निधनं गतः । 042a
पुनरन्यच्छरीरं तत्प्रविश्य भुवि जायते । 042c
तत्वविन्नैव सर्वस्तु दैवयोगस्तु सम्भवेत् ॥ 042e
सूतिकाया हितार्थं च मोहनार्थं च देहिनाम् । 043a
समकर्मविधानत्वादित्येवं विद्धि शोभने ॥ 043c
काङ्क्षमाणास्तु नरकं भुक्त्वा केचित्प्रयान्ति हि । 044a
मायासंयामिका नाम यज्जन्ममरणान्तरे । 044c
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ 044e
उमोवाच । 045
भगवन्सर्वलोकेश लोकनाथ वृषध्वज । 045a
नास्त्यात्मा कर्मभोक्तेति मृतो जन्तुर्न जायते ॥ 045c
स्वभावाज्जायते सर्वं यथा वृक्षफलं तथा । 046a
यथोर्मयः सम्भवन्ति तथैव जगदाकृतिः ॥ 046c
तपोदानानि यत्कर्म तत्र तद्दृश्यते वृथा । 047a
नास्ति पौनर्भवं जन्म इति केचिद्व्यवस्थिताः ॥ 047c
परोक्षवचनं श्रुत्वा न प्रत्यक्षस्य दर्शनात् । 048a
तत्सर्वं नास्तिनास्तीति संशयस्थास्तथा परे ॥ 048c
पक्षभेदान्तरे चास्मिंस्तत्वं मे वक्तुमर्हसि । 049a
उक्तं भगवता यत्तु तत्तु लोकस्य संस्थितिः ॥ 049c
प्रश्नमेतत्तु पृच्छत्या रुद्राण्या परिषत्तदा । 050a
कौतूहलयुता श्रोतुं समाहितमनाऽभवत् ॥ 050c
महेश्वर उवाच । 051
नैतदस्ति महाभागे यद्वदन्तीह नास्तिकाः । 051a
एतदेवाभिशस्तानां श्रुतविद्वेषिणां मतम् ॥ 051c
सर्वमर्थं श्रुतं दृष्टं यत्प्रागुक्तं मया तव । 052a
तदाप्रभृति मर्त्यानां श्रुतमाश्रित्य पण्डिताः ॥ 052c
कामान्सञ्छिद्य परिगान्धृत्या वै परमासिना । 053a
अभियान्त्येव ते स्वर्गं पश्यन्तः कर्मणः फलम् ॥ 053c
एवं श्रद्धाफलं लोके परतः सुमहत्फलम् । 054a
बुद्धिः श्रद्धा च विनयः कारणानि हितैषिणाम् ॥ 054c
तस्मात्स्वर्गाभिगन्तारः कतिचित्त्वभवन्नराः । 055a
अन्ये करणहीनत्वान्नास्तिक्यं भावमाश्रिताः ॥ 055c
श्रुतविद्वेषिणो मूर्खा नास्तिका दृढनिश्चयाः । 056a
निष्क्रियास्तु निरन्नादाः पतन्त्येवाधमां गतिम् ॥ 056c
नास्त्यस्तीति पुनर्जन्म कवयोऽप्यत्र मोहिताः । 057a
नाधिगच्छन्ति तन्नित्यं हेतुवादशतैरपि ॥ 057c
एषा ब्रह्मकृता माया दुर्विज्ञेया सुरासुरैः । 058a
किम्पुनर्मानवैर्लोके ज्ञातुकामैः कुबुद्धिभिः ॥ 058c
केवलं श्रद्धया देवि श्रुतमात्मनिविष्टया । 059a
ततोस्तीऽत्येव मन्तव्यं तथा हितमवाप्नुयात् ॥ 059c
दैवगुह्येषु चान्येषु हेतुर्देवि निरर्थकः । 060a
बधिरान्धवदेवात्र वर्तितव्यं हितैषिणा । 060c
एतत्ते कथितं देवि ऋषिगुह्यं प्रजाहितम् ॥ ॥ 060e
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टाविंशत्यधिकद्विशततमोऽध्यायः ॥ 228 ॥