अध्यायः 227
ईश्वरेणोमां प्रति प्राणिनामुद्भिदादिभेदेन चातुर्विध्यादिनिरूपणम् ॥ 1 ॥ तथा शास्त्रजन्यज्ञानस्य श्रेयः साधनत्वाद्युक्तिः ॥ 2 ॥
उमोवाच । 001
भगवन्देवदेवेश कर्मणैव शुभाशुभम् । 001a
यथायोगं फलं जन्तुः प्राप्नोतीति विनिश्चयः ॥ 001c
परेषां विप्रियं कुर्वन्यथा सम्प्राप्नुयाच्छुभम् । 002a
यद्येतदस्मिंश्चेद्देहे तन्मे शंसितुमर्हसि ॥ 002c
महेश्वर उवाच । 003
तदप्यस्ति महाभागे अभिसन्धिबलान्नृणम् । 003a
हितार्थं दुःखमन्येषां कृत्वा सुखमवाप्नुयात् ॥ 003c
दण्डयन्भर्त्सयन्राजा जनान्पुण्यमवाप्नुयात् । 004a
गुरुः सन्तर्जयञ्शिष्यान्भर्ता भृत्यजनान्स्वकान् । 004c
उन्मार्गप्रतिपन्नांश्च शास्ता धर्मफलं लभेत् ॥ 004e
चिकित्सकश्च दुःखानि जनयन्हितमाप्नुयात् । 005a
यज्ञार्थं पशुहिंसां च कुर्वन्नपि न लिप्यते । 005c
एवमन्ये सुमनसो हिंसकाः स्वर्गमाप्नुयुः ॥ 005e
एकस्मिन्निहते भद्रे बहवः सुखमाप्नुयुः । 006a
तस्मिन्हते भवेद्धर्मः कुत एव तु पातकम् ॥ 006c
अहिंसतेति हत्वा तु शुद्धे कर्मणि गौरवात् । 007a
अभिसन्धेरजिह्मत्वाच्छुद्धे धर्मस्य गौरवात् । 007c
एतत्कृत्वा तु पापेभ्यो न दोषं प्राप्नुयुः क्वचित् ॥ 007e
उमोवाच । 008
चतुर्विधानां जन्तूनां कथं ज्ञानमिह स्मृतम् । 008a
कृत्रिमं तत्स्वभावं वा तन्मे शंसितुमर्हसि ॥ 008c
महेश्वर उवाच । 009
स्थावरं जङ्गमं चैव जगद्द्विविधमुच्यते । 009a
चतस्रो योनयस्तत्र प्रजानां क्रमशो यथा ॥ 009c
तेषामुद्भिदजा वृक्षा लतावल्ल्यश्च वीरुधः । 010a
दंशयूकादयश्चान्ये स्वेदजाः क्रिमिजातयः ॥ 010c
पक्षिणश्छिद्रकर्णाश्च प्राणिनस्त्वण्डजा मताः । 011a
मृगव्यालमनुष्यांश्च विद्धि तेषां जरायुजान् ॥ 011c
एवं चतुर्विधां जातिमात्मा संसृत्य तिष्ठति ॥ 012ac
स्पर्शेनैकेन्द्रियेणात्मा तिष्ठत्युद्भिदजेषु वै । 013a
शरीरस्पर्शरूपाभ्यां स्वेदजेष्वपि तिष्ठति ॥ 013c
पञ्चभिश्चेन्द्रियद्वारैर्जीवन्त्यण्डजरायुजाः ॥ 014ac
तथा भूम्यम्बुसंयोगाद्भवन्त्युद्भिदजाः प्रिये । 015a
शीतोष्णयोस्तु संयोगाज्जायन्ते स्वेदजाः प्रिये । 015c
अण्डजाश्चापि जायन्ते संयोगात्क्लेदबीजयोः ॥ 015e
शुक्लशोणितसंयोगात्सम्भवन्ति जरायुजाः । 016a
जरायुजानां सर्वेषां मानुषं पदमुत्तमम् ॥ 016c
अतःपरं तमोत्पत्तिं शृणु देवि समाहिता । 017a
द्विविधं हि तमो लोके शार्वरं देहजं तथा ॥ 017c
जोतिर्भिश्च तमो लोके नाशं गच्छति शार्वरम् । 018a
देहजं तु तमो लोके तैः समस्तैर्न शाम्यते ॥ 018c
तमसस्तस्य नाशार्थं नोपायमधिजग्मिवान् । 019a
तपश्चचार विपुलं लोककर्ता पितामहः ॥ 019c
चरतस्तु समुद्भूता वेदाः साङ्गाः सहोत्तराः । 020a
ताल्ँलब्ध्वा मुमुदे ब्रह्मा लोकानां हितकाम्यया । 020c
देहजं तु तमो घोरमभूत्तैरेव नाशितम् ॥ 020e
कार्याकार्यमिदं चेति वाच्यावाच्यमिदं त्विति । 021a
यदि चेन्न भवेल्लोके श्रुतं चारित्रदैशिकम् । 021c
पशुभिर्निर्विशेषं तु चेष्टन्ते मानुषा अपि ॥ 021e
यज्ञादीनां समारम्भः श्रुतेनैव विधीयते । 022a
यज्ञस्य फलयोगेन देवलोकः समृद्ध्यते ॥ 022c
प्रीतियुक्ताः पुनर्देवा मानुषाणां भवन्त्युत । 023a
एवं नित्यं प्रवर्धेते रोदसी च परस्परम् ॥ 023c
लोकसन्धारणं तस्माच्छ्रुतमित्यवधारय । 024a
ज्ञानाद्विशिष्टं जन्तूनां नास्ति लोकत्रयेऽपि च ॥ 024c
सहजं तत्प्रधानं स्यादपरं कृत्रिमं स्मृतम् । 025a
उभयं यत्र सम्पन्नं भवेत्तत्र तु शोभनम् ॥ 025c
सम्प्रगृह्य श्रुतं सर्वं कृतकृत्यो भवत्युत । 026a
उपर्युपरि मर्त्यानां देववत्सम्प्रकाशते ॥ 026c
कामं क्रोधं भयं दर्पमज्ञानं चैव बुद्धिजम् । 027a
तच्छ्रुतं नुदति क्षिप्रं यथा वायुर्बलाहकान् ॥ 027c
अल्पमात्रं कृतो धर्मो भवेज्ज्ञानवतां महान् । 028a
महानपि कृतो धर्मो ह्यज्ञानान्निष्फलो भवेत् ॥ 028c
परावरज्ञो भूतानां ज्ञानवांस्तत्वविद्भवेत् । 029a
एवं श्रुतफलं सर्वं कथितं ते शुभेक्षणे ॥ 029c
उमोवाच । 030
भगवन्मानुषाः केचिज्जातिस्मरणसंयुताः । 030a
किमर्थमभिजायन्ते जानन्तः पौर्वदैहिकम् । 030c
एतन्मे तत्वतो देव मानुषेषु वदस्व भो ॥ 030e
महेश्वर उवाच । 031
तदहं ते प्रवक्ष्यामि शृणु तत्वं समाहिता ॥ 031ac
ये मृताः सहसा मर्त्या जायन्ते सहसा पुनः । 032a
तेषां पौराणिको बोधः कञ्चित्कालं हि तिष्ठति ॥ 032c
तस्माज्जातिस्मरा लोके जायन्ते बोधसंयुताः । 033a
तेषां विवर्धतां सञ्ज्ञा स्वप्नवत्सा प्रणश्यति । 033c
परलोकस्य चास्तित्वे मूढानां कारणं च तत् ॥ 033e
उमोवाच । 034
भगवन्मानुषाः केचिन्मृता भूत्वाऽपि सम्प्रति । 034a
निवर्तमाना दृश्यन्ते देहेष्वेव पुनर्नराः ॥ 034c
महेश्वर उवाच । 035
तदहं ते प्रवक्ष्यामि कारणं शृणु शोभने ॥ 035ac
प्राणैर्वियुज्यमानानां बहुत्वात्प्राणिनां वधे । 036a
तथैव नामसामान्याद्यमदूता नृणां प्रति ॥ 036c
वहन्ति ते क्वचिन्मोहादन्यं मर्त्यं तु यामिकाः । 037a
निर्विकारं हि तत्सर्वं यमो वेद कृताकृतम् ॥ 037c
तस्मात्संयमनीं प्राप्य यमेनैकेन मोक्षिताः । 038a
पुनरेव निवर्तन्ते शेषं भोक्तुं स्वकर्मणः । 038c
स्वकर्मण्यसमाप्ते तु निवर्तन्ते हि मानवाः ॥ 038e
उमोवाच । 039
भगवन्सुप्तमात्रेण प्राणिनां स्वप्नदर्शनम् । 039a
किं तत्स्वभावमन्यद्वा तन्मे शंसितुमर्हसि ॥ 039c
महेश्वर उवाच । 040
सुप्तानां तु मनश्चेष्टा स्वप्न इत्यभिधीयते । 040a
अनागतमतिक्रान्तं पश्यते सञ्चरन्मनः ॥ 040c
निमित्तं च भवेत्तस्मात्प्राणिनां स्वप्नदर्शनम् । 041a
एतत्ते कथितं देवि भूयः श्रोतु किमिच्छसि ॥ ॥ 041c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तविंशत्यधिकद्विशततमोऽध्यायः ॥ 227 ॥