अध्यायः 226

परमेश्वरेण पार्वतीं प्रति प्राणिनां स्त्रीत्वपुंस्त्वयोः स्वाभाविकत्वनिषेधेन कर्मायत्तत्वोक्तिः ॥ 1 ॥ तथा सात्विकादिधर्मादिप्रतिपादनम् ॥ 2 ॥

उमोवाच । 001
देवदेव महादेव श्रुतं मे भगवन्निदम् । 001a
आत्मनो जातिसम्बन्धं ब्रूहि स्त्रीपुरुषान्तरम् ॥ 001c
स्त्रीप्राणाः पुरुषप्राणा एकतः पृथगेव वा । 002a
एष मे संशयो देव तं मे छेत्तुं त्वमर्हसि ॥ 002c
महेश्वर उवाच । 003
तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता । 003a
स्त्रीत्वं पुंस्त्वमिति प्राणे स्थितिर्नास्ति शुभेक्षणे ॥ 003c
निर्विकारः सदैवात्मा स्त्रीत्वं पुंस्त्वं न चात्मनि । 004a
कर्मप्रकारेण तथा जात्यां जात्यां प्रजायते ॥ 004c
कृत्वा कर्म पुमान्स्त्री वा स्त्री पुमानपि जायते । 005a
स्त्रीभावं यत्पुमान्कृत्वा कर्मणा प्रमदा भवेत् ॥ 005c
उमोवाच । 006
भगवन्सर्वलोकेश कर्मात्मा न करोति चेत् । 006a
कोऽन्यः कर्मकरो देहे तन्मे त्वं वक्तुमर्हसि ॥ 006c
महेश्वर उवाच । 007
शृणु भामिनि कर्तारमात्मा हि न च कर्मकृत् । 007a
प्रकृत्या गुणयुक्तेन क्रियते कर्म नित्यशः ॥ 007c
शरीरं प्राणिनां लोके यथा पित्तकफानिलैः । 008a
व्याप्तमेभिस्त्रिभिर्दोषैस्तथा व्याप्तं त्रिभिर्गुणैः ॥ 008c
सत्वं रजस्तमश्चैव गुणास्त्वेते शरीरिणः । 009a
प्रकाशात्मकमेतेषां सत्वं सततमिष्यते ॥ 009c
रजो दुःखत्मकं तत्र तमो मोहात्मकं स्मृतम् । 010a
त्रिभिरेतैर्गुणैर्युक्तं लोके कर्म प्रवर्तते ॥ 010c
सत्यं प्राणिदया शौचं श्रेयः प्रीतिः क्षमा दमः । 011a
एवमादि तथाऽन्यश्च कर्म सात्विकमुच्यते ॥ 011c
दाक्ष्यं कर्मपरत्वं च लोभो मोहो विधिं प्रति । 012a
कलत्रसङ्गो माधुर्यं नित्यमैश्वर्यलुब्धता । 012c
रजसश्चोद्भवं चैतत्कर्म नानाविधं सदा ॥ 012e
अनृतं चैव पारुष्यं धृतिर्विद्वेषिता भृशम् । 013a
हिंसाऽसत्यं च नास्तिक्यं निद्रालस्यभयानि च । 013c
तमसश्चोद्भवं चैतत्कर्म पापयुतं तथा ॥ 013e
तस्माद्गुणमयः सर्वः कार्यारम्भः शुभाशुभः । 014a
तस्मादात्मानमव्यग्रं विद्ध्यकर्तारमव्ययम् ॥ 014c
सात्विकाः पुण्यलोकेषु राजसा मानुषे पदे । 015a
तिर्यग्योनौ च नरके तिष्ठेयुस्तामसा नराः ॥ 015c
उमोवाच । 016
किमर्थमात्मा भिन्नेऽस्मिन्देहे शस्त्रेण वा हते । 016a
स्वयं प्रयास्यति तदा तन्मे शंसितुमर्हसि ॥ 016c
महेश्वर उवाच । 017
तदहं ते प्रक्ष्यामि शृणु कल्याणि कारणम् । 017a
एतन्निर्णायकैश्चापि मुह्यन्ते सूक्ष्मबुद्धिभिः ॥ 017c
कर्मक्षये तु सम्प्राप्ते प्राणिनां जन्मधारिणाम् । 018a
उपद्रवो भवेद्देहे येन केनापि हेतुना ॥ 018c
तन्निमित्तं शरीरी तु शरीरं प्राप्य सङ्क्षयम् । 019a
अपयाति परित्यज्य ततः कर्मवशेन सः ॥ 019c
देहक्षयेपि नैवात्मा वेदनाभिर्न चाल्यते । 020a
तिष्ठेत्कर्मफलं यावद्व्रजेत्कर्मक्षये पुनः ॥ 020c
आदिप्रभृति लोकेऽस्मिन्नेवमात्मगतिः स्मृता । 021a
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥ ॥ 021c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षड्विंशत्यधिकद्विशततमोऽध्यायः ॥ 226 ॥