अध्यायः 225
पार्वत्या परमेश्वरं प्रति प्राणिनां शुभाशुभफलयोर्मध्ये कस्य पूर्वोपभोग इति प्रश्नः ॥ 1 ॥ परमेश्वरेण तां प्रति सदृष्टान्तप्रदर्शनं तयोर्यौगपद्येनोपभोगकथनम् ॥ 2 ॥ तथा पूर्वकर्मणामल्पायुष्ट्वादिकारणत्वाभिधानम् ॥ 3 ॥
उमोवाच । 001
भगवन्भगनेत्रघ्न मानुषाणां विचेष्टितम् । 001a
सर्वमात्मकृतं चेति श्रुतं मे भगवन्मतम् ॥ 001c
लोके ग्रहकृतं सर्वं मत्वा कर्म शुभाशुभम् । 002a
तदेव ग्रहनक्षत्रं प्रायशः पर्युपासते । 002c
एष मे संशयो देव तं मे त्वं छेत्तुमर्हसि ॥ 002e
महेश्वर उवाच । 003
स्थाने संशयितं देवि शृणु तत्वविनिश्चयम् ॥ 003ac
नक्षत्राणि ग्रहाश्चैव शुभाशुभनिवेदकाः । 004a
मानवानां महाभागे न तु कर्मकराः स्वयम् ॥ 004c
प्रजानां तु हितार्थाय शुभाशुभविधिं प्रति । 005a
अनागतमतिक्रान्तं ज्योतिश्चक्रेण बोध्यते ॥ 005c
किन्तु तत्र शुभं कर्म सुग्रहैस्तु निवेद्यते । 006a
दुष्कृतस्याशुभैरेव समावायो भवेदिति ॥ 006c
तस्मात्तु ग्रहवैषम्ये विषमं कुरुते जनः । 007a
ग्रहसाम्ये शुभं कुर्याज्ज्ञात्वाऽऽत्मानं तथा कृतम् ॥ 007c
केवलं ग्रहनक्षत्रं न करोति शुभाशुभम् । 008a
सर्वमात्मकृतं कर्म लोकवादो ग्रहा इति ॥ 008c
पृथग्ग्रहाः पृथक्कर्ता कर्ता स्वं भुञ्जते फलम् । 009a
इति ते कथितं सर्वं विशङ्कां जहि शोभने ॥ 009c
उमोवाच । 010
भगवन्विविधं कर्म कृत्वा जन्तुः शुभाशुभम् । 010a
किं तयोः पूर्वकतरं भुङ्क्ते जन्मान्तरे पुनः । 010c
एष मे संशयो देव तं मे त्वं छेत्तुमर्हसि ॥ 010e
महेश्वर उवाच । 011
स्थाने संशयितं देवि तत्ते वक्ष्यामि तत्वतः ॥ 011ac
अशुभं पूर्वमित्याहुरपरे शुभमित्यपि । 012a
मिथ्या तदुभयं प्रोक्तं केवलं तद्ब्रवीमि ते ॥ 012c
मानुषे तु पदे कर्म युगपद्भुज्यते सदा । 013a
यथाकृतं यथायोगमुभयं भुज्यते क्रमात् ॥ 013c
भुञ्जानाश्चापि दृश्यन्ते क्रमशो भुवि मानवाः । 014a
ऋद्धिं हानिं सुखं दुःखं तत्सर्वमुभयं भयम् ॥ 014c
दुःखान्यनुभवन्त्याढ्या दरिद्राश्च सुखानि च । 015a
यौगपद्याद्धि भुञ्जाना दृश्यन्ते लोकसाक्षिकम् ॥ 015c
नरके स्वर्गलोके च न तथा संस्थितिः प्रिये । 016a
नित्यं दुःखं हि नरके स्वर्गे नित्यं सुखं तथा ॥ 016c
शुभाशुभानामाधिक्यं कर्मणां तत्र सेव्यते । 017a
निरन्तरं सुखं दुःखं स्वर्गे च नरके भवेत् ॥ 017c
तत्रापि सुमहद्भुक्त्वा पूर्वमल्पं पुनः शुभे । 018a
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ 018c
उमोवाच । 019
भगवन्प्राणिनो लोके म्रियन्ते केन हेतुना । 019a
जाताजाता न तिष्ठन्ति तन्मे शंसितुमर्हसि ॥ 019c
महेश्वर उवाच । 020
तदहं ते प्रवक्ष्यामि शृणु सत्यं समाहिता । 020a
आत्मा कर्मक्षयाद्देहं यथा मुञ्चति तच्छृणु ॥ 020c
शरीरात्मसमाहारो जन्तुरित्यभिधीयते । 021a
तत्रात्मानं नित्यमाहुरनित्यं क्षेत्रमुच्यते ॥ 021c
एवं कालेन सङ्क्रान्तं शरीरं जर्झरीकृतम् । 022a
अकर्मयोग्यं संशीर्णं त्यक्त्वा देही ततो व्रजेत् ॥ 022c
नित्यस्यानित्यसन्त्यागाल्लोके तन्मरणं विदुः । 023a
कालं नातिक्रमेरन्हि सदेवासुरमानवाः ॥ 023c
यथाऽऽकाशे न तिष्ठेत द्रव्यं किञ्चिदचेतनम् । 024a
तथा धावति कालोऽयं क्षणं किञ्चिन्न तिष्ठति ॥ 024c
स पुनर्जायतेऽन्यत्र शरीरं नवमाविशन् । 025a
एवंलोकगतिर्नित्यमादिप्रभृति वर्तते ॥ 025c
उमोवाच । 026
भगवन्प्राणिनो बाला दृश्यन्ते मरणं गताः । 026a
अतिवृद्धाश्च जीवन्तो दृश्यन्ते चिरजीविनः ॥ 026c
केवलं कालमरणं न प्रमाणं महेश्वर । 027a
तस्मान्मे संशय ब्रूहि प्राणिनां जीवकारणम् ॥ 027c
महेश्वर उवाच । 028
शृणु तत्कारणं देवि निर्णयस्त्वेक एव सः । 028a
जीर्णत्वमात्रं कुरुते कालो देहं न पातयेत् ॥ 028c
जीर्णे कर्मणि सङ्घातः स्वयमेव विशीर्यते । 029a
पूर्वकर्मप्रमाणेन जीवितं मृत्युरेव वा ॥ 029c
यावत्पूर्वकृतं कर्म तावज्जीवति मानवः । 030a
तत्र कर्मवशाद्बाला म्रियन्ते कालसङ्क्षयात् ॥ 030c
चिरं जीवन्ति वृद्धाश्च तथा कर्मप्रमाणतः । 031a
इति ते कथितं देवि निर्विशङ्का भव प्रिये ॥ 031c
उमोवाच । 032
भगवन्केन वृत्तेन भवन्ति चिरजीविनः । 032a
अल्पायुषो नराः केन तन्मे शंसितुमर्हसि ॥ 032c
महेश्वर उवाच । 033
शृणु तत्सर्वमखिलं गुह्यं पथ्यतरं नृणाम् । 033a
येन वृत्तेन सम्पन्ना भवन्ति चिरजीविनः ॥ 033c
अहिंसा सत्यवचनमक्रोधः क्षीन्तिरार्जवम् । 034a
गुरूणां नित्यशुश्रूषा वृद्धानामपि पूजनम् ॥ 034c
शौचादकार्यसन्त्यागात्सदा पथ्यस्य भोजनम् । 035a
एवमादिगुणं वृत्तं नराणां दीर्घजीविनाम् ॥ 035c
तपसा ब्रह्मचर्येण रसायननिषेवणात् । 036a
उदग्रसत्त्वा बलिनो भवन्ति चिरजीविनः । 036c
स्वर्गे वा मानुषे वाऽपि चिरं तिष्ठन्ति धार्मिकाः॥ 036e
अपरे पापकर्माणः प्रायशोऽनृतवादिनः । 037a
हिंसाप्रिया गुरुद्विष्टा निष्क्रियाः शौचवर्जिताः ॥ 037c
नास्तिका घोरकर्माणः सततं मांसपानपाः । 038a
पापाचारा गुरुद्विष्टाः कोपनाः कलहप्रियाः ॥ 038c
एवमेवाशुभाचारास्तिष्ठन्ति नरके चिरम् । 039a
तिर्यग्योनौ तथाऽत्यन्तमल्पास्तिष्ठन्ति मानवाः । 039c
तस्मादल्पायुषो मर्त्यास्तादृशाः सम्भवन्ति ते ॥ 039e
अगम्यदेशगमनादपथ्यानां च भोजनात् । 040a
आयुःक्षयो भवेन्नॄणामायुःक्षयकरा हि ते ॥ 040c
भवन्त्यल्पायुषस्तैस्तैरन्यथा चिरजीविनः । 041a
एतत्ते कथितं सर्वं भूयः श्रोतुं किमिच्छसि ॥ ॥ 041c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चविँशत्यधिकद्विशततमोऽध्यायः ॥ 225 ॥