अध्यायः 224
परमेश्वरेण पार्वतीम्प्रति मर्त्यामर्त्यानां शरीरभेदाभेदेन कर्मफलभोगोक्तिः ॥ 1 ॥
उमोवाच । 001
भगवन्देवदेवेश लोकपालनमस्कृत । 001a
प्रसादात्ते महादेव श्रुता मे कर्मणां गतिः ॥ 001c
सङ्गृहीतं च तत्सर्वं तत्वतोऽमृतसन्निभम् । 002a
कर्मणा ग्रथितं सर्वमिति वेद शुभाशुभम् ॥ 002c
गोवत्सवच्च जननीं निम्नं सलिलवत्तथा । 003a
कर्तारं स्वकृतं कर्म नित्यं तदनुधावति ॥ 003c
कृतस्य कर्मणश्चेह नाशो नास्तीति निश्चयः । 004a
अशुभस्य शुभस्यापि तदप्युपगतं मया ॥ 004c
भूय एव महादेव वरद प्रीतिवर्धन । 005a
कर्मणां गतिमाश्रित्य संशयान्मोक्तुमर्हसि ॥ 005c
महेश्वर उवाच । 006
यत्ते विवक्षितं देवि गुह्यमप्यसितेक्षणे । 006a
तत्सर्वं निर्विशङ्का त्वं पृच्छ मां शुभलक्षणे ॥ 006c
उमोवाच । 007
एवं व्यवस्थिते लोके कर्मणां वृषभध्वज । 007a
कृत्वा तत्पुरुषः कर्म शुभं वा यदि वेतरत् ॥ 007c
कर्मणः सुकृतस्येह कदा भुङ्क्ते फलं पुनः । 008a
इह वा प्रेत्य वा देव तन्मे शंसितुमर्हसि ॥ 008c
महेश्वर उवाच । 009
स्थाने संशयितं देवि तद्धि गुह्यतमं नृषु । 009a
त्वत्प्रियार्थं प्रवक्ष्यामि देवि गुह्यं शुभानने ॥ 009c
पूर्वदेहकृतं कर्म भुञ्जते तदिह प्रजाः । 010a
इहैव यत्कृतं पुंसां तत्परत्र फलिष्यते । 010c
एषा व्यवस्थितिर्देवि मानुषेष्वेव दृश्यते ॥ 010e
देवानामसुराणां च अमरत्वात्तपोबलात् । 011a
एकेनैव शरीरेण भुज्यते कर्मणां फलम् । 011c
मानुषैर्न तथा देवि अन्तरं त्वेतदिष्यते ॥ ॥ 011e
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्विंसत्यधिकद्विशततमोऽध्यायः ॥ 224 ॥