अध्यायः 223

परमेश्वरेण पार्वतीं प्रति प्राणिनां चण्डालत्वदरिद्रत्वादिप्रापकदुष्कर्मप्रतिपादनम् ॥ 1 ॥

उमोवाच । 001
भगवन्मानुषेष्वेव मानुषाः समदर्शनाः । 001a
चण्डाला इव दृश्यन्ते स्पर्शमात्रविदूषिताः ॥ 001c
नीचकर्मरता देव सर्वेषां मलहारकाः । 002a
दुर्गताः क्लेशभूयिष्ठा विरूपा दुष्टचेतसः । 002c
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 002e
महेश्वर उवाच । 003
तदहं ते प्रवक्ष्यामि तदेकाग्रमनाः शृणु ॥ 003ac
ये पुरा मनुजा देवि अतिमानयुता भृशम् । 004a
आत्मसम्भावनायुक्ताः स्तब्धा दर्पसमन्विताः ॥ 004c
प्रणामं तु न कुर्वन्ति गुरूणामपि पामराः । 005a
ये स्वधर्मार्पणं कार्यमतिमानान्न कुर्वते ॥ 005c
ऋद्धियोगात्परान्नित्यमवमन्यन्ति मानवान् । 006a परान्सन्नामयन्त्येव आज्ञयात्मनि ये बलात् ।006c
पानपाः सर्वभक्षाश्च परुषाः कटुका नराः ॥ 006e
एवंयुक्तसमाचारा दण्डिता यमशासनैः । 007a
कथञ्चित्प्राप्य मानुष्यं चण्डालाः सम्भवन्ति ते ॥ 007c
नीचकर्मरताश्चैव सर्वेषां मलहारकाः । 008a
परेषां वन्दनपरास्ते भवन्त्येव मानिनः ॥ 008c
विरूपाः पापयोनिस्थाः स्पर्शनादिविवर्जिताः । 009a
कुवृत्तिमुपजीवन्ति भुत्वा ते रजकादयः । 009c
पुराऽतिमानदोषात्तु भुञ्जते स्वकृतं फलम् ॥ 009e
तानप्यवस्ताकृपणांश्चण्डालानपि बुद्धिमान् । 010a
न च निन्देन्नापि कुप्येद्भुञ्जते स्वकृतं फलम् । 010c
चण्डाला अपि तां जातिं शोचन्तः शुद्धिमाप्नुयुः ॥ 010e
उमोवाच । 011
भगवन्मानुषाः केचिदाशापाशशतैर्वृताः । 011a
परेषां द्वारि तिष्ठन्ति प्रतिषिद्धाः प्रवेशने ॥ 011c
द्रष्टुं ज्ञापयितुं चैव न लभन्ते च यत्नतः । 012a
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 012c
महेश्वर उवाच । 013
ये पुरा मानुषा देवि ऐश्वर्यस्थानसंयुताः । 013a
संवादं तु न कुर्वन्ति परैरैश्वर्यमोहिताः ॥ 013c
द्वाराणि न ददत्येव लोभमोहादिभिर्वृताः । 014a
अवस्थामोहसंयुक्ताः स्वार्थमात्रपरायणाः ॥ 014c
सर्वभोगयुता वाऽपि सर्वेषां निष्फला भृशम् । 015a
अपि शक्ता न कुर्युस्ते परानुग्रहकारणात् ॥ 015c
निर्दयाश्चैव निर्द्वारा भोगैश्वर्यगतिं प्रति । 016a
एवं युक्तसमाचाराः पुनर्जन्मनि शोभने ॥ 016c
यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः । 017a
दुर्गता दुरवस्थाश्च कर्मव्याक्षेपसंयुताः ॥ 017c
अभिधावन्ति ते सर्वे तमर्थमभिवेदिनः । 018a
राज्ञां वा राजमात्राणां द्वारि तिष्ठन्ति वारिताः ॥ 018c
कर्म विज्ञापितुं द्रष्टुं न लभन्ते कथञ्चन । 019a
प्रवेष्टुमपि ते द्वारं बहिस्तिष्ठन्ति काङ्क्षया ॥ 019c
उमोवाच । 020
भगवन्मानुषाः केचिन्मनुष्येषु बहुष्वपि । 020a
सहसा नष्टसर्वस्वा भ्रष्टकोशपरिग्रहाः ॥ 020c
दृश्यन्ते मानुषाः केचिद्राजचोरोदकादिभिः । 021a
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 021c
महेश्वर उवाच । 022
ये पुरा मानुषा देवि आसुरं भावमाश्रिताः । 022a
परेषां वृत्तिनाशं तु कुर्वते द्वेषलोभतः ॥ 022c
उत्कोचनपराश्चैव पिशुनाश्च तथाविधाः । 023a
परद्रव्यहरा घोराश्चौर्याद्वाऽन्येन कर्मणा ॥ 023c
निर्दया निरनुक्रोशाः परेषां वृत्तिनाशकाः । 024a
नास्तिकाऽनृतभूयिष्ठाः परद्रव्यापहारिणः ॥ 024c
एवंयुक्तसमाचारा दण्डिता यमशासनैः । 025a
निरयस्थाश्चिरं कालं तत्र दुःखसमन्विताः ॥ 025c
यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः । 026a
तत्रस्थाः प्राप्नुवन्त्येव सहसा द्रव्यवाशनम् ॥ 026c
कष्टं तत्प्राप्नुवन्त्येव कारणाकारणादपि । 027a
नाशं विनाशं द्रव्याणामुपघातं च सर्वशः ॥ 027c
उमोवाच । 028
भगवन्मानुषाः केचिद्बान्धवैः सहसा पृथक् । 028a
कारणादेव सहसा सर्वेषां प्राणनाशनम् ॥ 028c
शस्त्रेण वाऽन्यथा वाऽपि प्राप्नुवन्ति वधं नराः । 029a
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 029c
महेश्वर उवाच । 030
ये पुरा मनुजा देवि घोरकर्मरतानृताः । 030a
आसुराः प्रायशो मूर्खाः प्राणिहिंसाप्रिया भृशं ॥ 030c
निर्दयाः प्राणिहिंसायां तथा प्राणिविघातकाः । 031a
विश्वस्तघातकाश्चैव तथा सुप्तविघातकाः । 031c
प्रायशोऽनृतभूयिष्ठा नास्तिका मांसभोजनाः ॥ 031e
एवंयुक्तसमाचाराः कालधर्मं गताः पुनः । 032a
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये ॥ 032c
तिर्यग्योनिं पुनः प्राप्य तत्र दुःखपरिक्षयात् । 033a
यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः । 033c
तत्र ते प्राप्नुवन्त्येव वधबन्धान्यथा तथा ॥ 033e
आढ्या वा दुर्गता वाऽपि भुञ्जते स्वकृतं फलम् । 034a
सुप्ता मत्ताश्च विश्वस्तास्तथा ते प्राप्नुवन्त्युत ॥ 034c
प्राणवाधकृतं दुःखं बान्धवैः सहसा पृथक् । 035a
पुत्रदारविनाशं वा शस्त्रेणान्येन वा वधम् ॥ 035c
उमोवाच । 036
भगवन्मानुषाः केचिद्राजनीतिविशारदैः । 036a
दण्ड्यन्ते मानुषे लोके मानुषाः सर्वतोभयाः । 036c
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 036e
महेश्वर उवाच । 037
ये पुरा मनुजा देवि मानुषांश्चेतराणि वा । 037a
क्लिष्टघातेन निघ्नन्ति प्राणान्प्राणिषु निर्दयाः । 037c
आसुरा घोरकर्माणः क्रूरदण्डवधप्रियाः ॥ 037e
ये दण्डयन्त्यदण्ड्यांश्च राजानः कोपमोहिताः । 038a
हिंसाहङ्कारपरुषा मांसादा नास्तिकाशुभाः ॥ 038c
केचित्स्त्रीपुरुषघ्नाश्च गुरुघ्नाश्च तथा प्रिये । 039a
एवंयुक्तसमाचारा प्राणिधर्मं गताः पुनः ॥ 039c
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये । 040a
पूर्वजन्मकृतं कर्म भुञ्जते तदिह प्रजाः ॥ 040c
इहैव यत्कर्म कृतं तत्परत्र फलत्युत । 041a
एषा व्यवस्थितिर्देवि मानुषेष्वेव दृश्यते ॥ 041c
न चर्षीणां न देवानाममृतत्वात्तपोबलात् । 042a
तैरेकेन शरीरेण भुज्यते कर्मणः फलम् ॥ 042c
न तथा मानुषाणां स्यादन्तर्धाय भवेद्धि तत् ॥ 043ac
उमोवाच । 044
किमर्थं मानुषा लोके दण्ड्यन्ते पृथिवीश्वरैः । 044a
कृतापराधमुद्दिश्य हन्ता हर्ताऽयमित्युत ॥ 044c
पुत्रार्थी पुत्रकामेष्ट्या इहैव लभते सुतान् । 045a
तैरेव हि शरीरेण भुञ्जन्ते कर्मणां फलम् ॥ 045c
दृश्यन्ते मानुषे लोके तद्भवान्नानुमन्यते । 046a
एतन्मे संशयस्थानं तन्मे त्वं छेत्तुमर्हसि ॥ 046c
महेश्वर उवाच । 047
स्थाने संशयितं देवि तत्त्वं शृणु समाहिता । 047a
कर्म कर्मफलं चेति युगपद्भुवि नेष्यते ॥ 047c
ये त्वयाऽभिहिता देवि हन्ता हर्ताऽयमित्यपि । 048a
तेषां तत्पूर्वकं कर्म दण्ड्यते यत्र राजभिः ॥ 048c
देवि कर्म कृतं चैषां हेतुर्भवति शासने । 049a
अपराधापरेशेन राजा दण्डयति प्रजाः ॥ 049c
इह लोके व्यवस्थार्थं राजभिर्दण्डनं स्मृतम् । 050a
उद्वेजनार्थं शेषाणामपराधं तमुद्दिशन् ॥ 050c
पुराकृतफलं दण्डो दण्ड्यमानस्य तद्ध्रुवम् । 051a
प्रागेव च मया प्रोक्तं तत्र निःसंशया भव ॥ 051c
उमोवाच । 052
भगवन्भुवि मर्त्यानां दण्डितानां नरेश्वरैः । 052a
दण्डेनैव तु तेनेह पापनाशो भवेन्न वा । 052c
एतन्मया संशयितं तद्भवांश्छेत्तुमर्हति ॥ 052e
महेश्वर उवाच । 053
स्थाने संशयितं देवि शृणु तत्वं समाहिता ॥ 053ac
ये नृपैर्दण्डिता भूमावपराधापदेशतः । 054a
यमलोके न दण्ड्यन्ते तत्र ते यमदण्डनैः ॥ 054c
अदण्डिता वा ये मिथ्या मिथ्या वा दण्डिता भुवि । 055a
तान्यमो दण्डयत्येव स हि वेद कृताकृतम् । 055c
नातिक्रमेद्यमं कश्चित्कर्म कृत्वेह मानुषः ॥ 055e
राजा यमश्च कुर्वाते दण्डमात्रं तु शोभने । 056a
उभाभ्यां यमराजभ्यां दण्डितोऽदण्डितोपि वा । 056c
पश्चात्कर्मफलं भुङ्क्ते नरके मानुषेषु वा ॥ 056e
नास्ति कर्मफलच्छेत्ता कश्चिल्लोकत्रयेऽपि च । 057a
इति ते कथितं सर्वं निर्विशङ्का भव प्रिये ॥ 057c
उमोवाच । 058
किमर्थं दुष्कृतं कृत्वा मानुषा भुवि नित्यशः । 058a
पुनस्तत्कर्मनाशाय प्रायश्चित्तानि कुर्वते ॥ 058c
सर्वपापहरं चेति हयमेधं वदन्ति च । 059a
प्रायश्चित्तानि चान्यानि पापनाशाय कुर्वते । 059c
तस्मान्मया संशयितं त्वं तच्छेत्तुमिहार्हसि ॥ 059e
महेश्वर उवाच । 060
स्थाने संशयितं देवि शृणु तत्वं समाहिता । 060a
संशयो हि महानेव पूर्वेषां च मनीषिणाम् ॥ 060c
द्विधा तु क्रियते पापं सद्भिश्चासद्भिरेव च । 061a
अभिसन्धाय वा नित्यमन्यथा वा यदृच्छया ॥ 061c
केवलं चाभिसन्धाय संरम्भाच्च करोति यत् । 062a
कर्मणस्तस्य नाशस्तु न कथञ्चन विद्यते ॥ 062c
अभिसन्धिकृतस्यैव नैव नाशोस्ति कर्मणः । 063a
अश्वमेधसहस्रैश्च प्रायश्चित्तशतैरपि ॥ 063c
अन्यथा यत्कृतं पापं प्रमादाद्वा यदृच्छया । 064a
प्रायश्चित्ताश्वमेधाभ्यां श्रेयसा तत्प्रणश्यति ॥ 064c
लोकसंव्यवहारार्थं प्रायश्चित्तादिरिष्यते । 065a
विद्ध्येवं पापके कार्ये निर्विशङ्का भव प्रिये ॥ 065c
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ 066ac
उमोवाच । 067
भगवन्देवदेवेश मानुषाश्चेतरा अपि । 067a
म्रियन्ते मानुषा लोके कारणाकारणादपि । 067c
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 067e
महेश्वर उवाच । 068
ये पुरा मनुजा देवि कारणाकारणादपि । 068a
यथाऽसुभिर्वियुज्यन्ते प्राणिनः प्राणिनिर्दर्यैः ॥ 068c
तथैव ते प्राप्नुवन्ति यथैवात्मकृतं फलम् । 069a
विषदास्तु विषेणैव शस्त्रैः शस्त्रेण घातकाः ॥ 069c
एवमेव यथा लोके मानुषान्घ्नन्ति मानुषाः । 070a
कारणेनैव तेनाथ तता स्वप्राणनाशनम् । 070c
प्राप्नुवन्ति पुनर्देवि नास्ति तत्र विचारणा ॥ 070e
इति ते कथितं सर्वं कर्मपाकफलं प्रिये । 071a
भूयस्तव समासेन कथयिष्यामि तच्छृणु ॥ 071c
सत्यप्रमाणकरणान्नित्यमव्यभिचारि च । 072a
यैः पुरा मनुजैर्देवि यस्मिन्काले यथा कृतम् ॥ 072c
येनैव कारणेनापि कर्म यत्तु शुभाशुभम् । 073a
तस्मिन्काले तथा देवि कारणेनैव तेन तु ॥ 073c
प्राप्नुवन्ति नराः प्रेत्य निःसन्देहं शुभाशुभम् । 074a
इति सत्यं प्रजानीहि लोके तत्र विधिं प्रति ॥ 074c
कर्मकर्ता नरो भोक्ता स नास्ति दिवि वा भुवि । 075a
न शक्यं कर्म चाभोक्तुं सदेवासुरमानुषैः ॥ 075c
कर्मणा ग्रथितो लोक आदिप्रभृति वर्तते । 076a
एतदुद्देशतः प्रोक्तं कर्मपाकफलं प्रति ॥ 076c
यदन्यच्च मया नोक्तं यस्मिंस्ते कर्मसङ्ग्रहे । 077a
बुद्धितर्केण तत्सर्वं तथा वेदितुमर्हसि । 077c
कथितं श्रोतुकामाया भूयः श्रोतुं किमिच्छसि ॥ ॥ 077e

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥ 223 ॥