अध्यायः 222

महेश्वरेणोमां प्रति स्त्रीणां पुंश्चलीत्वादिदोषहेतुभूतदुष्कर्मकथनम् ॥ 1 ॥ तथा प्राणिसाधारण्येन दास्यादिप्रयोजकदुष्कर्मकथनम् ॥ 2 ॥

उमोवाच । 001
भगवन्देवदेवेश शूलपाणे वृषध्वज । 001a
पुंश्चल्य इव या स्त्रीषु नीचवृत्तिरताः स्मृताः । 001c
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 001e
महेश्वर उवाच । 002
याः पुरा मनुजा देवि बुद्धिमोहसमन्विताः । 002a
कामरागसमायुक्ताः पतीनतिचरन्ति वै ॥ 002c
प्रतिकूलपरा यास्तु पतीन्प्रति यथा तथा । 003a
शौचं लज्जां तु विस्मृत्य यथेष्टपरिचारणाः ॥ 003c
एवंयुक्तसमाचारा यमलोके सुदण्डिताः । 004a
यदि वै मानुषं जन्म लभेरंस्तास्तथाविधाः । 004c
बहुसाधारणा एव पुंश्चल्यश्च भवन्ति ताः ॥ 004e
पौश्चल्यं यत्तु तद्वृत्तं स्त्रीणां कष्टतमं स्मृतम् । 005a
ततःप्रभृति ता देवि पतन्त्येव न संशयः ॥ 005c
शोचन्ति चेत्तु तद्वृत्तं मनसा हितमाप्नुयुः ॥ 006ac
उमोवाच । 007
भगवन्देवदेवेश प्रमदा विधवा भृशम् । 007a
दृश्यन्ते मानुषा लोके सर्वकल्याणवर्जिताः । 007c
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 007e
महेश्वर उवाच । 008
याः पुरा मनुजा देवि बुद्धिमोहसमन्विताः । 008a
कुटुम्बं तत्र वै पत्युर्नाशयन्ति वृथा तथा ॥ 008c
विषदाश्चाग्निदाश्चैव पतीन्प्रति सुनिर्दयाः । 009a
अन्यासां हि पतीन्यान्ति स्वपतिद्वेषकारणात् ॥ 009c
एवं युक्तसमाचारा यमलोके सुदण्डिताः । 010a
निरयस्थाश्चिरं कालं कथञ्चित्प्राप्य मानुषम् । 010c
तत्र ता भोगरहिता विधवास्तु भवन्ति वै ॥ 010e
उमोवाच । 011
भगवन्प्रमदा लोके पत्यौ ज्ञातिषु सत्सु च । 011a
लिङ्गिन्यः सम्प्रदृश्यन्ते पाषण्डं मतमाश्रिताः । 011c
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 011e
महेश्वर उवाच । 012
याः पुरा भावदोषेणि लोभमोहसमन्विताः । 012a
परद्रव्यपरा लोभात्परेषां द्रव्यहारकाः ॥ 012c
अभ्यसूयापरा यास्तु सपत्नीनां प्रदूषकाः । 013a
ईर्ष्यापराः कोपनाश्च बन्धूनां विफलाः सदा ॥ 013c
एवंयुक्तसमाचाराः पुनर्जन्मनि ताः स्त्रियः । 014a
अलक्षणसमायुक्ताः पाषण्डं धर्ममाश्रिताः । 014c
स्त्रियः प्रव्राजशीलाश्च भवन्त्येव न संशयः ॥ 014e
उमोवाच । 015
भगवन्मानुषाः केचित्कारुवृत्तिसमाश्रिताः । 015a
प्रदृश्यन्ते मनुष्येषु नीचकर्मरतास्तथा । 015c
केन कर्मविपाकेन तन्मे शंसितुमर्हति ॥ 0015e
महेश्वर उवाच । 016
ये पुरा मनुजा देवि स्तब्धमानयुता भृशम् । 016a
दर्पाहङ्कारसंयुक्ताः केवलात्मपरायणाः ॥ 016c
तादृशा मानुषा देवि पुनर्जन्मनि शोभने । 017a
कारवो नटगन्धर्वाः सम्भवन्ति यथा तथा ॥ 017c
नापिता बन्दिनश्चैव तथा वैतालिकाः प्रिये । 018a
एवम्भूतास्त्वधोवृत्तिं जीवन्त्याश्रित्य मानवाः ॥ 018c
परप्रसाधनकरास्ते परैः कृतवेतनाः । 019a
परावमानस्य फलं भुञ्जते पौर्वदैहिकम् ॥ 019c
उमोवाच । 020
भगवन्देवदेवेश मानुषेष्वेव केचन । 020a
दासभूताः प्रदृश्यन्ते सर्वकर्मपरा भृशम् ॥ 020c
आघातभर्त्सनसहाः पीड्यमानाश्च सर्वशः । 021a
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 021c
महेश्वर उवाच । 022
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् ॥ 022ac
ये पुरा मनुजा देवि परेषां वित्तहारकाः । 023a
ऋणवृद्धिकरं कृष्या न्यासदत्तं तथैव च ॥ 023c
निक्षेपकारणाद्दत्तपरद्रव्यापहारिणः । 024a
प्रमादाद्विस्मृतं नष्टं परेषां धनहारकाः ॥ 024c
वधबन्धपरिक्लेशैर्दासत्वं कुर्वते परान् । 025a
तादृशा मरणं प्राप्ता दण्डिता यमशासनैः ॥ 025c
कथञ्चित्प्राप्य मानुष्यं तत्र ते देवि सर्वथा । 026a
दासभूता भविष्यन्ति जन्मप्रभृति मानवाः ॥ 026c
तेषां कर्माणि कुर्वन्ति येषां ते धनहारकाः । 027a
आसमाप्तेः स्वपापस्य कुर्वन्तीति विनिश्चयः ॥ 027c
पशुभूतास्तथा चान्ये भवन्ति धनहारकाः । 028a
तत्तथा क्षीयते कर्म तेषां पूर्वापराधजम् । 028c
अतोऽन्यथा न तच्छक्यं कर्म भोक्तुं सुरासुरैः ॥ 028e
किन्तु मोक्षविधिस्तेषां सर्वता तत्प्रसादनम् । 029a
अयथावन्मोक्षकामः पुनर्जन्मनि चेष्यते ॥ 029c
मोक्षकामी यथान्यायं कुर्वन्कर्माणि सर्वशः । 030a
भर्तुः प्रसादमाकाङ्क्षेदायासान्सर्वथा सहन् ॥ 030c
प्रीतिपूर्वं तु यो भर्त्रा मुक्तो मुक्तः स्वपापतः । 031a
तथाभूतान्कर्मकरान्सदा सन्तोषयेत्पतिः ॥ 031c
यथार्हं कारयेत्कर्म दण्डकारणतः क्षिपेत् । 032a
वृद्धान्बालांस्तथा क्षीणान्पालयन्धर्ममाप्नुयात् ॥ 032c
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ ॥ 033ac

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥ 222 ॥