अध्यायः 221
ईश्वरेण पार्वतीं प्रति प्राणिनामङ्गविकृत्यनपत्यतादिदोषहेतुभूतदुष्कर्मप्रतिपादनम् ॥ 1 ॥
उमोवाच । 001
भगवन्देवदेवेश भूतपाल नमोस्तु ते । 001a
ह्रस्वाङ्गाश्चैव वक्राङ्गाः कुब्जा वामनकास्तथा ॥ 001c
अपरे मानुषा देव दृश्यन्ते कुणिबाहवः । 002a
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 002c
महेश्वर उवाच । 003
ये पुरा मनुजा देवि लोभमोहसमन्विताः । 003a
धान्यमानान्विकुर्वन्ति क्रयविक्रयकारणात् ॥ 003c
कुलदोषं तदा देवि धृतमानेषु नित्यशः । 004a
अर्धापकर्षणं चैव सर्वेषां क्रयविक्रये ॥ 004c
अङ्गदोषकरा ये तु परेषां कोपकारणात् । 005a
मांसादाश्चैव ये मूर्खा अयथावत्प्रथाः सदा ॥ 005c
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने । 006a
ह्रस्वाङ्गा वामनाश्चैव कुब्जाश्चैव भवन्ति ते ॥ 006c
उमोवाच । 007
भगवन्मानुषाः केचिद्दृश्यन्ते मानुषेषु वै । 007a
उन्मत्ताश्च पिशाचाश्च पर्यटन्तो यतस्ततः । 007c
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 007e
महेश्वर उवाच । 008
ये पुरा मनुजा देवि दर्पाहङ्कारसंयुताः । 008a
बहुधा प्रलपन्त्येव हसन्ति च परान्भृशम् ॥ 008c
मोहयन्ति परान्भोगैर्मदनैर्लोभकारणात् । 009a
वृद्धान्गुरूंश्च ये मूर्खा वृथैवापहसन्ति च । 009c
शौण्डा विदग्धाः शास्त्रेषु सदैवानृतवादिनः ॥ 009e
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने । 010a
उन्मत्ताश्च पिशाचाश्च भवन्त्येव न संशयः ॥ 010c
उमोवाच । 011
भगवन्मानुषाः केचिन्निरपत्याः सुदुःखिताः । 011a
यतन्तो न लभन्त्येव अपत्यानि यतस्ततः । 011c
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 011e
महेश्वर उवाच । 012
ये पुरा मनुजा देवि सर्वप्राणिषु निर्दयाः । 012a
घ्नन्ति बालांश्च भुञ्जन्ते मृगाणां पक्षिणामपि ॥ 012c
गुरुविद्वेषिणश्चैव परपुत्राभ्यसूयकाः । 013a
पितृपूजां न कुर्वन्ति यथोक्तां चाष्टकादिभिः ॥ 013c
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने । 014a
मानुष्यं वा चिरात्प्राप्य निरपत्या भवन्ति ते । 014c
पुत्रशोकयुताश्चापि नास्ति तत्र विचारणा ॥ 014e
उमोवाच । 015
भगवन्मानुषाः केचित्प्रदृश्यन्ते सुदुःखिताः । 015a
उद्वेगवासनिरताः सोद्वेगाश्च यतव्रताः ॥ 015c
नित्यं शोकसमाविष्टा दुर्गताश्च तथैव च । 016a
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 016c
महेश्वर उवाच । 017
ये पुरा मनुजा नित्यमुत्क्रोशनपरायणाः । 017a
भीषयन्ति परानित्यं विकुर्वन्ति तथैव च ॥ 017c
ऋणवृद्धिकराश्चैव दरिद्रेभ्यो यथेष्टतः । 018a
ऋणार्थमभिगच्छन्ति सततं वृद्धिरूपकाः ॥ 018c
उद्विजन्ते हि तान्दृष्ट्वा धारकाः स्वार्थकारणात् । 019a
अतिवृद्धिर्न कर्तव्या दरिद्रेभ्यो यथेष्टतः ॥ 019c
ये श्वभिः क्रीडमानाश्च त्रासयन्ति वने मृगान् । 020a
प्राणिहिंसां तथा देवि कुर्वन्ति च यतस्ततः ॥ 020c
येषां गृहेषु वै श्वानस्त्रासयन्ति वृथा नरान् । 021a
एवंयुक्तसमाचाराः कालधर्मगताः पुनः ॥ 021c
पीडिता यमदण्डेन निरयस्थाश्चिरं प्रिये । 022a
कथञ्चित्प्राप्य मानुष्यं तत्र ते दुःखसंयुताः ॥ 022c
कुदेशे दुःखभूयिष्ठे व्याघातशतसङ्कुले । 023a
जायन्ते तत्र शोचन्तः सोद्वेगाश्च यतस्ततः ॥ 023c
उमोवाच । 024
भगवन्मानुषाः केचिदैश्वर्यज्ञानसंयुताः । 024a
म्लेच्छभूमिषु दृश्यन्ते म्लेच्छैश्वर्यसमन्विताः । 024c
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 024e
महेश्वर उवाच । 025
ये पुरा मनुजा देवि धनधान्यसमन्विताः । 025a
अयथावत्प्रयच्छन्ति श्रद्धावर्जितमेव वा ॥ 025c
अपात्रेभ्यश्च ये दानं शौचमङ्गलवर्जिताः । 026a
ददत्येव च ये मूर्खाः श्लाघयाऽवज्ञयाऽपि वा ॥ 026c
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने । 027a
कुदेशे म्लेच्छभूयिष्ठे दुर्गमे वनसङ्कटे । 027c
म्लेच्छाधिपत्यं सम्प्राप्य जायन्ते तत्र तत्र वै ॥ 027e
उमोवाच । 028
भगवन्भगनेत्रघ्न मानुषेषु च केचन । 028a
क्लीबा नपुंसकाश्चैव दृश्यन्ते षण्डकास्तथा ॥ 028c
नीचकर्मरता नीचा नीचसक्यास्तथा भुवि । 029a
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 029c
महेश्वर उवाच । 030
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् ॥ 030ac
ये पुरा मनुजा भूत्वा घोरकर्मरतास्तथा । 031a
पशुपंस्त्वोपगातेन जीवन्ति च रमन्ति च ॥ 031c
पुंस्त्वोपघातिनश्चैव नराणां कोपकारणात् । 032a
ये धूर्ताः स्त्रीषु गच्छन्ति अयथावद्यथेष्टतः ॥ 032c
कामविघ्नकरा ये तु द्वेषपैशुन्यकारणात् । 033a
एवंयुक्तसमाचाराः कालधर्मं गतास्तु ते । 033c
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये ॥ 033e
यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः । 034a
क्लीबा वर्षवराश्चैव षण्डकाश्च भवन्ति ते ॥ 034c
नीचकर्मपरा लोके निर्लज्जा वीतसम्भ्रमाः । 035a
परान्दीनान्बहिष्कृत्य ते भवन्ति स्वकर्मणा ॥ 035c
यदि चेत्सम्प्रपश्येरंस्ते मुच्यन्ते हि कल्मषात् । 036a
अत्रापि ते प्रमाद्येयुः पतन्ति नरकालये ॥ 036c
स्त्रीणामपि तथा देवि यथा पुंसां तु कर्मजम् । 037a
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ ॥ 037c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकविंशत्यधिकद्विशततमोऽध्यायः ॥ 221 ॥