अध्यायः 220
ईश्वरेणोमां प्रति अन्धत्वपङ्गुत्वादिनानादोषकारणीभूतानां दुष्कर्मणां विशिष्य कथनम् ॥ 1 ॥
उमोवाच । 001
भगवन्देवदेवेश मम प्रीतिविवर्धन । 001a
'जात्यन्धाश्चैव दृश्यन्ते जाता वा नष्टचक्षुषः । 001c
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 001e
महेश्वर उवाच । 002
हन्त ते कथयिष्यामि शृणु कल्याणि कारणम् ॥ 002ac
ये पुरा कामकारेणि परवेश्मसु लोलुपाः । 003a
परस्त्रियोऽभिवीक्षन्ते दुष्टेनैव स्वचक्षुषाः ॥ 003c
अन्धीकुर्वन्ति यन्मर्त्यान्क्रोधलोभसमन्विताः । 004a
लक्षणज्ञाश्च रूपेषु अयथावत्प्रदर्शकाः ॥ 004c
एवं युक्तसमाचाराः कालधर्मवशास्तु ते । 005a
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये ॥ 005c
यदि चेन्मानुषं जन्म लभेरंस्ते तथापि वा । 006a
स्वभावतो वा जाता वा अन्धा एव भवन्ति ते । 006c
अक्षिरोगयुता वाऽपि नास्ति तत्र विचारणा ॥ 006e
उमोवाच । 007
मुखरोगयुताः केचिद्दृश्यन्ते सततं नराः । 007a
दन्तकण्ठकपोलस्थैर्व्याधिभिर्बहुपीडिताः ॥ 007c
आदिप्रभृति वै मर्त्या जाता वाऽप्यथ कारणात् । 008a
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 008c
महेश्वर उवाच । 009
हन्त ते कथयिष्यामि शृणु देवि समाहिता ॥ 009ac
कुवक्तारस्तु ये देवि जिह्वया कटुकं भृशम् । 010a
असत्यं परुषं घोरं गुरून्प्रति परान्प्रति ॥ 010c
जिह्वाबाधां तदाऽन्येषां कुर्वते कोपकारणात् । 011a
प्रायशोऽनृतभूयिष्ठा नराः कार्यवशेन वा । 011c
तेषां जिह्वाप्रदेशस्था व्याधयः सम्भवन्ति ते ॥ 011e
कुश्रोतारस्तु ये चार्यं परेषां कर्णनाशकाः । 012a
कर्णरोगान्बहुविधाल्ँलभन्ते ते पुनर्भवे ॥ 012c
दन्तरोगशिरोरोगकर्णरोगास्तथैव च । 013a
अन्ये दुःखाश्रिता दोषाः सर्वे चात्मकृतं फलम् ॥ 013c
उमोवाच । 014
पीड्यन्ते सततं देव मानुषेष्वेव केचन । 014a
कुक्षिपक्षाश्रितैर्दोषैर्व्याधिभिश्चोदराश्रितैः ॥ 014c
तीक्ष्णशूलैश्च पीड्यन्ते नरा दुःखपरिप्लुताः । 015a
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 015c
महेश्वर उवाच । 016
ये पुरा मनुजा देवि कामक्रोधवशा भृशम् । 016a
आत्मार्थमेव चाहारं भुञ्जन्ते निरपेक्षकाः ॥ 016c
अभक्ष्याहारदानैश्च विश्वस्तानां विषप्रदाः । 017a
अभक्ष्यभक्षदाश्चैव शौचमङ्गलवर्जिताः ॥ 017c
मांसयुक्तसमाचाराः पुनर्जन्मनि शोभने । 018a
कथञ्चित्प्राप्य मानुष्यं तत्र ते व्याधिपीडिताः ॥ 018c
तैस्तैर्बहुविधाकारैर्व्याधिभिर्दुःखसंश्रिताः । 019a
भवन्त्येवं तथा देवि यथा चैवं तथा कृतम् ॥ 019c
उमोवाच । 020
दृश्यन्ते सततं देव व्याधिभिर्मेहनाश्रितैः । 020a
पीड्यमानास्तथा मर्त्या अश्मरीशर्करादिभिः । 020c
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 020e
महेश्वर उवाच । 021
ये पुरा मनुजा देवि परदारप्रधर्षकाः । 021a
तिर्यग्योनिषु धूर्ता वै मैथुनार्थं चरन्ति च ॥ 021c
कामदोषेण ये धूर्ताः कन्यासु विधवासु च । 022a
बलात्कारेण गच्छन्ति रूपदर्पसमन्विताः ॥ 022c
तादृशा मरणं पुनर्जन्मनि शोभने । 023a
यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः । 023c
मेहनस्थैस्तथा घोरैः पीड्यन्ते व्यधिभिः प्रिये ॥ 023e
उमोवाच । 024
भगवन्मानुषाः केचिद्दृश्यन्ते शोषिणः कृशाः । 024a
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 024c
महेश्वर उवाच । 025
ये पुरा मनुजा देवि मांसलुब्धाः सुलोलुपाः । 025a
आत्मार्थे स्वादुगृद्धाश्च परभोगोपतापिनः ॥ 025c
अभ्यसूयाश्चोपतापाः परभोगेषु ये नराः । 026a
एवं युक्तसमाचाराः पुनर्जन्मनि शोभने ॥ 026c
शेषव्याधियुतास्तत्र नरा धमनिसन्तताः । 027a
भवन्त्येव नरा देवि पापकर्मोपभोगिनः ॥ 027c
उमोवाच । 028
भगवन्मानुषाः केचित्क्लिश्यन्ते कण्ठरोगिणः । 028a
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 028c
महेश्वर उवाच । 029
ये पुरा मनुजा देवि परेषां रूपनाशनाः । 029a
आघातवधबन्धैश्च वृथा दण्डेन मोहिताः ॥ 029c
इष्टनाशकरा ये तु अपथ्याहारदा नराः । 030a
चिकित्सका वा दुष्टास्च द्वेषलोभसमन्विताः ॥ 030c
निर्दयाः प्राणिहिंसायां मलदाश्चित्तनाशनाः । 031a
एवं युक्तसमाचाराः पुनर्जन्मनि शोभने ॥ 031c
यदि वै मानुषं जन्म लभेरंस्तेषु दुःखिताः । 032a
अत्र ते क्लेशसंयुक्ताः कण्ठरोगशतैर्वृताः ॥ 032c
केचित्त्वग्दोषसंयुक्ता व्रणकुष्ठैश्च संयुताः । 033a
श्वित्रकुष्ठयुता वाऽपि बहुधा कृच्छ्रसंयुताः । 033c
भवन्त्येव नरा देवि यथा तेन कृतं फलम् ॥ 033e
उमोवाच । 034
भगवन्मानुषाः केचिदङ्गहीनाश्च पङ्गव । 034a
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 034c
महेश्वर उवाच । 035
ये पुरा मनुजा देवि लोभमोहसमावृताः । 035a
प्राणिनां प्राणहिंसार्थमङ्गविघ्नं प्रकुर्वते । 035c
शस्त्रेणोत्कृत्य वा देवि प्राणिनां चेष्टनाशकाः ॥ 035e
एवं युक्तसमाचाराः पुनर्जन्मनि शोभने । 036a
तदङ्गहीना वै प्रेत्य भवन्त्येव न संशयः । 036c
स्वभावतो वा जाता वा पङ्गवश्च भवन्ति ते ॥ 036e
उमोवाच । 037
भगवन्मानुषाः केचिद्ग्रन्थिभिः पिलकैस्तथा । 037a
क्लिश्यमानाः प्रदृश्यन्ते तन्मे शंसितुमर्हसि ॥ 037c
महेश्वर उवाच । 038
ये पुरा मनुजा देवि ग्रन्थिभेदकरा नृणाम् । 038a
मुष्टिप्रहारपरुषा नृशंसाः पापकारिणः । 038c
पाटकास्तोटकाश्चैव शूलतुन्नास्तथैव च ॥ 038e
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने । 039a
ग्रन्थिभिः पिलकैश्चैव क्लिश्यन्ते भृशदुःखिताः ॥ 039c
उमोवाच । 040
भगवन्मानुषाः केचित्पादरोगसमन्विताः । 040a
दृश्यन्ते सततं देव तन्मे शंसितुमर्हसि ॥ 040c
महेश्वर उवाच । 041
ये पुरा मनुजा देवि क्रोधलोभसमन्विताः । 041a
मनुजा देवतास्थानं स्वपादैर्भ्रंशयन्त्युत । 041c
जानुभिः पार्ष्णिभिश्चैव प्राणिहिंसां प्रकुर्वते ॥ 041e
एवं युक्तसमाचाराः पुनर्जन्मनि शोभने । 042a
पादरोगैर्बहुविधैर्बाध्यन्ते विपदादिभिः ॥ 042c
उमोवाच । 043
भगवन्मानुषाः केचिद्दृश्यन्ते बहवो भुवि । 043a
वातजैः पित्तजै रोगैर्युगपत्सान्निपातकैः ॥ 043c
रोगैर्बहुविधैर्देव क्लिश्यमानाः सुदुःखिताः । 044a
असमस्तैः समस्तैश्च आढ्या वा दुर्गतास्तथा । 044c
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 044e
महेश्वर उवाच । 045
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् ॥ 045ac
ये पुरा मनुजा देवि त्वासुरं भावमाश्रिताः । 046a
स्ववशाः कोपनपरा गुरुविद्वेषिणस्तथा ॥ 046c
परेषां दुःखजनका मनोवाक्कायकर्मभिः । 047a
छिन्दन्भिन्दन्स्तुदन्नेव नित्यं प्राणिषु निर्दयाः ॥ 047c
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने । 048a
यदि वै मानुषं जन्म लभेरंस्ते तथाविधाः । 048c
तत्र ते बहुभिर्घोरैस्तप्यन्ते व्याधिभिः प्रिये ॥ 048e
केचिद्वातादिसंयुक्ताः केचित्काससमन्विताः । 049a
ज्वरातिसारतृष्णाभिः पीड्यमानास्तथा परे ॥ 049c
पादगुल्मैश्च बहुभिः श्लेष्मदोषसमन्विताः । 050a
पादरोगैश्च विविधैर्व्रणकुष्ठभगन्दरैः । 050c
आढ्या वा दुर्गता वाऽपि दृश्यन्ते व्याधिपीडिताः ॥ 050e
एवमात्मकृतं कर्म भुञ्जन्ते तत्र तत्र ते । 051a
अभिभूतुं न शक्यं हि केनचित्स्वकृतं फलम् । 051c
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ ॥ 051e
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि विंशत्यधिकद्विशततमोऽध्यायः ॥ 220