अध्यायः 219
महेश्वरेण पार्वतीं प्रति शुभाशुभकर्मणोः सुखदुःखहेतुत्वकथनम् ॥ 1 ॥
उमोवाच । 001
भगवन्देवदेवेश मानुषेष्वेव केचन । 001a
ज्ञानविज्ञानसम्पन्ना बुद्धिमन्तो विचक्षणाः ॥ 001c
दुर्गतास्तु प्रदृश्यन्ते यतमाना यथाविधि । 002a
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 002c
महेश्वर उवाच । 003
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् ॥ 003ac
ये पुरा मनुजा देवि श्रुतवन्तोपि केवलम् । 004a
निराश्रया निरन्नाद्या भृशमात्मपरायणाः ॥ 004c
ते पुनर्जन्मनि शुभे ज्ञानबुद्धियुता अपि । 005a
निष्किञ्चना भवन्त्येव अनुप्तं हि न रोहति ॥ 005c
उमोवाच । 006
मूर्खा लोके प्रदृश्यन्ते वृथा मूढा विचेतसः । 006a
ज्ञानविज्ञानरहिताः समृद्धाश्च समन्ततः । 006c
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 006e
महेश्वर उवाच । 007
ये पुरा मनुजा देवि बालिशा अपि सर्वतः । 007a
समाचरन्ति दानानि दीनानुग्रहकारणात् ॥ 007c
अबुद्धिपूर्वं वा दानं ददत्येव यतस्ततः । 008a
ते पुनर्जन्मनि शुभे प्राप्नुवन्त्येव तत्तथा ॥ 008c
पण्डितोऽपण्डितो वाऽपि भुङ्क्ते दानफलं नरः । 009a
बुद्ध्याऽनपेक्षितं दानं सर्वथा तत्फलत्युत ॥ 009c
उमोवाच । 010
भगवन्देवदेवेश मानुषेष्वेव केचन । 010a
मेधाविनः श्रुतधरा भवन्ति विशदाक्षराः । 010c
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 010e
महेश्वर उवाच । 011
ये पुरा मनुजा देवि गुरुशुश्रूषका भृशम् । 011a
ज्ञानार्थं ते तु सङ्गृह्य तीर्थतो विधिपूर्वकम् ॥ 011c
विधिनैव परांश्चैव ग्राहयन्ति च नान्यथा । 012a
अश्लाघमाना ज्ञानेन प्रशान्ता यतवाचकाः । 012c
विद्यास्थानानि ये लोके स्थापयन्ति च यत्नतः ॥ 012e
तादृश मरणं प्राप्ताः पुनर्जन्मनि शोभने । 013a
मेधाविनः श्रुतधरा भवन्ति विशदाक्षराः ॥ 013c
उमोवाच । 014
अपरे मानुषा देव यतन्तोपि यतस्ततः । 014a
बहिष्कृताः प्रदृश्यन्ते श्रुतविज्ञानबुद्धितः । 014c
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 014e
महेश्वर उवाच । 015
ये पुरा मनुजा देवि ज्ञानदर्पसमन्विताः । 015a
श्लाघमानाश्च तत्प्राप्य ज्ञानाहङ्कारमोहिताः ॥ 015c
वदन्ति ये परान्नित्यं ज्ञानाधिक्येन दर्पिताः । 016a
ज्ञानादसूयां कुर्वन्ति न सहन्ते च चापरान् ॥ 016c
तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने । 017a
मानुष्यं सुचिरात्प्राप्य तत्र बोधविवर्जिताः । 017c
भवन्ति सततं देवि यतन्तो हीनमेधसः ॥ 017e
उमोवाच । 018
भगवन्मानुषाः केचित्सर्वकल्याणसंयुताः । 018a
पुत्रैर्दारैर्गुणयुतैर्दासीदासपरिच्छदैः ॥ 018c
परमं बुद्धिसंयुक्ताः स्थानैश्वर्यपरिग्रहैः । 019a
व्याधिहीना नबाधाश्च रूपारोग्यबलैर्युताः ॥ 019c
धनधान्येन सम्पन्नाः प्रासादैर्यानवाहनैः । 020a
सर्वोपभोगसंयुक्ता नानाचित्रैर्मनोहरैः ॥ 020c
ज्ञातिभिः सह मोदन्ते अविघ्नं तु दिनेदिने । 021a
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 021c
महेश्वर उवाच । 022
तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता ॥ 022ac
ये पुरा मनुजा देवि आढ्या वा इतरेऽपि वा । 023a
श्रुतवृत्तसमायुक्ता दानकामाः श्रुतप्रियाः ॥ 023c
परेङ्गितपरा नित्यं दातव्यमिति निश्चिताः । 024a
सत्यसन्धाः क्षमाशीला लोभमोहविवर्जिताः ॥ 024c
दातारः पात्रतो दानं व्रतैर्नियमसंयुताः । 025a
स्वदुःखमिव संस्मृत्य परदुःखविवर्जिताः । 025c
सौम्यशीलाः शुभाचारा देवब्राह्मणपूजकाः ॥ 025e
एवंशीलसमाचाराः पुनर्जन्मनि शोभने । 026a
दिवि वा भुवि वा देवि जायन्ते कर्मभोगिनः ॥ 026c
मानुषेष्वपि ये जातास्तादृशाः सम्भवन्ति ते । 027a
यादृशास्तु तथा प्रोक्ताः सर्वे कल्याणसंयुताः ॥ 027c
रूपं द्रव्यं बलं चायुर्भोगैश्वर्यं बलं श्रुतम् । 028a
इत्येतत्सर्वसाद्गुण्यं दानाद्भवति नान्यथा । 028c
तपोदानमयं सर्वमिति विद्धि शुभानने ॥ 028e
उमोवाच । 029
अथ केचित्प्रदृश्यन्ते मानुषेष्वेव मानुषाः । 029a
दुर्गताः क्लेशभूयिष्ठा दानभोगविवर्जिताः ॥ 029c
भयैस्त्रिभिः समाजुष्टा व्याधिक्षुद्भयसंयुताः । 030a
दुष्कलत्राभिभूताश्च सततं विघ्नदर्शकाः । 030c
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 030e
महेश्वर उवाच । 031
ये पुरा मनुजा देवि आसुरं भावमाश्रिताः । 031a
क्रोधलोभसमायुक्ता निरन्नाद्याश्च निष्क्रियाः ॥ 031c
नास्तिकाश्चैव धूर्ताश्च मूर्खाश्चात्मपरायणाः । 032a
परोपतापिनो देवि प्रायशः प्राणिनिर्दयाः ॥ 032c
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने । 033a
कथञ्चित्प्राप्य मानुष्यं तत्र ते दुःखपीडिताः ॥ 033c
सर्वतः सम्भवन्त्येव पूर्वमात्मप्रमादतः । 034a
यथा ते पूर्वकथितास्तथा ते सम्भवन्त्युत ॥ 034c
शुभाशुभं कृतं कर्म सुखदुःखफलोदयम् । 035a
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ ॥ 035c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनविंशत्यधिकद्विशततमोऽध्यायः ॥ 219 ॥