अध्यायः 218

महेश्वरेण पार्वतीं प्रति प्राणिनां शुभाशुभकर्मानुसारेण शुभाशुभफलप्राप्तिकथनम् ॥ 1 ॥

उमोवाच । 001
भगवन्देवदेवेश त्र्यक्ष भो वृषभध्वज । 001a
मानुषास्त्रिविधा देव दृश्यन्ते सततं विभो ॥ 001c
आसीना एव भुञ्जन्ते स्थानैश्वर्यपरिग्रहैः । 002a
अपरे यत्नपूर्वं तु लभन्ते भोगसङ्ग्रहम् ॥ 002c
अपरे यतमानाश्च न लभन्ते तु किञ्चन । 003a
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 003c
महेश्वर उवाच । 004
न्यायतस्त्वं महाभागे श्रोतुकामाऽसि भामिनि ॥ 004ac
ये लोके मानुषा देवि दानधर्मपरायणाः । 005a
पात्राणि विधिवज्ज्ञात्वा दूरतोप्यनुमानतः ॥ 005c
अभिगम्य स्वयं तत्र ग्राहयन्ति प्रसाद्य च । 006a
दानादि चेङ्गितैरेव तैरविज्ञातमेव वा ॥ 006c
पुनर्जन्मनि ते देवि तादृशाः शोभना नराः । 007a
अयत्नतस्तु तान्येव फलानि प्राप्नुवन्त्युत ॥ 007c
आसीना एव भुञ्जन्ते भोगान्सुकृतभोगिनः ॥ 008ac
अपरे ये च दानानि ददत्येव प्रयाचिताः । 009a
यदायदाऽर्थिने दत्त्वा पुनर्दानं च याचिताः ॥ 009c
तावत्कालं ततो देवि पुनर्जन्मनि ते नराः । 010a
यत्नतः श्रमसंयुक्ताः पुनस्तान्प्राप्नुवन्ति च ॥ 010c
याचिता अपि केचित्तु अदत्त्वैव कथञ्चन । 011a
अभ्यसूयापरा मर्त्या लोभोपहतचेतसः ॥ 011c
ते पुनर्जन्मनि शुभे यतन्तो बहुधा नराः । 012a
न प्राप्नुवन्ति मनुजा मार्गन्तस्तेऽपि किञ्चन ॥ 012c
नानुप्तं रोहते सस्यं तद्वद्दानफलं विदुः । 013a
यद्यद्ददाति पुरुषस्तत्तत्प्राप्नोति केवलम् ॥ 013c
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ 014ac
उमोवाच । 015
भगवन्भगनेत्रघ्न केचिद्वार्धकसंयुताः । 015a
अभोगयोग्यकाले तु भोगांश्चैव धनानि च ॥ 015c
लभन्ते स्थविरा भूता भोगैश्वर्यं यतस्ततः । 016a
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 016c
महेश्वर उवाच । 017
हन्त ते कथयिष्यामि शृणु तत्वं समाहिता ॥ 017ac
धर्मकार्यं चिरं कालं विस्मृत्य धनसंयुताः । 018a
प्राणान्तकाले सम्प्राप्ते व्याधिभिश्च निपीडिताः ॥ 018c
आरभन्ते पुनर्धर्मं दातुं दानानि वा नराः । 019a
ते पुनर्जन्मनि शुभे भूत्वा दुःखपरिप्लुताः ॥ 019c
अतीतयौवने काले स्थविरत्वमुपागताः । 020a
लभन्ते पूर्वदत्तानां फलानि शुभलक्षणे ॥ 020c
एतत्कर्मफलं देवि कालयोगाद्भवत्युत ॥ 021ac
उमोवाच । 022
भोगयुक्ता महादेव केचिद्व्याधिपरिप्लुताः । 022a
असमर्थाश्च तान्भोक्तं भवन्ति किमु कारणम् ॥ 022c
महेश्वर उवाच । 023
व्याधियोगपरिक्लिष्टा ये निराशाः स्वजीविते । 023a
आरभन्ते तदा कर्तुं दानानि शुभलक्षणम् ॥ 023c
ते पुनर्जन्मनि शुभे प्राप्य तानि फलान्युत । 024a
असमर्थाश्च तान्भोक्तुं व्याधितास्ते भवन्त्युत ॥ 024c
उमोवाच । 025
भगवन्देवदेवेश मानुषेष्वेव केचन । 025a
रूपयुक्ताः प्रदृश्यन्ते शुभाङ्गा प्रियदर्शनाः । 025c
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 025e
महेश्वर उवाच । 026
हन्त ते कथयिष्यामि शृणु तत्वं समाहिता ॥ 026ac
ये पुरा मनुजा देवि लज्जायुक्ताः प्रियंवदाः । 027a
शक्ताः सुमधुरा नित्यं भूत्वा चैव स्वभावतः ॥ 027c
अमांसभोजिनश्चैव सदा प्राणिदयायुताः । 028a
प्रतिकर्मप्रदा वाऽपि वस्त्रदा धर्मकारणात् । 028c
भूमिशुद्धिकरा वाऽपि कारणादग्निपूजकाः ॥ 028e
एवं युक्तसमाचाराः पुनर्जन्मनि ते नराः । 029a
रूपेण स्पृहणीयास्तु भवन्त्येव न संशयः ॥ 029c
उमोवाच । 030
विरूपाश्च प्रदृश्यन्ते मानुषेष्वेव केचन । 030a
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 030c
महेश्वर उवाच । 031
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् ॥ 031ac
रूपयोगात्पुरा मर्त्या दर्पाहङ्कारसंयुताः । 032a
विरूपहासकाश्चैव स्तुतिनिन्दादिभिर्भृशम् ॥ 032c
परोपतापनाश्चैव मांसादाश्च तथैव च । 033a
अभ्यसूयापराश्चैव अशुद्धाश्च तथा नराः ॥ 033c
एवं युक्तसमाचारा यमलोके सुदण्डिताः । 034a
कथञ्चित्प्राप्य मानुष्यं तत्र ते रूपवर्जिताः । 034c
विरूपाः सम्भवन्त्येव नास्ति तत्र विचारणा ॥ 034e
उमोवाच । 035
भगवन्देवदेवेश केचित्सौभाग्यसंयुताः । 035a
रूपभोग्यविहीनाश्च दृश्यन्ते प्रमदाप्रियाः । 035c
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 035e
महेश्वर उवाच । 036
ये पुरा मनुजा देवि सौम्यशीलाः प्रियंवदाः । 036a
स्वदारैरेव सन्तुष्टा दारेषु समवृत्तयः ॥ 036c
दाक्षिण्येनैव वर्तन्ते प्रमदास्वप्रियास्वपि । 037a
न तु प्रत्यादिशन्त्येव स्त्रीदोषान्गुणसंश्रितान् । 037c
अन्नपानीयदाः काले नृणां स्वादुप्रदाश्च ये । 038a
स्वदारवर्तिनश्चैव धृतिमन्तो निरत्ययाः ॥ 038c
एवं युक्तसमाचाराः पुनर्जन्मनि शोभने । 039a
मानुषास्ते भवन्त्येव सततं सुभगा भृशम् । 039c
अर्थादृतेऽपि ते देवि भवन्ति प्रमदाप्रियाः ॥ 039e
उमोवाच । 040
दुर्भगाः सम्प्रदृश्यन्ते आढ्या भोगयुता अपि । 040a
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ 040c
महेश्वर उवाच । 041
तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता ॥ 041ac
ये पुरा मनुजा देवि स्वदारेष्वनपेक्षया । 042a
यथेष्टवृत्तयश्चैव निर्लज्जा वीतसम्भ्रमाः ॥ 042c
परेषां विप्रियकरा वाङ्मनःकायकर्मभिः । 043a
निराश्रया निरानन्दाः स्त्रीणां हृदयकोपनाः ॥ 043c
एवं युक्तसमाचाराः पनर्जन्मनि ते नराः । 044a
दुर्भगास्तु भवन्त्येव स्त्रीणां हृदयविप्रियाः । 044c
नास्ति तेषां रतिसुखं स्वदारेष्वपि किञ्चन ॥ ॥ 044e

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टादशाधिकद्विशततमोऽध्यायः ॥