अध्यायः 217

पार्वत्या ब्राह्मण्यादिकं किं स्वाभाविकं उत कर्माधीनमिति प्रश्ने ईश्वरेण तस्य कर्माधीनत्वप्रतिपादनम् ॥ 1 ॥ तथा प्राणिनां भोगाभोगादेः स्वस्वकर्मायत्तत्वप्रतिपादनम् ॥ 2 ॥

उमोवाच । भगवन्भगनेत्रघ्न कालसूदन शङ्कर । इमे वर्णाश्च चत्वारो विहिताः स्वस्वभावतः । उताहो क्रियया वर्णाः सम्भवन्ति महेश्वर ॥ एवं मे संशयप्रश्नस्तं मे छेत्तुं त्वमर्हसि ॥ महेश्वर उवाच । स्वभावादेव विद्यन्ते चत्वारो ब्राह्मणादयः । एकजात्या सुदुष्प्रापमन्यवर्णत्वमागतम् ॥ तच्च कर्मविशेषेण पुनर्जन्मनि जायते । तस्मात्तेषां प्रवक्ष्यामि तत्सर्वं कर्मपाकजम् ब्राह्मणस्तु नरो भूत्वा स्वजातिमनुपालयन् । दृढं ब्राह्मणकर्माणि वेदोक्तानि समाचरेत् ॥ सत्यार्जवपरो भूत्वा दानयज्ञपरस्तथा । सत्यां जात्यां समुदितो जातिधर्मान्न हापयेत् ॥ एवं संवर्तमानस्तु कालधर्मं गतः पुनः । स्वर्गलोके हि जायेत स्वर्गभोगाय भामिनि ॥ तत्क्षये ब्राह्मणो भूत्वा तथैव नृषु जायते । एवंस्वकर्मणा मर्त्यः स्वजातिं लभते पुनः ॥ अपरस्तु तथा कश्चिद्ब्रह्मयोनिसमुद्भवः । अवमत्यैव तां जातिमज्ञानतमसा वृतः ॥ अन्यथा वर्तमानस्तु जातिकर्माणि वर्जयेत् । शूद्रवद्विचरेल्लोके शूद्रकर्माभिलाषवान् । शूद्रैः सह चरन्नित्यं शौचमङ्गलवर्जितः । स चापि कालधर्मस्थो यमलोके सुदण्डितः । यदि जायेत मर्त्येषु शूद्र एवाभिजायते ॥ शूद्र एव भवेद्देवि ब्राह्मणोऽपि स्वकर्मणा ॥ तथैव शूद्रस्त्वपरः शूद्रकर्माणि वर्जयेत् । सत्यार्जवपरो भूत्वा दानधर्मपरस्तथा । मन्त्रब्राह्मणसत्कर्ता मनसा ब्राह्मणप्रियः ॥ एवं युक्तसमाचारः शूद्रोपि मरणं गतः । स्वर्गलोके हि जायेत तत्क्षये नृषु जायते । ब्राह्मणानां कुले मुख्ये वेदस्वाध्यायसंयुते ॥ एवमेव सदा लोके शूद्रो ब्राह्मण्यमाप्नुयात् ॥ एवं क्षत्रियवैश्याश्च जातिधर्मेण संयुताः । स्वकर्मणैव जायन्ते विशिष्टेष्वधमेषु च ॥ एवं जातिविपर्यासः प्रेत्यभावे भवेन्नृणाम् । अन्यथा तु न शक्यं तल्लोकसंस्थितिकारणात् ॥ तस्माज्जातिं विशिष्टां तु कथञ्चित्प्राप्य पण्डितः । सर्वथा तां तथा रक्षेन्न पुनर्भ्रश्यते यथा । इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ उमोवाच । जन्मप्रभृति कः शुद्धो लभेज्जन्मफलं नरः । शोभनाशोभनं सर्वमधइकारवशात्स्वकम् ॥ महेश्वर उवाच । कर्म कुर्वन्न लिप्येत आर्जवेन समाचरेत् । आत्मैव तच्छुभं कुर्यादशुभे योजयेत्परान् ॥ शठेषु शठवत्कुर्योदार्यष्वार्यवदाचरेत् । आपत्सु नावसीदेच्च घोरान्सङ्ग्रामयेत्परात् । साम्नैव सर्वकार्याणि कर्तुं पूर्वं समारभेत् ॥ अनर्थाधर्मशोकानां यथा न प्राप्नुयात्स्वयम् । प्रीयते तत्तथा कर्तुमेतद्वृत्तं समासतः ॥ एवं वृत्तं समासाद्य गृहमाश्रित्य मानवाः । निराहारा निरुद्वेगाः प्राप्नुवन्त्युत्तमां गतिम् ॥ एतज्जन्मफलं नित्यं सर्वेषां गृहवासिनाम् । एवं गृहस्थितैर्नित्यं वर्तितव्यमिति स्थितिः । एतत्सर्वं मया प्रोक्तं किं भूयः श्रोतुमिच्छसि ॥ उमोवाच । सुरासुरपते देव वरद प्रीतिवर्धन । मानुषेष्वेव ये के चिदाढ्याः क्लेशविवर्जिताः । भुञ्जाना विविधान्भोगान्दृश्यन्ते निरुपद्रवाः ॥ अपरे क्लेशसंयुक्ता दरिद्रा भोगवर्जिताः ॥ किमर्थं मानुषे लोके न समत्वेन कल्पिताः । एतच्छ्रोतुं महादेव कौतूहलमतीव मे ॥ महेश्वर उवाच । न्यायतस्त्वं महाभागे श्रोतुकामासि भामिनि । शृणु तत्सर्वमखिलं मानुषाणां हितं वचः ॥ आदिसर्गे पुरा ब्रह्मा समत्वेनासृजत्प्रजाः । नित्यं न भवतो ह्यस्य रागद्वेषौ प्रजापतेः । तदा तस्मात्सुराः सर्वे बभूवुः समतो नराः ॥ एवं संवर्तमाने तु युगे कालविपर्ययात् । केचित्प्रपेदिरे तत्र विषमं बुद्धिमोहिताः ॥ तेषां हानिं ततो दृष्ट्वा तुल्यानामेव भामिनि । ब्राह्मणास्ते समाजग्मुस्तत्तत्कारणवेदकाः ॥ कर्तुं नार्हसि देवेश पक्षपातं त्वमीदृशम् । पुत्रभावे समे देव किमर्थं नो भवेत्कलिः ॥ एवमेतैरुपालब्धो ब्रह्मा वचनमब्रवीत् । यूयं मा ब्रूत मे दोषं स्वकृतं स्मरथ प्रजाः ॥ युष्माभिरेव युष्माकं ग्रथितं हि शुभाशुभम् । यादृशं कुरुते कर्म तादृशं फलमश्नुते । स्वकृतस्य फलं भुङ्क्ते नान्यस्तद्बोक्तुमर्हति ॥ एवं सम्बोधितास्तेन कालकर्त्रा स्वयम्भुवा । पुनर्विवृत्य कर्माणि शुभान्येव प्रपेदिरे ॥ एवं विज्ञाततत्वास्ते दानधर्मपरायणाः । शुभानि विधिवत्कृत्वा कालधर्मगताः पुनः । तानि दानफलान्येव भुञ्जते सुखभोगिनः ॥ स्वकृतं तु नरस्तस्मात्स्वयमेव प्रपद्यते ॥ अपरे धर्मकामेभ्यो निवृत्ताश्च शुभेक्षणे । कदर्या निरनुक्रोशाः प्रायेणात्मपरायणाः ॥ तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने । दरिद्राः क्लेशभूयिष्ठा भवन्त्येव न संशयः ॥ उमोवाच । मानुषेष्वथ ये केचिद्धनधान्यसमन्विताः । भोगहीनाः प्रदृश्यन्ते सर्वभोगेषु सत्स्वपि । न भुञ्जते किमर्थं ते तन्मे शंसितुमर्हसि ॥ महेश्वर उवाच । परैः सञ्चोदिता धर्मं कुर्वते न स्वकामतः । स्वयं श्रद्धां बहिष्कृत्य कुर्वन्ति च रुदन्ति च ॥ तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने । फलानि तानि सम्प्राप्य भुञ्जते न कदाचन । रक्षन्तो वर्धयन्तश्च आसते निधिपालवत् ॥ उमोवाच । केचिद्धनवियुक्ताश्च भोगयुक्ता महेश्वर । मानुषाः सम्प्रदृश्यन्ते तन्मे शंसितुमर्हसि ॥ महेश्वर उवाच । आनृशंस्यपरा ये तु धर्मकामाश्चि दुर्गताः । परोपकारं कुर्वन्ति दीनानुग्रहकारणात् ॥ प्रतिपद्युः परधनं नष्टं वाऽन्यैर्नरैर्हृतम् । नित्यं ये दातुमनसो नरा वित्तेष्वसत्स्वपि ॥ कालधर्मवशं प्राप्ताः पुनर्जन्मनि ते नराः । एते धनविहीनाश्च भोगयुक्ता भवन्त्युत ॥ धर्मदानोपदेशं वा कर्तव्यमिति निश्चयः । इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तदशाधिकद्विशततमोऽध्यायः ॥ 217 ॥