अध्यायः 216
महेश्वरेण पार्वतीं प्रति त्रिवर्गनिरूपणम् ॥ 1 ॥
महेश्वर उवाच । 001
पशवः पशुबन्धेषु ये हन्यन्तेऽध्वरेषु च । 001a
यूपे निबध्य मन्त्रैश्च यथान्यायं यथाविधि । 001c
मन्त्राहुतिविपूतास्ते स्वर्गं यान्ति यशस्विनि ॥ 001e
तर्पिता यज्ञभागेषु तेषां मांसैर्वरानने । 002a
अग्नयस्त्रिदशाश्चैव लोकपाला महेश्वराः ॥ 002c
तेषु तुष्टेषु जायेत यस्य यज्ञस्य यत्फलम् । 003a
तेन संयुज्यते देवि यजमानो न संशयः ॥ 003c
सपत्नीकः सपुत्रश्च पित्रा च भ्रातृभिः सह । 004a
ये तत्र दीक्षिता देवि सर्वे स्वर्गं प्रयान्ति ते ॥ 004c
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ 005ac
उमोवाच । 006
भगवन्सर्वभूतेश शूलपाणे महाद्युते । 006a
श्रोतुमिच्छाम्यहं वृत्तं सर्वेषां गृहमेधिनाम् ॥ 006c
कीदृशं चरितं तेषां त्रिवर्गसहितं प्रभो । 007a
प्रत्यायतिः कथं तेषां जीवनार्थमुदाहृतम् ॥ 007c
वर्तमानाः कथं सर्वे प्राप्नुवन्त्युत्तमां गतिम् । 008a
एतत्सर्वं समासेन वक्तुमर्हसि मानद ॥ 008c
महेश्वर उवाच । 009
न्यायतस्त्वं महाभागे श्रोतुकामाऽसि भामिनि । 009a
प्रायशो लोकसद्वृत्तमिष्यते गृहवासिनाम् ॥ 009c
तेषां संरक्षणार्थाय राजानः संस्कृता भुवि । 010a
सर्वेषामथ मर्त्यानां वृत्तिं सामान्यतः शृणुः ॥ 010c
विद्या वार्ता च सेवा च कारुत्वं नाट्यता तथा । 011a
इत्यते जीवनार्थाय मर्त्यानां विहिताः प्रिये ॥ 011c
अपि जन्मफलं तावन्मानुषाणां विशेषतः । 012a
विहितं तत्स्ववृत्तेन तन्मे शृणु समाहिताः ॥ 012c
कर्मक्षेत्रं हि मानुष्यं सुखदुःखयुताः परे । 013a
सर्वेषां प्राणिनां तस्मान्मानुष्ये वृत्तिरिष्यते ॥ 013c
विद्यायोगस्तु सर्वेषां पूर्वमेव विधीयते । 014a
कार्याकार्यं विजानन्ति विद्यया देवि नान्यथा ॥ 014c
विद्यया स्फीयते ज्ञानं ज्ञानात्तत्वनिदर्शनम् । 015a
दृष्टतत्वो विनीतात्मा सर्वार्थस्य च भाजनम् ॥ 015c
शक्यं विद्याविनीतेन लोके सञ्जीवनं शुभम् ॥ 016ac
आत्मानं विद्यया तस्मात्पूर्वं वृत्वा तु भाजनम् । 017a
वश्येन्द्रियो जितक्रोधो भूतात्मानं तु भावयेत् । 017c
भावयित्वा तदाऽऽत्मानं पूजनीयः सतामपि ॥ 017e
कुलानुवृत्तं वृत्तं वा पूर्वमात्मा समाश्रयेत् । 018a
इत्येतत्कुलवासाय दानकर्म यथा पुरा ॥ 018c
यदि चेद्विद्यया चैव वृत्तिं काङ्क्षेदथात्मनः । 019a
राजविद्यानुवादेऽपि लोकविद्यामथापि वा । 019c
तीर्थतश्चापि गृह्णीयाच्छुश्रूषादिगुणैर्युतः ॥ 019e
ग्रन्थतश्चार्थतश्चैव दृढं कुर्यात्प्रयत्नतः । 020a
एवं विद्याफलं देवि प्राप्नुयान्नान्यथा नरः । 020c
न्यायाद्विद्याफलानीच्छेदधर्मं तत्र वर्जयेत् ॥ 020e
यदिच्छेद्वार्तया वृत्तिं काङ्क्षेत विधिपूर्वकम् । 021a
क्षेत्रे जलोपपन्ने च तद्योग्यां कृषिमाचरेत् ॥ 021c
वाणिज्यं वा यथाकालं कुर्यात्तद्देशयोगतः । 022a
मूल्यमर्थं प्रयासं च विचार्यैव व्ययोदयौ ॥ 022c
पशुसञ्जीवनं चैव दश गाः पोषयेद्ध्रुवम् । 023a
बहुप्रकारा बहवः पशवस्तस्य साधकाः ॥ 023c
यः कश्चित्सेवया वृत्तिं काङ्क्षेत मतिमान्नरः । 024a
यतात्मा श्रवणीयानां भवेद्वै सम्प्रयोजकः ॥ 024c
बुद्ध्या वा कर्मयोगाद्वा बोधनाद्वा समाश्रयेत् । 025a
मार्गतस्तु समाश्रित्य तदा तत्सम्प्रयोजयेत् ॥ 025c
यथायथा स तुष्येत तथा सन्तोषयेत्तु तम् । 026a
अनुजीविगुणोपेतः कुर्यादात्मार्थमाश्रितम् ॥ 026c
विप्रियं नाचरेत्तस्य एषा सेवा समासतः । 027a
विप्रयोगात्पुरा तेन गतिमन्यां न लक्षयेत् ॥ 027c
कारुकर्म च नाट्यं च प्रायशो नीचयोनिषु । 028a
तयोरपि यथायोगं न्यायतः कर्मवेतनम् ॥ 028c
आजीवेभ्योऽपि सर्वेभ्यः स्वार्जवाद्वेतनं हरेत् । 029a
अनार्जवादाहरतस्तत्तु पापाय कल्पते ॥ 029c
सर्वेषां पूर्वमारम्भांश्चिन्तयेन्नयपूर्वकम् । 030a
आत्मशक्तिमुपायांश्च देशकालौ च युक्तितः । 030c
कारणानि प्रयासं च प्रक्षेपं च फलोदयम् ॥ 030e
एवमादीनि सञ्चिन्त्य दृष्ट्वा दैवानुकूलताम् । 031a
अतः परं समारम्भेद्यत्रात्महितमाहितम् ॥ 031c
वृत्तिमेव समासाद्य तां सदा परिपालयेत् । 032a
देवमानुषविघ्नेभ्यो न पुनर्मन्यते यथा ॥ 032c
पालयन्वर्धयन्भुञ्जंस्तां प्राप्य न विनाशयेत् । 033a
क्षीयते गिरिसङ्काशमश्नतो ह्यनपेक्षया ॥ 033c
आजीवेभ्यो धनं प्राप्य चतुर्धा विभजेद्बुधः । 034a
धर्मायार्थाय कामाय आपत्प्रशमनाय च ॥ 034c
चतुर्ष्वपि विभागेषु विधानं शृणु शोभने ॥ 035ac
यज्ञार्थं चान्नदानार्थं दीनानुग्रहकारणात् । 036a
देवब्राह्मणपूजार्थं पितृपूजार्थमेव च ॥ 036c
मूलार्थं सन्निवासार्थं क्रियानित्यैश्चि धार्मिकैः । 037a
एवमादिषु चान्येषु धर्मार्थं सन्त्यजेद्धनम् ॥ 037c
धर्मकार्ये धनं दद्यादनवेक्ष्य फलोदयम् । 038a
ऐश्वर्यस्थानलाभार्थं राजवाल्लभ्यकारणात् ॥ 038c
वार्तायां च समारम्भेऽमात्यमित्रपरिग्रहे । 039a
आवाहे च विवाहे च पुत्राणां वृत्तिकारणात् ॥ 039c
अर्थोदयसमावाप्तावनर्थस्य विघातने । 040a
एवमादिषु चान्येषु अर्थार्थं विसृजेद्धनम् ॥ 040c
अनुबन्धं हेतुयुक्तं दृष्ट्वा वित्तं परित्यजेत् । 041a
अनर्थं बाधते ह्यर्थो अर्थं चैव फलान्युत ॥ 041c
नाधनाः प्राप्नुन्त्यर्थं नरा यत्नशतैरपि । 042a
तस्माद्धनं रक्षितव्यं दातव्यं च विधानतः ॥ 042c
शरीरपोषणार्थाय आहारस्य विशोषणे । 043a
नटगान्धर्वसंयोगे कामयात्राविहारयोः ॥ 043c
मनःप्रियाणां संयोगे प्रीतिदाने तथैव च । 044a
एवमादिषु चान्येषु कामार्तं विसृजेद्धनम् ॥ 044c
विचार्य गुणदोषांस्तु त्रयाणां तत्र सन्त्यजेत् । 045a
चतुर्थं सन्निदध्याच्च आपदर्थं शुचिस्मिते ॥ 045c
राज्यभ्रंशविनाशार्थं दुर्भिक्षार्थं च शोभने । 046a
महाव्याधिविमोक्षार्थं वार्धकस्यैव कारणात् ॥ 046c
शत्रूणां प्रतिकाराय साहसैश्चाप्यमर्षणात् । 047a
प्रस्थाने चान्यदेशार्थमापदां विप्रमोक्षणे । 047c
एवमादि समुद्दिश्य सन्निदध्यात्स्वकं धनम् ॥ 047e
सुखमर्थवतां लोके कृच्छ्राणां विप्रमोक्षणम् । 048a
यस्य नास्ति धनं किञ्चित्तस्य लोकद्वयं न च ॥ 048c
अशनादिन्द्रियाणीव सर्वमर्थात्प्रवर्तते । 049a
निधानमात्रं यस्तेषामन्यथा विलयं व्रजेत् । 049c
एवं देवि मनुष्याणां लोकानां जीवनं प्रति ॥ 049e
एवं लोकस्य वृत्तस्य लोकवृत्तं पुनः शृणु । 050a
धन्यं यशस्यमायुष्यं स्वर्ग्यं च परमं यशः ॥ 050c
त्रिवर्गो हि वशे युक्तः सर्वेषां संविधीयते । 051a
तथा संवर्तमानास्तु लोकयोर्हितमाप्नुयुः ॥ 051c
काल्योत्थानं च शौचं च देवब्राह्मणभक्तितः । 052a
गुरुणामेव शुश्रूषा ब्राह्मणेष्वभिवादनम् ॥ 052c
प्रत्युत्थानं च वृद्धानां देवस्थानप्रणामनम् । 053a
आभिमुख्यं पुरस्कृत्य अतिथीनां च पूजनम् ॥ 053c
वृद्धोपदेशकरणं श्रवणं हितपथ्ययोः । 054a
पोषणं भृत्यवर्गस्य सान्त्वदानपरिग्रहे ॥ 054c
न्यायतः कर्मकरणमन्यायाहितवर्जितम् । 055a
सम्यग्वृत्तं स्वदारेषु दोषाणां प्रतिषेधनम् ॥ 055c
पुत्राणां विनयं कुर्यात्तत्तत्कार्यनियोजनम् । 056a
वर्जनं चाशुभार्थानां शुभानां जोषणं तथा ॥ 056c
कुलोचितानां धर्माणां यथावत्परिपालनम् । 057a
कुलसन्धारणं चैव पौरुषेणैव सर्वशः । 057c
एवमादि शुभं सर्वं तस्य वृत्तमिति स्थितम् ॥ 057e
वृद्धसेवी भवेन्नित्यं हितार्थं ज्ञानकाङ्क्षया । 058a
परार्थं नाहरेद्द्रव्यमनामन्त्र्य तु सर्वथा । 058c
न याचेत परान्धीरः स्वबाहुबलमाश्रयेत् ॥ 058e
स्वशरीरं सदा रक्षेदाहाराचारयोरपि । 059a
हितं पथ्यं सदाहारं जीर्णं भुञ्जीत मात्रया ॥ 059c
देवतातिथिसत्कारं कृत्वा सर्वं यथाविधि । 060a
शेषं भुञ्जेच्छुचिर्भूत्वा न च भाषेत विप्रियम् ॥ 060c
प्रतिश्रयं च पानीयं बलिं भिक्षां च सर्वतः । 061a
गृहस्थवासी सततं तद्याद्गाश्चैव पोषयेत् ॥ 061c
बहिर्निष्क्रमणं चैव कुर्यात्कारणतोपि वा । 062a
मध्याह्ने वाऽर्धरात्रे वा गमनाय न रोचयेत् ॥ 062c
विषयान्नावगाहेत स्वशक्त्या तु समाचरेत् । 063a
यथाऽऽयव्ययता लोके गृहस्थानां प्रपूजितम् ॥ 063c
अयशस्करमर्थघ्नं कर्म यत्परपीडनम् । 064a
भयाद्वा यदि लोभाद्वा न कुर्वीत कदाचन ॥ 064c
बुद्धिपूर्वं समालोक्य दूरतो गुणदोषतः । 065a
आरभेत तदा कर्म शुभं वा यदि वेतरत् ॥ 065c
आत्मसाक्षी भवेन्नित्यमात्मनस्तु शुभाशुभे । 066a
मनसा कर्मणा वाचा न च काङ्क्षेत पातकम् ॥ ॥ 066c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षोडशाधिकद्विशततमोऽध्यायः ॥ 216 ॥