अध्यायः 215
ईश्वरेण पार्वतीं प्रति राज्ञां मृगयायां मृगहिंसाया धर्मत्वप्रतिपादनम् ॥ 1 ॥ तथा सदृष्टान्तप्रदर्शनं ब्राह्मणमहिमप्रशो सनपूर्वकं तेषामदण्ड्यत्वकथनम् ॥ 2 ॥ तथा सामान्येन राजधर्मकथनम् ॥ 3 ॥
महेश्वर उवाच । 001
मृगयात्रां तु वक्ष्यामि शृणु तां धर्मिचारिणि । 001a
मृगान्हत्वा महीपालो यथा पापैर्न लिप्यते ॥ 001c
निर्मानुषामिमां सर्वे मृगा इच्छन्ति मेदिनीम् । 002a
भक्षयन्ति च सस्यानि शासितव्या नृपेण ते ॥ 002c
दुष्टानां शासनं धर्मः शिष्टानां परिपालनम् । 003a
कर्तव्यं भूमिपालेन नित्यं कार्येषु चार्जवम् । 003c
स्वर्गं मृगाश्च गच्छन्ति स्वयं नृपतिना हताः ॥ 003e
यथा गावो ह्यगोपालास्तथा राष्ट्रमनायकम् । 004a
तस्मादंशास्तु देवानां गन्धर्वोरगरक्षसाम् । 004c
राज्ये नियुक्ता राष्ट्रेषु प्रजापालनकारणात् ॥ 004e
अशिष्टशासने चैव शिष्टानां परिपालने । 005a
तेषां चर्यां प्रवक्ष्यामि श्रूयतामनुपूर्वशः ॥ 005c
यथा प्रचरतां तेषां पार्थिवानां यशस्विनाम् । 006a
राष्ट्रं धर्मो धनं चैव यशः कीर्तिश्च वर्धते ॥ 006c
नृपाणां पूर्वमेवायं धर्मो धर्मभृतांवर । 007a
सभाप्रपातटाकानि देवतायतनानि च । 007c
ब्राह्मणावसथाश्चैव कर्तव्या नृपसत्तमैः ॥ 007e
ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः । 008a
कुलमुत्सादयेयुस्ते क्रोधाविष्टा द्विजातयः ॥ 008c
ध्मायमानो यता ह्यग्निर्निर्दहेत्सर्वमिन्धनम् । 009a
तथा क्रोधाग्निना विप्रा दहेयुः पृथिवीमिमाम् । 009c
न हि विप्रेषु क्रुद्धेषु राज्यं भुञ्जन्ति भूमिपाः ॥ 009e
परिभूय द्विजान्मोहाद्वातापिनहुषादयः । 010a
सबन्धुमित्रा नष्टास्ते दग्धा ब्राह्मणमन्युभिः । 010c
शरीरं चापि शक्रस्य कृतं भगनिरन्तरम् ॥ 010e
ततो देवगणाः सर्वे इन्द्रस्यार्थे महामुनिम् । 011a
प्रसादं कारयामासुः प्रणामस्तुतिवन्दनैः ॥ 011c
तेन प्रीतेन सुश्रोणि गौतमेन महात्मना । 012a
तच्छरीरं तु शक्रस्य सहस्रभगचिह्नितम् । 012c
कृतं नेत्रसहस्रेण क्षणेनैव निरन्तरम् ॥ 012e
छित्त्वा मेषस्य वृषणौ गौतमेनाभिमन्त्रितौ । 013a
इन्द्रस्य वृषणौ भूत्वा क्षिप्रं वै श्लेषमागतौ ॥ 013c
एवं विप्रेषु क्रुद्धेषु देवराजः शतक्रतुः । 014a
अशक्तः शासितुं राज्यं किम्पुनर्मानुषा भुवि ॥ 014c
क्रोधाविष्टो दहेद्विप्रः शुष्केन्धनमिवानलः । 015a
भस्मीकृत्य जगत्सर्वं सृजेदन्यज्जगत्पुनः ॥ 015c
अदेवानपि देवान्स कुर्याद्देवानदेवताः । 016a
तस्मान्नोत्पादयेन्मन्युं मन्युप्रहरणा द्विजाः ॥ 016c
महत्स्वप्यपराधेषु शासनं नार्हति द्विजः । 017a
न च शस्त्रनिपातानि न च प्राणैर्वियोजनम् । 017c
दृश्यते त्रिषु लोकेषु ब्राह्ममानामनिन्दिते ॥ 017e
क्रोधाश्च विपुला घोराः प्रसादाश्चाप्यनुत्तमाः । 018a
तस्मान्नोत्पादयेत्क्रोधं नित्यं पूज्या द्विजातयः ॥ 018c
दृश्यते न स लोकेऽस्मिन्भूते वाऽथ भविष्यति । 019a
क्रुद्धेषु यो वै विप्रेषु राज्यं भुङ्क्ते नराधिपः ॥ 019c
न चैवापहसेद्विप्रान्नि चैवोपालभेच्च तान् । 020a
कालमासाद्य कुप्येच्च काले कुर्यादनुग्रहम् ॥ 020c
सम्प्रहासश्च भृत्येषु न कर्तव्यो नराधिपैः । 021a
लघुत्वं चैव प्राप्नोति आज्ञा चास्य निवर्तते ॥ 021c
भृत्यानां सम्प्रहासेन पार्थिवः परिभूयते । 022a
अयाच्यानि च याचन्ति अवक्तव्यं ब्रुवन्ति च ॥ 022c
पूर्वमप्यर्पितैर्लोभैः परितोषं न यान्ति ते । 023a
तस्माद्भृत्येषु नृपतिः सम्प्रहासं विवर्जयेत् ॥ 023c
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । 024a
सगोत्रेषु विशेषेण सर्वोपायैर्न विश्वसेत् ॥ 024c
विश्वासाद्भयमुत्पन्नं हन्याद्वृक्षमिवाशनिः । 025a
प्रमादाद्धन्यते राजा लोभेन च वशीकृतः । 025c
तस्मात्प्रमादं लोभं च न च कुर्यान्न विश्वसेत् ॥ 025e
भयार्तानां भयत्राता दीनानुग्रहकारणात् । 026a
कार्याकार्यविशेषज्ञो नित्यं राष्ट्रहिते रतः ॥ 026c
सत्यसन्धः स्थितो राज्ये प्रजापालनतत्परः । 027a
अलुब्धो न्यायवादी च षड्भागमुपजीवति ॥ 027c
कार्याकार्यविशेषज्ञः सर्वं धर्मेण पश्यति । 028a
स्वराष्ट्रेषु दयां कुर्यादकार्ये न प्रवर्तते ॥ 028c
ये चैवैनं प्रशंसन्ति ये च निन्दन्ति मानवाः । 029a
शत्रुं च मित्रवत्पश्येदपराधविवर्जितम् । 029c
अपराधानुरूपेण दुष्टं दण्डेन शासयेत् । 030a
धर्मः प्रवर्तते तत्र यत्र दण्डरुचिर्नृपः । 030c
न धर्मो विद्यते तत्र यत्र राजा क्षमान्वितः ॥ 030e
अशिष्टशासनं धर्मः शिष्टानां परिपालनम् । 031a
वध्यांश्च घातयेद्यस्तु अवध्यानपरिरक्षति ॥ 031c
अवध्या ब्राह्मणा गावो दूताश्चैव पिता तथा । 032a
विद्यां ग्राहयते यश्च ये च पूर्वोपकारिणः । 032c
स्त्रियश्चैव न हन्तव्या यच्च सर्वातिथिर्नरः ॥ 032e
धरणीं गां हिरण्यं च सिद्धान्नं च तिलान्घृतम् । 033a
ददन्नित्यं द्विजातिभ्यो मुच्यते राजकिल्बिषात् ॥ 033c
एवं चरति यो नित्यं राजा राष्ट्रहिते रतः । 034a
तस्य राष्ट्रं धनं धर्मो यशः कीर्तिश्च वर्धते । 034c
न च पापैर्न चानर्थैर्युज्यते स नराधिपः ॥ 034e
षड्भागमुपभुञ्जानः प्रजा राजा न रक्षति । 035a
स्वचक्रपरचक्राभ्यां धर्मैर्वा विक्रमेण वा ॥ 035c
निरुद्योगो नृपो यश्च परराष्ट्रनिघातने । 036a
स्वराष्ट्रं निष्प्रतापस्य परचक्रेण हन्यते ॥ 036c
यत्पापं परचक्रस्य परराष्ट्राभिघातने। 037a
तत्पापं सकलं राजा हतराष्ट्रः प्रपद्यते ॥ 037c
मातुलं भागिनेयं वा मातरं श्वशुरं गुरुम् । 038a
पितरं वर्जयित्वैकं हन्याद्धातकमागतम् ॥ 038c
स्वस्य राष्ट्रस्य रक्षार्थं युद्यमानश्च यो हतः । 039a
सङ्ग्रामे परचक्रेण श्रूयतां तस्य या गतिः ॥ 039c
विमानेन वरारोहे अप्सरोगणसेवितः । 040a
शक्रलोकमितो याति सङ्ग्रामे निहतो नृपः ॥ 040c
यावन्तो रोमकूपाः स्युस्तस्य गात्रेषु सुन्दरि । 041a
तावद्वर्षसहस्राणि शक्रलोके महीयते ॥ 041c
यदि वै मानुषे लोके कदाचिदुपपद्यते । 042a
राजा वा राजमात्रो वा भूयो भवति वीर्यवान् ॥ 042c
तस्माद्यत्नेन कर्तव्यं स्वराष्ट्रपरिपालनम् । 043a
व्यवहाराश्च चारश्च सततं सत्यसन्धता ॥ 043c
अप्रमादः प्रमोदश्च व्यवसायेऽप्यचण्डता । 044a
भरणं चैव भृत्यानां वाहनानां च पोषणम् ॥ 044c
योधानां चैव सत्कारः कृते कर्मण्यमोघता । 045a
श्रेय एव नरेन्द्राणामिह चैव परत्र च ॥ ॥ 045c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चदशाधिकद्विशततमोऽध्यायः ॥ 215 ॥
13-215-23 पूर्वमप्युचितैर्लाभैरिति ठ.पाठः ॥ 13-215-30 नाधर्मो विद्यते तत्रेति थ.पाठः ॥ 13-215-31 यो घातयेत् तस्याशिष्टशासनं धर्मं इत्यन्वयः ॥