अध्यायः 214
महेश्वरेण पार्वतीं प्रति सदृष्टान्तप्रदर्शनं सर्वैर्विधेर्दुरतिक्रमत्वनिरूपणम् ॥ 1 ॥ तथा योधधर्मकथनपूर्वकं राज्ञां योधानां च प्राणयज्ञप्रशंसनम् ॥ 2 ॥
महेश्वर उवाच । 001
श्रूयतां कारणं देवि यथा हि दुरतिक्रमः । 001a
विधिः सर्वेषु भूतेषु मर्तव्ये समुपस्थिते ॥ 001c
आयुःक्षयेणोपहिताः समागम्य वरानने । 002a
कीटाः पतङ्गा बहवः स्थूलाः सूक्ष्माश्च मध्यमाः । 002c
प्रज्वलत्सु प्रदीपेषु स्वयमेव पतन्ति ते ॥ 002e
बहूनां मृगयूथानां नानावननिषेविणाम् । 003a
यस्तु कालं गतस्तेषां स वै पाशेन बध्यते ॥ 003c
सूनार्थं देवि बद्धानां क्षीणायुर्यो निबध्यते । 004a
अवशो घातकस्याथ हस्तं तदहरेति सः ॥ 004c
यथा पक्षिगणाः क्षिप्रं विस्तीर्णाकाशगामिनः । 005a
क्षीणायुषो निबध्यन्ते शक्ता अपि पलायितुम् ॥ 005c
यथा वारिचरा मीना बहवोऽम्बुजजातयः । 006a
जालं समधिरोहन्ति स्वयमेव विधेर्वशात् ॥ 006c
शल्यकस्य च जिह्वाग्रं स्वयमारुह्य शोभने । 007a
आयुःक्षयेणोपहता निबध्यन्ते सरीसृपाः ॥ 007c
कृषतां कर्षकाणां च नास्ति बुद्धिर्विहिंसने । 008a
अथैषां लाङ्गलाग्राद्यैर्हन्यन्ते जन्तवोऽक्षयाः ॥ 008c
पादाग्रेणैव चैकेन यां हिंसां कुरुते नरः । 009a
मातङ्गोपि न तां कुर्यात्क्रूरो जन्मशतैरपि ॥ 009c
म्रियन्ते यैर्हि मर्तव्यं न तान्घ्नन्ति कृषीवलाः । 010a
कृषामीति मनस्तस्य नास्ति चिन्ता विहिंसने ॥ 010c
तस्माज्जीवसहस्राणि हत्वाऽपि न स लिप्यते । 011a
विधिना स हतः पूर्वं पश्चात्प्राणि विपद्यते । 011c
एवं सर्वेषु भूतेषु विधिर्हि दुरतिक्रमः ॥ 011e
गतायुषा मुहूर्तं तु न शक्यमुपजीवितुम् । 012a
जीवितव्ये न मर्तव्यं न भूतं न भविष्यति ॥ 012c
शुभाशुभं कर्मफलं न शक्यमतिवर्तितुम् । 013a
तथा ताभिश्च मर्तव्यं मोक्तव्याश्चैव तास्तथा ॥ 013c
रन्तिदेवस्य गावो वै विधेर्हि वशमागताः । 014a
स्वयमायान्ति गावो वै हन्यन्ते यत्र सुन्दरि ॥ 014c
गवां वै हन्यमानानां रुधिरप्रभवा नदी । 015a
चर्मण्वतीति विख्याता खुरशृङ्गास्थिदुर्गमा ॥ 015c
रुधिरं तां नदीं प्राप्य तोयं भवति शोभने । 016a
मेध्यं पुण्यं पवित्रं च गन्धवर्णरसैर्युतम् ॥ 016c
तत्राऽभिषेकं कुर्वन्ति कृतजप्याः कृताह्निकाः । 017a
द्विजा देवगणाश्चापि लोकपाला महेश्वराः ॥ 017c
तस्य राज्ञः सदा सत्रे स्वयमागम्य सुन्दरि । 018a
विधिना पूर्वदृष्टेन तन्मांसमुपकल्पितम् । 018c
मन्त्रवत्प्रतिगृह्णन्ति यथान्यायं यथाविधि ॥ 018e
समांसं च सदा ह्यन्नं शतशोऽथ सहस्रशः । 019a
भुञ्जानानां द्विजातीनामस्तमेति दिवाकरः ॥ 019c
गावो यास्तत्र हन्यन्ते राज्ञस्तस्य क्रतूत्तमे । 020a
पठ्यमानेषु मन्त्रेषु यथान्यायं यथाविधि ॥ 020c
ताश्च स्वर्गं गता गावो रन्तिदेवश्च पार्थिवः । 021a
सदा सत्रविधानेन सिद्धिं प्राप्तो नरोत्तमः ॥ 021c
अथ यस्तु सहायार्थमुक्तः स्यात्पार्थिवैर्नरैः । 022a
भोगानां संविभागेन वस्त्राभरणभूषणैः ॥ 022c
सहभोजनसम्बद्धैः सत्कारैर्विविधैरपि । 023a
सहायकाले सम्प्राप्ते सङ्ग्रामे शस्त्रमुद्धरेत् ॥ 023c
व्यूढानीके यथाशास्त्रं सेनयोरुभयोरपि । 024a
हस्त्यश्वरथसम्पूर्णे पदातिबलसङ्कुले । 024c
चामरच्छत्रशबले ध्वजचर्मायुधोज्ज्वले ॥ 024e
शक्तितोमरकुन्तासिशूलमुद्गरपाणिभिः । 025a
कूटमुद्गरचापेषु मुसुण्ठीजुष्टमुष्टिभिः ॥ 025c
भिण्डिपालगदाचक्रप्रासकर्पटधारिभिः । 026a
नानाप्रहरणैर्योधैः सेनयोरुभयोरपि । 026c
युद्धशौण्डैः प्रगर्जद्भिर्वृषेषु वृषभैरिव ॥ 026e
शङ्खदुन्दुभिनादेन नानातूर्यरवेण च । 027a
हयहेषितशब्देन कुञ्जराणां तु बृंहितैः ॥ 027c
योधानां सिंहनादैश्च घण्टानां शिञ्जितस्वनैः । 028a
दिशश्च विदिशश्चैव समन्ताद्बधिरीकृताः ॥ 028c
ग्रीष्मान्तेष्विव गर्जद्भिर्नभसीव बलाहकैः । 029a
रथनेमिखुरोद्धूतैररुणै रणरेणुभिः । 029c
कपिलाभिरिवाकाशे छाद्यमाने समन्ततः ॥ 029e
प्रवृत्ते शस्त्रसम्पाते योधानां तत्र सेनयोः । 030a
तेषां प्रहारक्षतजं रक्तचन्दनसन्निभम् ॥ 030c
तेषामस्राणि गात्रेभ्य स्रवन्ते रणमूर्धनि । 031a
पलाशाशोकपुष्पाणां जङ्गमा इव राशयः ॥ 031c
रणे समभिवर्तन्त उद्यतायुधपाणयः । 032a
शोभमाना रणे शूरा आह्वयन्तः परस्परम् ॥ 032c
हन्यमानेष्वभिघ्नत्सु शूरेषु रणसङ्कटे । 033a
पृष्ठं दत्त्वा च ये तत्र नायकस्य नराधमाः ॥ 033c
अनाहता निवर्तन्ते नायके चाप्यनीप्सति । 034a
ते दुष्कृतं प्रपद्यन्ते नायकस्याखिलं नराः । 034c
यच्चास्ति सुकृतं तेषां युज्यते तेन नायकः ॥ 034e
अहिंसा परमो धर्म इति येऽपि नरा विदुः । 035a
सङ्ग्रामेषु न युध्यन्ते भृत्याश्चैवानुरूपतः । 035c
नरकं यान्ति ते घोरं भर्तृपिण्डापहारिणः ॥ 035e
यस्तु प्राणान्परित्यज्य प्रविशेदुद्यतायुधः । 036a
सङ्ग्राममग्निप्रतिमं पतङ्ग इव निर्भयः । 036c
स्वर्गमाविशते प्रेत्य ज्ञात्वा योधस्य निश्चयम् ॥ 036e
आविष्टश्चैव सत्त्वेन सघृणो जायते नरः । 037a
प्रहारैर्नन्दयेद्देवि सत्वेनाधिष्ठितो हि सः । 037c
प्रहारव्यथितश्चैव न वैक्लब्यमुपैति सः ॥ 037e
यस्तु स्वं नायकं रक्षेदतिघोरे रणाङ्कणे । 038a
तापयन्नरिसैन्यानि सिंहो मृगगणानिव । 038c
आदित्य इव मध्याह्ने दुर्निरीक्ष्यो रणाजिरे ॥ 038e
निर्दयो यस्तु सङ्ग्रामे प्रहरन्नुद्यतायुधः । 039a
यजते स तु पूतात्मा सङ्ग्रामेण महाक्रतुम् ॥ 039c
चर्म कृष्णाजिनं तस्य दन्तकाष्ठं धनुः स्मृतम् । 040a
रथो वेदिर्ध्वजो यूपः कुशाश्च रथरश्मयः ॥ 040c
मानो दर्पस्त्वहङ्कारस्त्रयस्त्रेताग्नयः स्मृताः । 041a
प्रमोदश्च स्रुवस्तस्य उपाध्यायो हि सारथिः ॥ 041c
स्रुग्भाण्डं चापि यत्किञ्चिद्यज्ञोपकरणानि च । 042a
आयुधान्यस्य तत्सर्वं समिधः सायकाः स्मृताः ॥ 042c
स्वेदस्रवश्च गात्रेभ्यः क्षौद्रं तस्य यशस्विनः । 043a
पुरोडाशा नृशीर्षाणि रुधिरं चाहुतिः स्मृता । 043c
तूणाश्चैव चरुर्ज्ञेया वसोर्धारा वसाः स्मृताः ॥ 043e
क्रव्यादा भूतसङ्घाश्च तस्मिन्यज्ञे द्विजतयः । 044a
तेषां भक्षान्नपानानि हता नृगजवाजिनः । 044c
भुञ्जते ते यथाकामं यता यज्ञे किमिच्छति ॥ 044e
निहतानां तु योधानां वस्त्राभरणभूषणम् । 045a
हिरण्यं च सुवर्णं च यद्वै यज्ञस्य दक्षिणा ॥ 045c
यस्तत्र हन्यते देवि गजस्कन्धगतो नरः । 046a
ब्रह्मलोकमवाप्नोति रणेष्वभिमुखो हतः ॥ 046c
रथमध्यगतो वाऽपि हयपृष्ठगतोपि वा । 047a
हन्यते यस्तु सङ्ग्रामे शक्रलोके महीयते ॥ 047c
स्वर्गे हताः प्रपूज्यते हन्ता त्वत्रैव पूज्यते । 048a
द्वावेतौ सुखमेधेते हन्ता यश्चैव हन्यते ॥ 048c
तस्मात्सङ्ग्राममासाद्य प्रहर्तव्यमभीतवत् ॥ 049ac
निर्भयो यस्तु सङ्ग्रामे प्रहरेदुद्यतायुधः| 050a
यथा नदीसहस्राणि प्रविष्टानि महोदधिम्|| 050c
तथा सर्वे न सन्देहो धर्मा धर्मभृतांवरम् । 051a
प्रविष्टा राजधर्मेण आचारविनयस्तथा ॥ 051c
वेदोक्ताश्चैव ये धर्माः पाषण्डेषु च कीर्तिताः । 052a
तथैव मानुषा धर्मा धर्माश्चान्ये तथेतरे ॥ 052c
देशजातिकुलानां च ग्रामधर्मास्तथैव च । 053a
ये धर्माः पार्वतीयेषु ये धर्माः पत्तनादिषु । 053c
तेषां पूर्वप्रवृत्तानां कर्तव्यं परिरक्षणम् ॥ 053e
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । 054a
तस्माद्धर्मो न हन्तव्यः पार्थिवेन विशेषतः ॥ 054c
प्रजाः पालयते यत्र धर्मेण वसुधाधिपः । 055a
षट्कर्मनिरता विप्राः पूज्यन्ते पितृदेवताः ॥ 055c
नैव तस्मिन्ननावृष्टिर्न रोगा नाप्युपद्रवाः । 056a
धर्मशीलाः प्रजाः सर्वाः स्वधर्मनिरते नृपे ॥ 056c
एष्टव्यः सततं देवि युक्ताचारो नराधिपः । 057a
छिद्रज्ञश्चैव शत्रूणामप्रमत्तः प्रतापवान् ॥ 057c
शूद्राः पृथिव्यां बहवो राज्ञां बहुविनाशकाः । 058a
तस्मात्प्रमादं सुश्रोणि न कुर्यात्पण्डितो नृपः ॥ 058c
तेषु मित्रेषु त्यक्तेषु तथा मर्त्येषु हस्तिषु । 059a
विस्रम्भो नोपगन्तव्यः स्नानपानेषु नित्यशः ॥ 059c
राज्ञो वल्लभतामेति कुलं भावयते स्वकम् । 060a
यस्तु राष्ट्रहितार्थाय गोब्राह्मणकृते तथा । 060c
बन्दीग्रहाय मित्रार्थे प्राणांस्त्यजति दुस्त्यजान् ॥ 060e
सर्वकामदुघां धेनुं धरणीं लोकधारिणीम् । 061a
समुद्रान्तां वरारोहे सशैलवनकाननाम् ॥ 061c
दद्याद्देवि द्विजातिभ्यो वसुपूर्णां वसुन्धराम् । 062a
न तत्समं वरारोहे प्राणत्यागी विशिष्यते ॥ 062c
सहस्रमपि यज्ञानां यजते च यतर्द्धिमान् । 063a
यज्ञैस्तस्य किमाश्चर्यं प्राणत्यागः सुदुष्करः ॥ 063c
तस्मात्सर्वेषु यज्ञेषु प्राणयज्ञो विशिष्यते । 064a
एवं सङ्ग्रामयज्ञास्ते यथार्थं समुदाहृताः ॥ ॥ 064c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्दशाधिकद्विशततमोऽध्यायः ॥ 214 ॥