अध्यायः 213
ईश्वरेण हिंसाया दुस्त्यजत्वनिरूपणपूर्वकमहिंसाप्रशंसनम् ॥ 1 ॥
उमोवाच । 001
देवदेव महादेव सर्वदेवनमस्कृत । 001a
यानि धर्मरहस्यानि श्रोतुमिच्छामि तान्यहम् ॥ 001c
महेश्वर उवाच । 002
रहस्यं श्रूयतां देवि मानुषाणां सुखावहम् । 002a
नपुंसकेषु वन्ध्यासु वियोनौ पृथिवीतले ॥ 002c
उत्सर्गो रेतसस्तेषु न कार्यो धर्मकाङ्क्षिभिः । 003a
एतेषु बीजं प्रक्षिप्तं न च रोहति वै प्रिये ॥ 003c
यत्र वा तत्र वा बीजं धर्मार्थीं नोत्सृजेत्पुनः । 004a
नरो बीजविनाशेन लिप्यते ब्रह्महत्यया ॥ 004c
अहिंसा परमो धर्म अहिंसा परमं सुखम् । 005a
अहिंसा धर्मशास्त्रेषु सर्वेषु परमं पदम् ॥ 005c
देवतातिथिशुश्रूषा सततं धर्मशीलता । 006a
वेदाध्ययनयज्ञाश्च तपो दानं दमस्तथा ॥ 006c
आचार्यगुरुशुश्रूषा तीर्थाभिगमनं तथा । 007a
अहिंसाया वरारोहे कलां नार्हन्ति षोडशीम् ॥ 007c
एतत्ते परमं गुह्यमाख्यातं परमार्चितम् ॥ 008ac
उमोवाच । 009
यद्यधर्मस्तु हिंसायां किमर्थममरोत्तम । 009a
यज्ञेषु पशुबन्धेषु हन्यन्ते पशवो द्विजैः ॥ 009c
कथं च भगवन्भूयो हिंसमाना नराधिपाः । 010a
स्वर्गं सुदुर्गमं यान्ति तदा स्म रिपुसूदन ॥ 010c
यस्यैव गोसहस्राणि विंशतिः स्वाधिकानि तु । 011a
अहन्यहनि हन्यन्ते द्विजानां मांसकारणात् ॥ 011c
समांसं तु स दत्त्वाऽन्नं रन्तिदेवो नराधिपः । 012a
कथं स्वर्गमनुप्राप्तः परं कौतूहलं हि मे ॥ 012c
किन्तु धर्मं न शृण्वन्ति न श्रद्दधति वा श्रुतम् । 013a
मृयां वै विनिर्गत्य मृगान्हन्ति नराधिपाः ॥ 013c
एतत्सर्वं विशेषेण विस्तरेण वृषध्वज । 014a
श्रोतुमिच्छामि सर्वज्ञ तत्त्वमद्य ममोच्यताम् ॥ 014c
ईश्वर उवाच । 015
बहुमान्यमिदं देवि नास्ति कश्चिदहिंसकः । 015a
श्रूयतां कारणं चात्र यथाऽनेकविधं भवेत् ॥ 015c
दृश्यते चापि लोकेऽस्मिन्न हि कश्चिदहिंसकः । 016a
धरणीसंश्रिता देवि सुसूक्ष्मांश्चैव मध्यमान् ॥ 016c
सञ्चरंश्चरणाभ्यां च हन्ति जीवाननेकशः । 017a
अज्ञानाज्ज्ञानतो वाऽपि यो जीवः शयनासनात् । 017c
उपाविशञ्शयानश्च हन्ति जीवाननेकशः ॥ 017e
शिरोवस्त्रेषु ये जीवा नरणां स्वेदसम्भवाः । 018a
तांश्च हिंसन्ति सततं दंशांश्च मशकानपि ॥ 018c
जले जीवास्तथाऽऽकाशे पृथिवी जीवमालिनी । 019a
एवं जीवाकुले लोके कोसौ स्याद्यस्त्वहिंसकः ॥ 019c
स्थूलमध्यमसूक्ष्मैश्च स्वेदवारिमहीरुहैः । 020a
दृश्यरूपैरदृश्यैश्च नानारूपैश्च भामिनि ॥ 020c
जीवैस्ततमिदं सर्वमाकाशं पृथिवी तथा । 021a
अन्योन्यं ते च हिंसन्ति दुर्बलान्बलवत्तराः ॥ 021c
मत्स्या मत्स्यान्ग्रसन्तीह खगाश्चैव खगांस्तथा । 022a
सरीसृपैश्च जीवन्ति कपोताद्या विहङ्गमाः ॥ 022c
भूचराः खेचराश्चान्ये क्रव्यादा मांसगृद्धिनः । 023a
समृद्धाः परमांसैस्तु भक्षेरंस्तेऽपि चापरैः ॥ 023c
सत्वैः सत्वानि जीवन्ति शतशोथ सहस्रशः । 024a
अपीडयित्वा नैवान्यं जीवा जीवन्ति सुन्दरि ॥ 024c
स्थूलकायस्य सत्वस्य खरस्य महिषस्य च । 025a
जीवस्यैकस्य मांसेन पयसा रुधिरेण वा । 025c
तृप्यन्ते बहवो जीवाः क्रव्यादा मांसजीविनः ॥ 025e
एको जीवसहस्राणि सदा खादति मानवः । 026a
अन्नाद्यस्य च भोगेन दान्यसञ्ज्ञानि यानि तु ॥ 026c
मांसधान्यैः सबीजैश्च भोजनं परिवर्जयेत् ॥ 027ac
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रं तथाऽपि वा । 028a
धान्यानि यो न हिंसेताहिंसकः परिकीर्तितः ॥ 028c
नाश्नाति यावतो जीवस्तावत्पुण्येन युज्यते । 029a
आहारस्य वियोगेन शरीरं परितप्यते ॥ 029c
तप्यमाने शरीरे तु शरीरे चेन्द्रियाणि तु । 030a
वशे तिष्ठन्ति सुश्रोणि नृपाणामिव किङ्कराः ॥ 030c
निरुणद्धीन्द्रियाण्येव स सुखी स विचक्षणः । 031a
इन्द्रियाणां निरोधेन दानेन च दमेन च । 031c
नरः सर्वमवाप्नोति मनसा यद्यदिच्छति ॥ 031e
एवं मूलमर्हिसाया उपवासः प्रकीर्तितः ॥ 032a
आहारं कुरुते यस्तु भूमिमाक्रमते च यः । 033a
सर्वे ते हिंसका देवि यथा धर्मेषु दृश्यते ॥ 033c
यथैवाहिंसको देवि तत्वतो ज्ञायते नरः । 034a
तथा ते सम्प्रवक्ष्यामि श्रूयतां धर्मचारिणि ॥ 034c
फलानि मूलपर्णानि भस्म वा योपि भक्षयेत् । 035a
अलेख्यमिव निश्चेष्टं तं मन्येऽहमहिंसकम् ॥ 035c
आरम्भा हिंसया युक्ता धूमेनाग्निरिवावृताः । 036a
तस्माद्यस्तु निराहारस्तं मन्येऽहमहिंसकम् ॥ 036c
यस्तु सर्वं समुत्सृज्य दीक्षित्वा नियतः शुचिः । 037a
कृत्वा मण्डलमर्यादां सङ्कल्पं कुरुते नरः ॥ 037c
यावज्जीवमनाशित्वा कालकाङ्क्षी दृढव्रतः । 038a
ध्यानेन तपसा युक्तस्तं मन्येऽहमहिंसकम् ॥ 038c
अन्यथा हि न पश्यामि नरो यः स्यादहिंसकः । 039a
बहु चिन्त्यमिदं देवि नास्ति कश्चिदहिंसकः ॥ 039c
यतो यतो महाभागे हिंसा स्यान्महती ततः । 040a
निवृत्तो मधुमांसाभ्यां हिंसा त्वल्पतरा भवेत् ॥ 040c
निवृत्तिः परमो धर्मो निवृत्तिः परमं सुखम् । 041a
मनसा विनिवृत्तानां धर्मस्य निचयो महान् ॥ 041c
मनःपूर्वागमा धर्मा अधर्माश्च न संशयः । 042a
मनसा बध्यते चापि मुच्यते चापि मानवः ॥ 042c
निगृहीते भवेत्स्वर्गो विसृष्टे नरको ध्रुवः । 043a
घातकः शस्त्रमुद्यम्य मनसा चिन्तयेद्यदि ॥ 043c
आयुःक्षयं गतेऽन्येषां मृते तु प्रहराम्यहम् । 044a
इति यो घातको हन्यान्न स पापेन लिप्यते ॥ 044c
विधिना निहताः पूर्वं निमित्तं स तु घातकः । 045a
विधिर्हि बलवान्देवि दुस्त्यजं वै पुराकृतम् ॥ 045c
जीवाः पुराकृतेनैव तिर्यग्योनिसरीसृपाः । 046a
नानायोनिषु जायन्ते स्वकर्मपरिवेष्टिताः ॥ 046c
नानाविधविचित्राङ्गा नानाशौर्यपराक्रमाः । 047a
नानाभूमिप्रदेशेषु नानाहारश्च जन्तवः ॥ 047c
जायमानस्य जीवस्य मृत्युः पूर्वं प्रजायते । 048a
सुखं वा यदि वा दुःखं यथापूर्वं कृतं तु वा ॥ 048c
प्राप्नुवन्ति नरा मृत्युं यदा यत्र च येन च । 049a
नातिक्रान्तुं हि शक्यः स्यान्निदेशः पूर्वकर्मणः ॥ 049c
अप्रमत्तः प्रमत्तेषु विधिर्जागर्ति जन्तुषु । 050a
न हि तस्य प्रियः कश्चिन्न द्वेष्यो न च मध्यमः ॥ 050c
समः सर्वेषु भूतेषु कालः कालं निरीक्षते । 051a
गतायुषो ह्याक्षिपते जीवः सर्वस्य देहिनः ॥ 051c
यथा येन च मर्तव्यं नान्यथा म्रियते हि सः । 052a
दृश्यते न च लोकेऽस्मिन्भूतो भव्यो द्विधा पुनः ॥ 052c
विज्ञानैर्विक्रमैर्वाऽपि नानामन्त्रौषधैरपि । 053a
यो हि वञ्चयितुं शक्तो विधेस्तु नियतां गतिम् ॥ 053c
एष तेऽभिहितो देवि जीवहिंसाविधिक्रमः ॥ ॥ 054ac
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयोदशाधिकद्विशततमोऽध्यायः ॥ 213 ॥