अध्यायः 212

महेश्वरेण पार्वतीं प्रति विस्तरेण राजधर्मकथनम् ॥ 1 ॥

उमोवाच । 001
देवदेव नमस्तुभ्यं त्र्यक्ष भो वृषभध्वज । 001a
श्रुतं मे भगवन्सर्वं त्वत्प्रसादान्महेश्वर ॥ 001c
सङ्गृहीतं मया तच्च तव वाक्यमनुत्तमम् । 002a
इदानीमस्ति सन्देहो मानुषेष्विह कश्चन ॥ 002c
तुल्यप्राणशिरःकायो राजाऽयमिति मृश्यते । 003a
केन कर्मविपाकेन सर्वप्राधान्यमर्हति ॥ 003c
स चापि दण्डयन्मर्त्यान्भर्त्सयन्विधमन्नपि । 004a
प्रेत्यभावे कथं लोकाल्ँलभते पुण्यकर्मणा । 004c
राजवृत्तमहं तस्माच्छ्रोतुमिच्छामि मानद ॥ 004e
महेश्वर उवाच । 005
तदहं ते प्रवक्ष्यामि राजधर्मं शुभानने ॥ 005ac
राजायत्तं हि यत्सर्वं लोकवृत्तं शुभाशुभम् । 006a
महतस्तपसो देवि फलं राज्यमिति स्मृतम् ॥ 006c
तपोदानमयं राज्यं परं स्थानं विधीयते । 007a
तस्माद्राज्ञः सदा मर्त्याः प्रणमन्ति यतस्ततः ॥ 007c
न्यायतस्त्वं महाभागे श्रोतुकामाऽसि भामिनि । 008a
तस्मात्तस्यैव चरितं जगत्पथ्यं शृणु प्रिये ॥ 008c
अराजके पुरा त्वासीत्प्रजानां सङ्कुलं महत् । 009a
तदृष्ट्वा सङ्कुलं ब्रह्मा मनुं राज्ये न्यवेदयत् । 009c
तदाप्रभृति सन्दृष्टं राज्ञां वृत्तं शुभाशुभम् ॥ 009e
तन्मे शृणु वरारोहे तस्य पथ्यं जगद्धितम् । 010a
यथा प्रेत्य लभेत्स्वर्गं यथा वीर्यं यशस्तथा ॥ 010c
पित्र्यं वा भूतपूर्वं वा स्वयमुत्पाद्य वा पुनः । 011a
राज्यधर्ममनुष्ठाय विधिवद्भोक्तुमर्हति ॥ 011c
आत्मानमेव प्रथमं विनयैरुपपादयेत् । 012a
अनु भृत्यान्प्रजाः पश्चादित्येष विनयक्रमः ॥ 012c
स्वामिनं चोषमां कृत्वा प्रजास्तद्वृत्तकाङ्क्षया । 013a
स्वयं विनयसम्पन्ना भवन्तीह शुभेक्षणे ॥ 013c
स्वस्मात्पूर्वतरा राजा विनयत्येव वै प्रजाः । 014a
अपहास्यो भवेत्तादृक्स्वदोषस्यानवेक्षणात् ॥ 014c
विद्याभ्यासैर्वृद्धयोगैरात्मानं विनयं नयेत् । 015a
विद्या धर्मार्थफलिनी तद्विदो वृद्धसञ्ज्ञिताः ॥ 015c
इन्द्रियाणां जयो देवि अत ऊर्ध्वमुदाहृतः । 016a
अजये सुमहान्दोषो राजानं विनिपातयेत् ॥ 016c
पञ्चैव स्ववशे कृत्वा तदर्थान्पञ्च शोषयेत् । 017a
षडुत्सृज्य यथायोगं ज्ञानेन विनयेन च । 017c
शास्त्रचक्षुर्नयपरो भूत्वा भृत्यान्समाहरेत् ॥ 017e
वृत्तश्रुतकुलोपेतानुपधाभिः परीक्षितान् । 018a
अमात्यानुपधातीतान्सोपसर्पाञ्जितेन्द्रियान् । 018c
योजयेत यथायोगं यथार्हं स्वेषु कर्मसु ॥ 018e
अमात्या बुद्धिसम्पन्ना राष्ट्रं बहुजनप्रियम् । 019a
दुराधर्षं पुरश्रेष्ठं कोशः कृच्छ्रसहः स्मृतः ॥ 019c
अनुरक्तं बलं साम्नामद्वैधं मन्त्रमेव च । 020a
एताः प्रकृतयः स्वेषु स्वामी विनयतत्ववित् । 020c
प्रजानां रक्षणार्थाय सर्वमेतद्विनिर्मितम् । 021a
आभिः करणभूताभिः कुर्याल्लोकहितं नृपः ॥ 021c
आत्मरक्षा नरेन्द्रस्य प्रजारक्षार्थमिष्यते । 022a
तस्मात्सततमात्मानं संरक्षेदप्रमादवान् ॥ 022c
भोजनाच्छादनस्नानाद्बहिर्निष्क्रमणादपि । 023a
नित्यं स्त्रीगणसंयोगाद्रक्षेदात्मानमात्मवान् ॥ 023c
स्वेभ्यश्चैव परेभ्यश्च शस्त्रादपि विषादपि । 024a
सततं पुत्रदारेभ्यो रक्षेदात्मानमात्मवान् ॥ 024c
सर्वेभ्य एव स्थानेभ्यो रक्षेदात्मानमात्मवान् । 025a
प्रजानां रक्षणार्थाय प्रजाहितकरो भवेत् ॥ 025c
प्रजाकार्यं तु तत्कार्यं प्रजासौख्यं तु तत्सुखम् । 026a
प्रजाप्रियं प्रियं तस्य स्वहितं तु प्रजाहितम् । 026c
प्रजार्थं तस्य सर्वस्वमात्मार्थं न विधीयते । 026e
प्रकृतीनां हि रक्षार्थं रागद्वेषौ व्युदस्य च । 027a
उभयोः पक्षयोर्वादं श्रुत्वा चैव यथातथम् । 027c
तमर्थं विमृशेद्बुद्ध्या स्वयमातत्वदर्शनात् ॥ 027e
तत्वविद्भिश्च बहुभिर्वृद्धैः सह नरोत्तमैः । 028a
कर्तारमपराधं च देशकालौ नयानयौ ॥ 028c
ज्ञात्वा सम्यग्यथाशास्त्रं ततो दण्डं नयेन्नृषु । 029a
एवं कुर्वंल्लभेद्धर्मं पक्षपातविवर्जनात् ॥ 029c
प्रत्यक्षाप्तोपदेशाभ्यामनुमानेन वा पुनः । 030a
बोद्धव्यं सततं राज्ञा देशवृत्तं शुभाशुभम् ॥ 030c
चारैः कर्मप्रवृत्त्या च तद्विज्ञाय विचारयेत् । 031a
अशुभं निर्हरेत्सद्यो जोषयेच्छुभमात्मनः ॥ 031c
गर्ह्यान्विगर्हयेदेव पूज्यान्सम्पूजयेत्तथा । 032a
दण्ड्यांश्च दण्डयेद्देवि नात्र कार्या विचारणा ॥ 032c
पञ्चावेक्षन्सदा मन्त्रं कुर्याद्बुद्धियुतैर्नरैः । 033a
कुलवृत्तश्रुतोपेतैर्नित्यं मन्त्रपरो भवेत् ॥ 033c
कामकारेण वै मुख्यैर्न च मन्त्रमना भवेत् । 034a
राजा राष्ट्रहितापेक्षं सत्यधर्माणि कारयेत् ॥ 034c
सर्वोद्योगं स्वयं कुर्याद्दुर्गादिषु सदा नृषु । 035a
देशवृद्धिकरान्भृत्यानप्रमादेन कारयेत् ॥ 035c
देशक्षयकरान्सर्वानप्रियांश्च विवर्जयेत् । 036a
अहन्यहनि सम्पश्येदनुजीविगणं स्वयम् ॥ 036c
सुमुखः सुप्रियो दत्त्वा सम्यग्वृत्तं समाचरेत् । 037a
अधर्म्यं परुषं तीक्ष्णं वाक्यं वक्तुं न चार्हति ॥ 037c
असंविश्वास्य वचनं वक्तुं सत्सु न चार्हति । 038a
नरेनरे गुणान्दोषान्सम्यग्वेदितुमर्हति ॥ 038c
स्वेङ्गितं वृणुयाद्धैर्यं न कुर्यात्क्षुद्रसंविदम् । 039a
परेङ्गितज्ञो लोकेषु भूत्वा संसर्गमाचरेत् ॥ 039c
स्वतश्च परतश्चैव परस्परभयादपि । 040a
अमानुषभयेभ्यश्च स्वाः प्रजाः पालयेन्नृपः ॥ 040c
लुब्धाः कठोराश्चाप्यस्य मानवा दस्युवृत्तयः । 041a
निग्राह्या एव ते राज्ञा सङ्गृहीत्वा यतस्ततः ॥ 041c
कुमारान्विनयोद्बोधैर्जन्मप्रभृति योजयेत् । 042a
तेषामात्मगुणोपेतं यौवराज्येन योजयेत् ॥ 042c
प्रकृतीनां यथा न स्याद्राज्यभ्रंशो भवेद्भयम् । 043a
एतत्सञ्चिन्तयेन्नित्यं तद्विधानं तथार्हति ॥ 043c
अराजकं क्षणमपि राज्यं न स्याद्धि शोभने । 044a
आत्मनोऽनुविधानाय यौवराज्यं सदेष्यते ॥ 044c
कुलजानां च वैद्यानां श्रोत्रियाणां तपस्विनाम् । 045a
अन्येषां वृत्तियुक्तानां विशेषं कर्तुमर्हति ॥ 045c
आत्मार्थं राज्यतन्त्रार्थं कोशार्थं च समाचरेत् । 046a
दुर्गाद्राष्ट्रात्समुद्राच्च वणिग्भ्यः पुरुषात्ययात् ॥ 046c
परात्मगुणसाराभ्यां भृत्यपोषणमाचरेत् । 047a
वाहनानां प्रकुर्वीत पोषणं योधकर्मसु ॥ 047c
सादरः सततं भूत्वा अवेक्षाव्रतमाचरेत् । 048a
चतुर्दा विभजेत्कोशं धर्मभृत्यात्मकारणात् ॥ 048c
आपदर्थं च नीतिज्ञो देशकालवशेन तु । 049a
अनाथान्व्यथितान्वृद्धान्स्वे देशे पोषयेन्नृपः ॥ 049c
सन्धिं च विग्रहं चैव तद्विशेषांस्तथा परान् । 050a
यथावत्संविमृश्यैव बुद्धिपूर्वं समाचरेत् ॥ 050c
सर्वेषां सम्प्रियो भूत्वा मण्डलं सततं चरेत् । 051a
शुभेष्वपि च कार्येषु च चैकान्तः समाचरेत् ॥ 051c
स्वतश्च परतश्चैव व्यसनानि विमृश्य सः । 052a
परेणि धार्मिकान्योगान्नातीयाद्द्वेषलोभतः ॥ 052c
रक्ष्यत्वं वै प्रजाधर्मः क्षत्रधर्मस्तु रक्षणम् । 053a
कुनृपैः पीडितास्तस्मात्प्रजाः सर्वत्र पालयेत् ॥ 053c
यात्राकालेऽनवेक्ष्यैव पश्चात्कोपफलोदयः । 054a
तद्युक्ताश्चापदश्चैव शासनादिति चिन्तयेत् ॥ 054c
व्यसनेभ्यो बलं रक्षेन्नयतो व्ययतोपि वा । 055a
प्रायशो वर्जयेद्युद्धं प्राणरक्षणकारणात् ॥ 055c
कारणादेव योद्धव्यं नात्मनः परदोषतः । 056a
सुयुद्धे प्राणमोक्षश्च तस्य धर्माय इष्यते ॥ 056c
अभियुक्तो बलवता कुर्यादापद्विधिं नृपः । 057a
अनुनीय तथा सर्वान्प्रजानां हितकारणात् ॥ 057c
अन्यप्रकृतियुक्तानां राज्ञां वृत्तिविचारिणाम् । 058a
अन्यांश्चापत्प्रपन्नानां न तान्संयोक्तुमर्हति ॥ 058c
शुभाशुभं यदा देवि व्रतं तूभयसाधनम् । 059a
आत्मैव तच्छुभं कुर्यादशुभं योजयेत्परान् । 059c
एवमुद्देशतः प्रोक्तमलेपत्वं यथा भवेत् । 060a
एष देवि समासेन राजधर्मः प्रकीर्तितः ॥ 060c
एवं संवर्तमानस्तु दण्डयन्भर्त्सयन्प्रजाः । 061a
निष्कल्मषमवाप्नोति पद्मपत्रमिवाम्भसा ॥ 061c
एवं संवर्तमानस्य कालधर्मो यदा भवेत् । 062a
स्वर्गलोके तदा राजा त्रिदशैः सह तोष्यते ॥ 062c
द्विविधं राज्यवृत्तं च न्यायभाग्यसमन्वितम् । 063a
एवं न्यायानुगं वृत्तं कथितं ते शुभेक्षणे ॥ 063c
राज्यं न्यायानुगं तात बुद्धिशास्त्रानुगं भवेत् । 064a
धर्म्यं पथ्यं यशस्यं च स्वर्ग्यं चैव तथा भवेत् ॥ 064c
राज्यं भाग्यानुगं नाम अयथावत्प्रदृश्यते । 065a
तत्तु शास्त्रविनिर्मुक्तं सतां कोपकरं भवेत् । 065c
अधर्म्यमयशस्यं च दुरन्तं च भवेद्ध्रुवम् ॥ 065e
यत्र स्वच्छन्दतः सर्वं क्रियते कर्म राजभिः । 066a
तत्र भाग्यवशाद्भृत्या लभन्ते न विशेषतः ॥ 066c
यत्र दण्ड्या न दण्ड्यन्ते पूज्यन्ते वा नराधमाः । 067a
यत्र सन्तोपि हन्यन्ते तत्र भाग्यानुगं भवेत् ॥ 067c
शुभाशुभं यथा यत्र विपरीतं प्रदृश्यते । 068a
राज्ञि चासुरपक्षे तु तत्र भाग्यानुगं भवेत् ॥ 068c
भाग्यानुगे तु राजानो वर्तमाना यथातथा । 069a
प्राप्याकीर्तिमनर्थं च इह लोके शुभेक्षणे ॥ 069c
परत्र सुमहाघोरं तमः प्राप्य दुरत्ययम् । 070a
तिष्ठन्ति नरके देवि प्रलयान्तादिति स्थितिः ॥ 070c
मोक्षं दुष्कृतिनां चापि विद्यते कालपर्ययात् । 071a
नास्त्येव मोक्षणं देवि राज्ञां दुष्कृतिकारिणाम् ॥ 071c
एतत्सर्वं समासेन राजवृत्तं शुभाशुभम् । 072a
कथितं ते महाभागे भूयः श्रोतुं किमिच्छसि ॥ ॥ 072c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वादशाधिकद्विशततमोऽध्यायः ॥ 212 ॥