अध्यायः 211
महेश्वरेण पार्वतीं प्रति निवृत्तिधर्मफलकथनम् ॥ 1 ॥ तथा गार्हस्थ्यप्रशंसनपूर्वकं तद्धर्मफलादिकथनम् ॥ 2 ॥
उमोवाच । 001
उक्तस्त्वया त्रिवर्गस्य धर्मश्च परमः शुभः । 001a
सर्वव्यापी तु यो धर्मो भगवंस्तं ब्रवीतु मे । 001c
महेश्वर उवाच । 002
ब्रह्मणा लोकसंसारे सृष्टा धात्रा गुणार्थिना । 002a
लोकांस्तारयितुं युक्ता मर्त्येषु क्षितिदेवताः ॥ 002c
तेषु तावत्प्रवक्ष्यामि धर्मं शुभफलोदयम् । 003a
ब्राह्मणेष्वभयो धर्मः परमः शुभलक्षणः ॥ 003c
इमे च धर्मा लोकानां पूर्वं सृष्टाः स्वयम्भुवा । 004a
पृथिव्यां सद्द्विजैर्नित्यं कीर्त्यमानं निबोध मे ॥ 004c
स्वदारनिरतिर्धर्मो नित्यं जप्यं तथैव च । 005a
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् ॥ 005c
शूद्रो धर्मपरो नित्यं शुश्रूषानिरतो भवेत् ॥ 006ac
त्रैविद्यो ब्राह्मणो वृद्धो न चाध्ययनजीवकः । 007a
त्रिवर्गस्य व्यतिक्रान्तं तस्य धर्मः सनातनः ॥ 007c
षट् कर्माणि च प्रोक्तानि सृष्टानि ब्रह्मणा पुरा । 008a
धर्मिष्ठानि वरिष्ठानि तानि तानि शृणूत्तमे ॥ 008c
यजनं याजनं चैव दानं पात्रे प्रतिग्रहः । 009a
अध्यापनमध्ययनं षट्कर्मा धर्मभागृजुः ॥ 009c
नित्यः स्वाध्यायतो धर्मः नित्ययज्ञः सनातनः । 010a
दानं प्रशंसते नित्यं ब्राह्मणेषु त्रिकर्मसु ॥ 010c
अयमेव परो धर्मः संवृतः सत्सु विद्यते । 011a
गर्भस्थाने विशुद्धानां धर्मस्य नियमो महान् ॥ 011c
पञ्चयज्ञविशुद्धात्मा ऋतुनित्योऽनसूयकः । 012a
दान्तो ब्राह्मणसत्कर्ता सुसम्मृष्टनिवेशनः ॥ 012c
चक्षुःश्रोत्रमनोजिह्वास्निग्धवर्णप्रदः सदा । 013a
अतिथ्यभ्यागतरतः शेषान्नकृतभोजनः ॥ 013c
पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा । 014a
दीपं प्रतिश्रयं चैव यो ददाति स धार्मिकः ॥ 014c
प्रातरुत्थाय वै पश्चाद्भोजने तु निमन्त्रयेत् । 015a
सत्कृत्याऽनुव्रजेद्यश्च तस्य धर्मः सनातनः ॥ 015c
प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते । 016a
तदहं कीर्तयिष्यामि त्रिवर्गेषु च यद्यथा ॥ 016c
एकेनांशेन धर्मार्थः कर्तव्यो हितमिच्छता । 017a
एकेनांशेन कामार्थमेकमंशं विवर्धयेत् ॥ 017c
निवृत्तिलक्षणः पुण्यो धर्मो मोक्षो विधीयते । 018a
तस्य वृत्तिं प्रवक्ष्यामि तां शृणुष्व समाहिता ॥ 018c
सर्वभूतदया धर्मो निवृत्तेः परम सदा । 019a
बुभुक्षितं पिपासार्तमतिथिं श्रान्तमागतम् । 019c
अर्चयन्ति वरारोहे तेषामपि फलं महत् ॥ 019e
पात्रमित्येव दातव्यं सर्वस्मै धर्मकाङ्क्षिभिः । 020a
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति ॥ 020c
काले सम्प्राप्तमतिथिं भोक्तुकाममुपस्थितम् । 021a
यस्तं सम्भावयेत्तत्र व्यासोऽयं समुपस्थितः ॥ 021c
तस्य पूजां यथाशक्त्या सौम्यचित्तः प्रयोजयेत् । 022a
चित्तमूलो भवेद्धर्मो धर्ममूलं भवेद्यशः ॥ 022c
तस्मात्सौम्येन चित्तेन दातव्यं देवि सर्वथा । 023a
सौम्यचित्तस्तु यो दद्यात्तद्धि दानमनुत्तमम् ॥ 023c
यथाम्बुबिन्दुभिः सूक्ष्मैः पतद्भिर्मेदिनीतले । 024a
केदाराश्च तटाकानि सरांसि सरितस्तथा ॥ 024c
तोयपूर्णानि दृश्यन्ते अप्रतर्क्योऽतिशोभने । 025a
अल्पमल्पमपि ह्येकं दीयमानं विवर्धते ॥ 025c
पीडयाऽपि च भृत्यानां दानमेव विशिष्यते । 026a
पुत्रदारधनं धान्यं न मृताननुगच्छति ॥ 026c
श्रेयो दानं च भोगश्च धनं प्राप्य यशस्विनि । 027a
दानेन हि महाभागा भवन्ति मनुजाधिपाः ॥ 027c
नास्ति भूमौ दानसमं नास्ति दानसमो निधिः । 028a
नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् ॥ 028c
आश्रमे यस्तु तप्येत तपो मूलफलाशनः । 029a
आदित्याभिमुखो भूत्वा जटावल्कलसंवृतः । 029c
मण्डूकशायी हेमन्ते ग्रीष्मे पञ्चतपा भवेत् ॥ 029e
सम्यक्तपश्चरन्तीह श्रद्दधाना वनाश्रमे । 030a
गृहाश्रमस्य ते देवि कलां नार्हन्ति षोडशीम् ॥ 030c
उमोवाच । 031
गृहाश्रमस्य या चर्या व्रतानि नियमाश्च ये । 031a
तथा च देवताः पूज्याः सततं गृहमेधिना ॥ 031c
यद्यच्च परिहर्तव्यं गृहीणातिथिपर्वसु । 032a
तत्सर्वं श्रोतुमिच्छामि कथ्यमानं त्वया विभो ॥ 032c
महेश्वर उवाच । 033
गृहाश्रमस्य यन्मूलं फलं धर्मोऽयमुत्तमम् । 033a
पादैश्चतुर्भिः सततं धर्मो यत्र प्रतिष्ठितः ॥ 033c
सारभूतं वरारोहे दध्नो घृतमिवोद्धृतम् । 034a
तदहं ते प्रवक्ष्यामि श्रूयतां धर्मचारिणि ॥ 034c
'दम्पत्यलङ्करिष्णुश्च गृहदानरतिर्नरः । 035a
कलत्रसौख्यं विन्देत नास्ति तत्र विचारणा ॥ 035c
मनोभिलषितान्कामान्प्राप्नुवन्ति न संशयः ॥' 036a स्त्रियो वा पुरुषो वाऽपि दम्पतीन्पूजयन्ति ते ।036c
शुश्रूषन्ते ये पितरं मातरं च गृहाश्रमे । 037a
भर्तारं चैव या नारी अग्निहोत्रं च ये द्विजाः ॥ 037c
तेषु तेषु च प्रीणन्ति देवा इन्द्रपुरोगमाः । 038a
पितरः पितृलोकस्थाः स्वधर्मेण स रज्यते ॥ 038c
उमोवाच । 039
मातापितृवियुक्तानां का चर्या गृहमेधिनाम् । 039a
विधवानां च नारीणां भवानेव ब्रवीतु मे ॥ 039c
महेश्वर उवाच । 040
देवतातिथिशुश्रूषा गुरुवृद्धाभिवादनम् । 040a
अहिंसा सर्वभूतानामलोभः सत्यसन्धता ॥ 040c
ब्रह्मचर्यं शरण्यत्वाशौचं पूर्वाभिभाषणम् । 041a
कृतज्ञत्वमपैशुन्यं सततं धर्मशीलता ॥ 041c
दिने द्विरभिषेकं च पितृदैवतपूजनम् । 042a
गवाह्निकप्रदानं च संविभागोऽतिथिष्वपि ॥ 042c
दीपप्रतिश्रयं चैव दद्यात्पाद्यासनं तथा । 043a
पञ्चमेऽहनि षष्ठे वा द्वादशेऽप्यष्टमेऽथवा । 043c
चतदुर्दशे पञ्चदशे ब्रह्मचारी सदा भवेत् ॥ 043e
श्मश्रुकर्म शिरोभ्यङ्गमञ्जनं दन्तधावनम् । 044a
नैतेष्वहस्सु कुर्वीत तेषु लक्ष्मीः प्रतिष्ठिता ॥ 044c
व्रतोपवासनियमस्तपो दानं च शक्तितः । 045a
भरणं भृत्यवर्गस्य दीनानामनुकम्पनम् ॥ 045c
परदारान्निवृत्तिश्च स्वदारेषु रतिः सदा । 046a
शरीरमेकं दम्पत्योर्विधात्रा पूर्वनिर्मितम् । 046c
तस्मात्स्वदारनिरतो ब्रह्मचारी विधीयते ॥ 046e
शीलवृत्तविनीतस्य निगृहीतेन्द्रियस्य च । 047a
आर्जवे वर्तमानस्य सर्वभूतहितैषिणः ॥ 047c
प्रियातिथेश्च क्षान्तस्य धर्मार्जितधनस्य च । 048a
गृहाश्रमपदस्थस्य किमन्यैः कृत्यमाश्रमैः ॥ 048c
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः । 049a
तथा गृहाश्रमं प्राप्य सर्वे जीवन्ति चाश्रमाः ॥ 049c
राजानः सर्वपाषण्डाः सर्वे रङ्गोपजीविनः । 050a
व्यालग्रहाश्च डम्याश्च चोरा राजभटास्तथा ॥ 050c
सविद्याः सर्वजीवज्ञाः सर्वे वै विचिकित्सकाः । 051a
दूराध्वानं प्रपन्नाश्च क्षीणपथ्योदना नराः । 051c
एते चान्ये च बहवस्तर्कयन्ति गृहाश्रमम् ॥ 051e
मार्जारा मूषिकाः श्वानः सूकराश्च शुकास्तथा । 052a
कपोतका कावटकाः सरीसृपनिषेवणाः । 052c
अरण्यवासिनश्चान्ये सङ्घा ये मृगपक्षिणाम् ॥ 052e
एवं बहुविधा देवि लोकेऽस्मिन्सचराचराः । 053a
गृहे क्षेत्रे बिले चैव शतशोऽथ सहस्रशः ॥ 053c
गृहस्थेन कृतं कर्म सर्वैस्तैरिह भुज्यते । 054a
उपयुक्तं च यत्तेषां मतिमान्नानुशोचति ॥ 054c
धर्म इत्येव सङ्कल्प्य यस्तु तस्य फलं शृणु । 055a
सर्वयज्ञप्रणीतस्य हयमेधेन यत्फलम् । 055c
वर्षे स द्वादशे देवि फलेनैतेन युज्यते ॥ 055e
आशापाशविमोक्षं च विधिधर्ममनुत्तमम् । 056a
वृक्षमूलचरो नित्यं शून्यागारनिवेशनमम् ॥ 056c
नदीपुलिनशायी च नदीतीरमनुव्रजन् । 057a
विमुक्तः सर्वसङ्गेभ्यः स्नेहबन्धेन वै द्विजः । 057c
आत्मन्येवात्मना भावं समायोज्येह तेन वै । 058a
आत्मभूतो यताहारो मोक्षदृष्टेन कर्मणा ॥ 058c
पवित्रनित्यो युक्तश्च तस्य धर्मः सनातनः । 059a
नैकत्र रमते सक्तो न चैकग्रामगोचरः । 059c
युक्तोऽप्यटति यो युक्तो न चैकपुलिनाश्रयः ॥ 059e
एष मोक्षविदां धर्मो वेदोक्तः सत्पथे स्थितः ॥ ॥ 060ac
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकादशाधिकद्विशततमोऽध्यायः ॥ 211 ॥