अध्यायः 210

ईश्वरेण पार्वतीं प्रति ऋषीणां कर्मफलविशेषादिकथनम् ॥ 1 ॥

उमोवाच । 001
भगवन्देवदेवेश तेषां कर्मफलं प्रभो । 001a
श्रोतुमिच्छाम्यहं देव प्रसादात्ते वरप्रद ॥ 001c
महेश्वर उवाच । 002
वानप्रस्थगतं सर्वं फलपाकं शृणु प्रिये ॥ 002ac
अग्नियोगं व्रजन्ग्रीष्मे ततो द्वादशवार्षिकम् । 003a
रुद्रलोकेऽभिजायेत विधिदृष्टेन कर्मणा ॥ 003c
उपवासव्रतं कुर्वन्वर्षाकाले दृढव्रतः । 004a
सोमलोकेऽभिजायेत नरो द्वादशवार्षिकम् ॥ 004c
काष्ठवन्मौनमास्थाय नरो द्वादशवार्षिकम् । 005a
मरुतां लोकमास्थाय तत्र भोगैश्च युज्यते ॥ 005c
कुशशर्करसंयुक्ते स्थण्डिले संविशन्मुनिः । 006a
यक्षलोकेऽभिजायेत सहस्राणि चतुर्दश ॥ 006c
वर्षाणां भोगसंयुक्तो नरो द्वादशवार्षिकम् । 007a
वीरासनगतो यस्तु कण्टकाफलकाश्रितः । 007c
गन्धर्वेष्वभिजायेत नरो द्वादशवार्षिकम् ॥ 007e
वीरस्थायी चोर्ध्वबाहुर्नरो द्वादशवार्षिकम् । 008a
देवलोकेऽभिजायेत दिव्यभोगसमन्वितः ॥ 008c
पादाङ्गुष्ठेन यस्तिष्ठेदूर्ध्वबाहुर्जितेन्द्रियः । 009a
इन्द्रलोकेऽभिजायेत सहस्राणि चतुर्दश । 009c
आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम् । 010a
नागलोकेऽभिजायेत संवत्सरगणान्बहून् ॥ 010c
एवं दृढव्रता देवि वानप्रस्थाश्च कर्मभिः । 011a
स्थानेषु तत्र तिष्ठन्ति तत्तद्भोगसमन्विताः ॥ 011c
तेभ्यो भ्रष्टाः पुनर्देवि जायन्ते नृषु भोगिनः । 012a
वर्णोत्तमकुलेष्वेव धनधान्यसमन्विताः ॥ 012c
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥ 013ac
उमोवाच । 014
एषां यथा वराणां तु धर्ममिच्छामि मानद । 014a
कृपया परयाऽऽविष्टस्तन्मे ब्रूहि महेश्वर ॥ 014c
महेश्वर उवाच । 015
धर्मं यथा वराणां त्वं शृणु भामिनि तत्परा ॥ 015ac
व्रतोपवासशुद्धाङ्गास्तीर्थस्नानपरायणाः । 016a
धृतिमन्तः क्षमायुक्ताः सत्यव्रतपरायणाः ॥ 016c
पक्षमासोपवासैश्च कर्शिता धर्मदर्शिनः । 017a
वर्षैः शीतातपैश्चैव कुर्वन्तः परमं तपः ॥ 017c
कालयोगेन गच्छन्ति शक्रलोकं शुचिस्मिते । 018a
तत्र ते भोगसंयुक्ता दिव्यगन्धसमन्विताः ॥ 018c
दिव्यभूषणसंयुक्ता विमानवरसंयुताः । 019a
विचरन्ति यथाकामं दिव्यस्त्रीगणसंयुताः । 019c
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥ 019e
उमोवाच । 020
तेषां चक्रचराणां च धर्ममिच्छामि वै प्रभो ॥ 020ac
महेश्वर उवाच । 021
हन्त ते कथयिष्यामि शृणु शाकटिकं शुभे ॥ 021ac
संवहन्तो धुरं दानैः शकटानां तु सर्वदा । 022a
प्रार्थयन्ते यथाकालं शकटैर्भैक्षचर्यया ॥ 022c
तपोर्जनपरा धीरास्तपसा क्षीणकल्मषाः । 023a
पर्यटन्तो दिशः सर्वाः कामक्रोधविवर्जिताः ॥ 023c
तेनैव कालयोगेन त्रिदिवं यान्ति शोभने । 024a
तत्र प्रमुदिता भोगैर्विचरन्ति यथासुखम् ॥ 024c
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥ 025ac
उमोवाच । 026
वैखानसानां वै धर्मं श्रोतुमिच्छाम्यहं प्रभो ॥ 026ac
महेश्वर उवाच । 027
ते वै वैखानसा नाम वानप्रस्थाः शुभेक्षणे । 027a
तीव्रेण तपसा युक्ता दीप्तिमन्तः स्वतेजसा । 027c
सत्यव्रतपरा धीरास्तेषां निष्कल्मषं तपः ॥ 027e
अश्मकुट्टास्तथाऽन्ये च दन्तोलूखलिनस्तथा । 028a
शीर्णपर्णाशिनश्चान्ये उञ्छवृत्तास्तथा परे ॥ 028c
कपोतवृत्तयश्चान्ये कापोतीं वृत्तिमाश्रिताः । 029a
पशुप्रचारनिरताः फेनपाश्च तथा परे ॥ 029c
मृगवन्मृगचर्यायां सञ्चरन्ति तथा परे । 030a
अब्भक्षा वायुभक्षाश्च निराहारास्तथैव च ॥ 030c
केचिच्चरन्ति सद्विष्णोः पादपूजनमुत्तमम् । 031a
सञ्चरन्ति तपो घोरं व्याधिमृत्युविवर्जिताः । 031c
स्ववशादेव ते मृत्युं भीषयन्ति च नित्यशः ॥ 031e
इन्द्रलोके तथा तेषां निर्मिता भोगसञ्चयाः । 032a
अमरैः समतां यान्ति देववद्भोगसंयुताः ॥ 032c
वराप्सरोभिः संयुक्ताश्चिरकालमनिन्दिते । 033a
एतत्ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ 033c
उमोवाच । 034
भगवञ्श्रोतुमिच्छामि वालखिल्यांस्तपोधनान् ॥ 034ac
महेश्वर उवाच । 035
धर्मचर्यां तथा देवि वालखिल्यगतां शृणु ॥ 035ac
मृगनिर्मोकवसना निर्द्वन्द्वास्ते तपोधनाः । 036a
अङ्गुष्ठमात्राः सुश्रोणि तेष्वेवाङ्गेषु संश्रिताः ॥ 036c
उद्यन्तं सततं सूर्यं स्तुवन्तो विविधैः स्तवैः । 037a
भास्करस्येव किरणैः सहसा यान्ति नित्यदा । 037c
द्योतयन्तो दिशः सर्वा धर्मज्ञाः सत्यवादिनः ॥ 037e
तेष्वेव निर्मलं सत्यं लोकार्थं तु प्रतिष्ठितम् । 038a
लोकोऽयं धार्यते देवि तेषामेव तपोबलात् ॥ 038c
महात्मनां तु तपसा सत्येन च शुचिस्मिते । 039a
क्षमया च महाभागे भूतानां संस्थितिं विदुः ॥ 039c
प्रजार्थमपि लोकार्थं महद्भिः क्रियते तपः । 040a
तपसा प्राप्यते सर्वं तपसा प्राप्यते फलम् । 040c
दुष्प्रापमपि यल्लोके तपसा प्राप्यते हि तत् ॥ 040e
पञ्चभूतार्थतत्वे च लोकसृष्टिविवर्धनम् । 041a
एतत्सर्वं समासेन तपोयोगाद्विनिर्मितम् ॥ 041c
तस्मादयं त्वृषिगणस्तपस्तप इति प्रिये । 042a
धर्मान्वेषी तपः कर्तुं यतते सततं प्रिये ॥ 042c
अमरत्वं शिवत्वं च तपसा प्रापयेत्सदा । 043a
एतत्ते कथितं सर्वं शृण्वन्त्यास्ते श्रुतं प्रिये । 043c
प्रियार्थमृषिसङ्घस्य प्रजानां हितकाम्यया ॥ 043e
नारद उवाच । 044
एवं ब्रुवन्तं देवेशमृषयश्चापि तुष्टुवुः । 044a
भूयः परतरं यत्तु तदाप्रभृति चक्रिरे ॥ ॥ 044c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि दशाधिकद्विशततमोऽध्यायः ॥ 210 ॥