अध्यायः 209
ईश्वरेण पार्वतीं प्रति ऋषिधर्मकथनम् ॥ 1 ॥
उमोवाच । 001
भगवन्देवदेवेश त्रिपुरान्तक शङ्कर । 001a
अयं त्वृषिगणो देव तपस्तप इति प्रभो ॥ 001c
तपसा कर्शितो नित्यं तपोऽर्जनपरायणः । 002a
अस्य किंलक्षणो धर्मः कीदृशश्चागमस्तथा । 002c
एतदिच्छाम्यहं श्रोतुं तन्मे वद वरप्रद ॥ 002e
नारद उवाच । 003
एवं ब्रुवन्त्यां रुद्राण्यामृषयः साधु साध्विति । 003a
अब्रुवन्हृष्टमनसः सर्वे तद्गतमानसाः ॥ 003c
शृण्वन्तीमृषिधर्मांस्तु ऋषयश्चाभ्यपूजयन् ॥ 004ac
ऋषय ऊचुः । 005
त्वत्प्रसादद्वयं देवि श्रोष्यामः परमं हितम् । 005a
धन्याः खलु वयं सर्वे पादमूलं तवाश्रिताः । 005c
इति सर्वे तदा देवीं वाचा समभिपूजयन् ॥ 005e
महेश्वर उवाच । 006
न्यायतस्त्वं महाभागे श्रोतुकामा मनस्विनि । 006a
हन्त ते कथयिष्यामि मुनिधर्मं शुचिस्मिते ॥ 006c
वानप्रस्थं समाश्रित्य क्रियते बहुधा नरैः । 007a
बहुशाखो बहुविधो ऋषिधर्मः सनातनः ॥ 007c
प्रायशः सर्वभोगार्थमृषिभिः क्रियते तपः । 008a
तथा सञ्चरतां तेषां देवि धर्मविधिं शृणु ॥ 008c
भूत्वा पूर्वं गृहस्थस्तु पुत्रानृण्यमवाप्य च । 009a
कलत्रकार्यं संस्थाप्य कारणात्सन्त्यजेद्गृहम् ॥ 009c
अवस्थाप्य मनो धृत्या व्यवसायपुरःसरः । 010a
निर्दारो वा सदारो वा वनवासाय संव्रजेत् ॥ 010c
देशाः परमपुण्या ये नदीवनसमन्विताः । 011a
अबोधमुक्ताः प्रायेण तीर्थायतनसंयुताः ॥ 011c
तत्र गत्वा विधिं ज्ञात्वा दीक्षां कुर्याद्यथागमम् । 012a
दीक्षित्वैकमना भूत्वा परिचर्यां समाचरेत् ॥ 012c
काल्योत्थानं च शौचं च सर्वदेवप्रणामनम् । 013a
सकृदालेपनं काये त्यक्तदोषोऽप्रमादिता ॥ 013c
सायम्प्रातश्चाभिषेकं चाग्निहोत्रं यथाविधि । 014a
काले शौचं च कार्यं च जटावल्कलधारणम् ॥ 014c
सततं वनचर्या च समित्कुसुमकारणात् । 015a
नीवाराग्रयणं काले शाकमूलोपचायनम् ॥ 015c
सदायतनशौचं च तस्य धर्माय चेष्यते । 016a
अतिथीनामाभिमुख्यं तत्परत्वं च सर्वदा ॥ 016c
पाद्यासनाभ्यां सम्पूज्य तथाऽऽहारनिमन्त्रणम् । 017a
अग्राम्यपचनं काले पितृदेवार्चनं तथा ॥ 017c
पश्चादतिथिसत्कारस्तस्य धर्मः सनातनः । 018a
शिष्टैर्धर्मासने चैव धर्मार्थसहिताः कथाः ॥ 018c
प्रतिश्रयविभागश्च भूमिशय्या शिलासु वा । 019a
व्रतोपवासयोगश्च क्षमा चेन्द्रियनिग्रहः ॥ 019c
दिवारात्रं यथायोगं शौचं धर्मस्य चिन्तनम् । 020a
एवं धर्माः पुरा दृष्टाः सामान्या वनवासिनाम् ॥ 020c
एवं वै यतमानस्य कालधर्मो यथा भवेत् । 021a
तथैव सोऽभिजयति स्वर्गलोकं शुचिस्मिते ॥ 021c
तत्र संविदिता भोगाः स्वर्गस्त्रीभिरनिन्दिते । 022a
परिभ्रष्टो यथा स्वर्गाद्विशिष्टस्तु भवेन्नृषु ॥ 022c
एवं धर्मस्तथा देवि सर्वेषां वनवासिनाम् । 023a
एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ॥ 023c
उमोवाच । 024
भगवन्देवदेवेश ऋषीणां चरितं शुभम् । 024a
विशेषधर्मानिच्छामि श्रोतुं कौतूहलं हि मे ॥ 024c
महेश्वर उवाच । 025
तदहं ते प्रवक्ष्यामि शृणु देवि समाहिता ॥ 025ac
वननित्यैर्वनरतैर्वानप्रस्थैर्महर्षिभिः । 026a
वनं गुरुमिवालम्ब्य वस्तव्यमिति निश्चयः ॥ 026c
वीरशय्यामुपासद्भिर्वारस्थानोपसेविभिः । 027a
व्रतोपवासैर्बहुलैर्ग्रीष्मे पञ्चतपैस्तथा ॥ 027c
पञ्चयज्ञपरैर्नित्यं पौर्णमास्यापरायणैः । 028a
मण्डूकशायैर्हेमन्ते शैवालाङ्कुरभोजनैः ॥ 028c
चीरवल्कलसंवीतैर्मृगाजिनधरैस्तथा । 029a
चातुर्मास्यपरैः कैश्चिद्देवधर्मपरायणैः ॥ 029c
एवंविधैर्वनेवासैस्तप्यते सुमहत्तपः । 030a
एवं कृत्वा शुभं कर्म पश्चाद्याति त्रिविष्टपम् ॥ 030c
तत्रापि सुमहत्कालं संविहृत्य यथासुखम् । 031a
जायते मानुषे लोके दानभोगसमन्वितः ॥ 031c
तपोविशेषसंयुक्ताः कथितास्ते शुचिस्मिते ॥ 032ac
उमोवाच । 033
भगवन्देवदेवेश तेषु ये दारसंयुताः । 033a
कीदृशं चरितं तेषां तन्मे शंसितुमर्हसि ॥ 033c
महेश्वर उवाच । 034
य एकपत्नीधर्माणश्चरन्ति विपुलं तपः । 034a
विन्ध्यपादेषु ये केचिद्ये च नैमिशवासिनः ॥ 034c
पुष्करेषु च ये चान्ये नदीवनसमाश्रिताः । 035a
सर्वे ते विधिदृष्टेन चरन्ति विपुलं तपः ॥ 035c
हिंसाद्रोहविमुक्ताश्च सर्वभूतानुकम्पिनः । 036a
शान्ता दान्ता जितक्रोधाः सर्वातिथ्यपरायणाः ॥ 036c
प्राणिष्वात्मोपमा नित्यमृतुकालाभिगामिनः । 037a
स्वदारसहिता देवि चरन्ति व्रतमुत्तमम् ॥ 037c
वसन्ति सुखमव्यग्राः पुत्रदारसमन्विताः । 038a
तेषां परिच्छदारम्भाः कृतोपकरणानि च ॥ 038c
गृहस्थवद्द्वितीयं ते यथायोगं प्रमाणतः । 039a
पोषणार्थं स्वदाराणामग्निकार्यार्थमेव च । 039c
गावश्च कर्षणं चैव सर्वमेतद्विधीयते ॥ 039e
एवं वनगतैर्देवि कर्तव्यं दारसङ्ग्रहैः । 040a
ते स्वदारैः समायान्ति पुण्याल्ँलोकान्द्दढव्रताः ॥ 040c
पतिभिः सह ये दाराश्चरन्ति विपुलं तपः । 041a
अव्यग्रभावादैकात्म्यात्ताश्च गच्छन्ति वै दिवम् । 041c
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥ ॥ 041e
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि नवाधिकद्विशततमोऽध्यायः ॥ 209 ॥