अध्यायः 208
ईश्वरेण पार्वतीं प्रति वर्णाश्रमधर्मकथनम् ॥ 1 ॥
महेश्वर उवाच । 001
हन्त ते कथयिष्यामि यत्ते देवि मनःप्रियम् । 001a
शृणु तत्सर्वमखिलं धर्मं वर्णाश्रमाश्रितम् ॥ 001c
ब्राह्मणाः क्षत्रिया वैश्याः शुद्राश्चेति चतुर्विधम् । 002a
ब्राह्मणा विहिताः पूर्वं लोकतन्त्रमभीप्सता । 002c
कर्माणि च तदर्हाणि शास्त्रेषु विहितानि वै ॥ 002e
यदीदमेकवर्णं स्याज्जगत्सर्वं विनश्यति । 003a
सहैव देवि वर्णानि चत्वारि विहितान्यतः ॥ 003c
मुखतो ब्राह्मणाः सृष्टस्तस्मात्ते वाग्विशारदाः । 004a
बाहुभ्यां क्षत्रियाः सृष्टास्तस्मात्ते बाहुगर्विताः ॥ 004c
ऊरुभ्यामुद्गता वैश्यास्तस्माद्वार्तोपजीविनः । 005a
शूद्राश्च पादतः सृष्टास्तस्मात्ते परिचारकाः ॥ 005c
तेषां धर्मांश्च कर्माणि शृणु देवि समाहिता । 006a
विप्राः कृता भूमिदेवा लोकानां धारणे कृताः । 006c
ते कैश्चिन्नावमन्तव्या ब्राह्मणा हितमिच्छुभिः ॥ 006e
यदि ते ब्राह्मणा न स्युर्दानयोगवहाः सदा । 007a
उभयोर्लोकयोर्देवि स्थितिर्न स्यात्समासतः ॥ 007c
लोकेषु दुर्लभं किन्तु ब्राह्मणत्वमिति स्मृतम् । 008a
अबुधो वा दरिद्रो वा पूजनीयः सदैव सः ॥ 008c
ब्राह्मणान्योऽवमन्येत निन्देच्च क्रोधयेच्च वा । 009a
प्रहरेत हरेद्वाऽपि धनं तेषां नराधमः ॥ 009c
कारयेद्धीनकर्मणि कामलोभविमोहनात् । 010a
स च मामवमन्येत मां क्रोधयति निन्दति ॥ 010c
मामेव प्रहरेन्मूढो मद्धनस्यापहारकः । 011a
मामेव प्रेषणं कृत्वा निदन्ते मूढचेतनः ॥ 011c
स्वाध्यायो यजनं दानं तस्य धर्म इति स्थितिः । 012a
कर्मण्यध्यापनं चैव याजनं च प्रतिग्रहः । 012c
सत्यं शान्तिस्तपः शौचं तस्य धर्मः सनातनः ॥ 012e
विक्रयो रसधान्यानां ब्राह्मणस्य विगर्हितः । 013a
अनापदि च शूद्रान्नं वृषलीसङ्ग्रहस्तथा ॥ 013c
तप एव सदा धर्मो ब्राह्मणस्य न संशयः । 014a
स तु धर्मार्थमुत्पन्नः पूर्वं धात्रा तपोबलात् ॥ 014c
तस्योपनयनं धर्मो नित्यं चोदकधारणम् । 015a
शास्त्रस्य श्रवणं धर्मो देवव्रतनिषेवणम् ॥ 015c
अग्निकार्यं परो धर्मो नित्ययज्ञोपवीतिता । 016a
शूद्रान्नवर्जनं धर्मो धर्मः सत्पथसेवनम् । 016c
धर्मो नित्योपवासित्वं ब्रह्मचर्यं परं तथा ॥ 016e
गृहस्थस्य परो धर्मो गृहस्थाश्रमिणस्तथा । 017a
गृहसम्मार्जनं धर्म आलेपनविधिस्तथा ॥ 017c
अतिथिप्रियता धर्मो धर्मस्त्रेताग्निधारणम् । 018a
इष्टिर्वा पशुबन्धाश्च विधिपूर्वं परन्तप ॥ 018c
दम्पत्योः समशीलत्वं धर्मो वै गृहमेधिनाम् । 019a
एवं द्विजन्मनो धर्मो गार्हस्थ्ये धर्मधारणम् ॥ 019c
यस्तु क्षत्रगतो धर्मस्त्वया देवि प्रचोदितः । 020a
तमहं ते प्रवक्ष्यामि शृणु देवि समाहिता ॥ 020c
क्षत्रियास्तु ततो देवि द्विजानां पालने स्मृताः । 021a
यदि निःक्षत्रियो लोको जगत्स्यादधरोत्तरम् ॥ 021c
रक्षणात्क्षत्रियैरेव जगद्भवति शाश्वतम् । 022a
तस्याप्यध्ययनं दानं यजनं धर्मतः स्मृतम् ॥ 022c
दीनानां रक्षणं चैव पापनामनुशासनम् । 023a
सतां सम्पोषणं चैव कर्मषण्मार्गजीवनम् ॥ 023c
उत्साहः शस्त्रजीवित्वं तस्य धर्मः सनातनः । 024a
भृत्यानां भरणं धर्मः कृते कर्मण्यमोघता ॥ 024c
सम्यग्गुणयुतो धर्मो धर्मः पौरहितक्रिया । 025a
व्यवहारस्थितिर्नित्यं गुणयुक्तो महीपतिः ॥ 025c
आर्तवित्तप्रदो राजा धर्मं प्राप्नोत्यनुत्तमम् । 026a
एवं तैर्विहितः पूर्वैर्धर्मः कर्मविधानतः ॥ 026c
तथैव देवि वैश्याश्च लोकयात्राहिताः स्मृताः । 027a
अन्ये तानुपजीवन्ति प्रत्यक्षफलदा हि ते ॥ 027c
यदि न स्युस्तथा वैश्या न भवेयुस्तथा परे । 028a
तेषामध्ययनं दानं यजनं धर्म उच्यते ॥ 028c
वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस्तथा । 029a
अग्निहोत्रपरिस्पन्दास्त्रयो वर्णा द्विजातयः ॥ 029c
वाणिज्यं सत्पथे स्थानमातिथेयत्वमेव च । 030a
विप्राणां स्वागतन्यायो वैश्यधर्मः सनातनः ॥ 030c
तिलगन्धरसाश्चैव न विक्रेयाः कथञ्चन । 031a
वणिक्पथमुपासद्भिर्वैश्यैर्वैश्यपथि स्थितैः ॥ 031c
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् । 032a
एवं ते विहिता देवि लोकयात्रा स्वयम्भुवा ॥ 032c
तथैव शूद्रा विहिताः सर्वधर्मप्रसाधकाः । 033a
शूद्राश्च यदि ते न स्युः कर्मकर्ता न विद्यते ॥ 033c
त्रयः पूर्वे शूद्रमूलाः सर्वे कर्मकराः स्मृताः । 034a
ब्राह्मणादिषु शुश्रूषा दासधर्म इति स्मृतः ॥ 034c
वार्ता च कारुकर्माणि शिल्यं नाट्यं तथैव च । 035a
अहिंसकः शुभाचारो दैवतद्विजवन्दकः ॥ 035c
शूद्रो धर्मफलैरिष्टैः स्वधर्मेणोपपद्यते । 036a
एवमादि तथाऽन्यच्च शूद्रधर्म इति स्मृतः ॥ 036c
तेऽप्येवं विहिता लोके कर्मयोग्याः शुभानने ॥ 037ac
एवं चतुर्णां वर्णानां वर्णलोकाः परत्र च । 038a
विहिताश्च तथा दृष्टा यथावद्धर्मचारिणि ॥ 038c
एष वर्णाश्रयो धर्मः कर्म चैव तदर्पणम् । 039a
कथितं श्रोतुकामायाः किं भूयः श्रोतुमिच्छसि ॥ 039c
उमोवाच । 040
भगवन्देवदेवेश नमस्ते वृषभध्वज । 040a
श्रोतुमिच्छाम्यहं देव धर्ममाश्रमिणां विभो ॥ 040c
महेश्वर उवाच । 041
तथाऽऽश्रमगतं धर्मं शृणु देवि समाहिता । 041a
आश्रमाणां तु यो धर्मः क्रियते ब्रह्मवादिभिः ॥ 041c
गृहस्थः प्रवरस्तेषां गार्हस्थ्यं धर्ममाश्रितः । 042a
पञ्चयज्ञक्रियाशौचं दारतुष्टिरतन्द्रिता ॥ 042c
ऋतुकालाभिगमनं दानयज्ञतपांसि च । 043a
अविप्रवासस्तस्येष्टः स्वाध्यायश्वाग्निपूर्वकम् ॥ 043c
अतिथीनामाभिमुख्यं शक्त्या चेष्टनिमन्त्रणम् । 044a
अनुग्रहश्च सर्वेषां मनोवाक्कायकर्मभिः ॥ 044c
एवमादि शुभं चान्यत्कुर्यात्तद्वृत्तिमान्गृही । 045a
एवं सञ्चरतस्तस्य पुण्यलोका न संशयः । 045c
तथैव वानप्रस्थस्य धर्माः प्रोक्ताः सनातनाः ॥ 046ac
गृहवासं समुत्सृकज्य निश्चित्यैकमनाः शुभैः । 047a
वन्यैरेव तदाहारैः वर्तयेदिति च स्थितिः ॥ 047c
भूमिशय्या जटाश्मश्रुचर्मवल्कलधारणम् । 048a
देवतातिथिसत्कारो महाकृच्छ्राभिपूजनम् ॥ 048c
अग्निहोत्रं त्रिषवणं नित्यं तस्य विधीयते । 049a
ब्रह्मचर्यं क्षमा शौचं तस्य धर्मः सनातनः । 049c
एवं स विगते प्राणे देवलोके महीयते ॥ 049e
यतिधर्मास्तथा देवि गृहांस्त्यक्त्वा यतस्ततः । 050a
आकिञ्चन्यमनारम्भः सर्वतः शौचमार्जवम् ॥ 050c
सर्वत्र भैक्षचर्या च सर्वत्रैव विवासनम् । 051a
सदा ध्यानपरत्वं च देहशुद्धिः क्षमा दया । 051c
तत्वानुगतबुद्धित्वं तस्य धर्मविधिर्भवेत् ॥ 051e
ब्रह्मचारी च यो देवि जन्मप्रभृति भिक्षितः । 052a
ब्रह्मचर्यपरो भूत्वा साधयेद्गुरुमात्मनः । 052c
सर्वकालेषु सर्वत्र गुरुपूजां समाचरेत् ॥ 052e
भैक्षचर्याग्निकार्यं च सदा जलनिषेवणम् । 053a
स्वाध्यायः सततं तस्य एष धर्मः सनातनः ॥ 053c
तस्य चेष्टा तु गुर्वर्थमाप्राणान्तमिति स्थितिः । 054a
गुरोरभावे तत्पुत्रे गुरुवद्वृत्तिमाचरेत् ॥ 054c
एवं सोप्यमलाल्ँलोकान्ब्राह्मणः प्रतिपद्यते । 055a
एष ते कथितो देवि धर्मश्चाश्रमवासिनाम् ॥ 055c
चतुर्णामाश्रमो युक्तो लोक इत्येव विद्यते । 056a
कथितं ते समासेन किं भूयः श्रोतुमिच्छसि ॥ ॥ 056c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टोत्तरद्विशततमोऽध्यायः ॥ 208 ॥ 13-208-9 ब्राह्मणोऽभिहिता शुचिः इति क.पाठः ॥ 13-208-55 आयुष्कामो द्विजो देवि धारयेद्भस्म नित्यशः । मोक्षकामी च यो विप्रो भूतिकामोथवा पुनः । पुनरावृत्तिरहितं लोकं सम्प्रतिपद्यते । इति थ.पाठः ॥