अध्यायः 207
ईश्वरेण पार्वतीम्प्रति स्वस्य श्मशानवासचन्द्रकलाधारणादेः कारणाभिधानम् ॥ 1 ॥
उमोवाच । 001
भगवन्सर्वभूतेश शूलपाणे वृषध्वज । 001a
आवासेषु विचित्रेषु रम्येषु च शुभेशु च ॥ 001c
सत्सु चान्येषु भूतेषु श्मशाने रमसे कथम् । 002a
केशास्थिकलिले भीमे कपालशतसङ्कुले ॥ 002c
सृगालगृध्रसम्पूर्णे शवधूमसमाकुले । 003a
चिताग्निविषमे घोरे गहने च भयानके ॥ 003c
एवं कलेवरक्षेत्रे दुर्दर्शे रमसे कथम् । 004a
एष मे संशयो देव तन्मे शंसितुमर्हसि ॥ 004c
महादेव उवाच । 005
हन्त ते कथयिष्यामि शृणु देवि समाहिता । 005a
आवासार्थं पुरा देवि शुद्धान्वेषी शुचिस्मिते ॥ 005c
नाध्यगच्छं चिरं कालं देशं शुचितमं शुभे । 006a
एष मेऽभिनिवेशोऽभूत्तस्मिन्काले प्रजापतिः ॥ 006c
आकुलः सुमहाघोरः प्रादुरासीत्समन्ततः । 007a
सम्भूता भूतसृष्टिश्च घोरा लोकभयावहा ॥ 007c
नानावर्णा विरूपाश्च तीक्ष्णदंष्ट्राः प्रहारिणः । 008a
पिशाचरक्षोवदनाः प्राणिनां प्राणहारिणः । 008c
इतश्चरन्ति निघ्नन्तः प्राणिनो भृशमेव च ॥ 008e
एवं लोके प्राणिहीने क्षयं याते पितामहः । 009a
चिन्तयंस्तत्प्रतीकारं मां च शक्तं हि निग्रहे ॥ 009c
एवं ज्ञात्वा ततो ब्रह्मा तस्मिन्कर्मण्योजयत् । 010a
तच्च प्राणिहितार्थं तु मयाऽप्यनुमतं प्रिये ॥ 010c
तस्मात्संरक्षिता देवि भूतेभ्यः प्राणिनो भयात् । 011a
अस्माच्छ्मशानान्मेध्यं तु नास्ति किञ्चिदनिन्दिते । 011c
निःसम्पातान्मनुष्याणां तस्माच्छुचितमं स्मृतं ॥ 011e
भूतसृष्टिं च तां चाहं श्मशाने सन्न्यवेशयम् । 012a
तत्रस्थः सर्वभूतानां विनिहन्मि प्रिये भयम् ॥ 012c
न च भूतगणेनाहं विना वसितुमुत्सहे । 013a
तस्मान्मे सन्निवासाय श्मशाने रोचते मनः ॥ 013c
मेध्यकामैर्द्विजैनित्यं मेध्यमित्यभिधीयते । 014a
आचरद्भिर्व्रतं नित्यं मोक्षकामैश्च सेव्यते ॥ 014c
स्थानं मे तत्र विहितं वीरस्थानमिति प्रिये । 015a
कपालशतसम्पूर्णमभिरूपं भयानकम् ॥ 015c
मध्याह्ने सन्ध्ययोस्तत्र नक्षत्रे रुद्रदेवते । 016a
आयुष्कामैरशुद्धैर्वा न गन्तव्यमिति स्थितिः ॥ 016c
मदन्येन न शक्यं हि निहन्तुं भूतजं भयम् । 017a
तत्रस्थोऽहं प्रजाः सर्वाः पालयामि दिनेदिने ॥ 017c
मन्नियोगाद्भूतसङ्घा न च घ्नन्तीह कञ्चन । 018a
तांस्तु लोकहितार्थाय श्मशाने रमयाम्यहम् । 018c
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ 018e
उमोवाच । 019
भगवन्देवदेवेश त्रिनेत्र वृषभध्वज । 019a
पिङ्गलं विकृतं भाति रूपं ते तु भयानकम् ॥ 019c
भस्मदिग्धं विरूपाक्षं तीक्ष्णदंष्ट्रं जटाकुलम् । 020a
व्याघ्रोदरत्वक्संवीतं कपिलश्मश्रुसन्ततम् ॥ 020c
रौद्रं भयानकं घोरं शूलपट्टससंयुतम् । 021a
किमर्थं त्वीदृशं रूपं तन्मे शंसितुमर्हसि ॥ 021c
महेश्वर उवाच । 022
तदहं कथयिष्यामि शृणु तत्त्वं समाहिता । 022a
द्विविधो लौकिको भावः शीतमुष्णमिति प्रिये ॥ 022c
तयोर्हि ग्रसितं सर्वं सौम्याग्नेयमिदं जगत् ॥ 023ac
सौम्यत्वं सततं विष्णौ मय्याग्नेयं प्रतिष्ठितम् । 024a
अनेन वपुषा नित्यं सर्वलोकान्बिभर्म्यहम् ॥ 024c
रौद्राकृतिं विरूपाक्षं शूलपट्टससंयुतम् । 025a
आग्नेयमिति मे रूपं देवि लोकहिते रतम् ॥ 025c
यद्यहं विपरीतः स्यामेतत्त्यक्त्वा शुभानने । 026a
तदैव सर्वलोकानां विपरीतं प्रवर्तते ॥ 026c
तस्मान्मयेदं ध्रियते रूपं लोकहितैषिणा । 027a
इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥ 027c
उमोवाच । 028
भगवन्देवदेवेश शूलपाणे वृषध्वज । 028a
किमर्थं चन्द्ररेखा ते शिरोभागे विरोचते । 028c
श्रोतुमिच्छाम्यहं देव तन्मे शंसितुमर्हसि ॥ 028e
महेश्वर उवाच । 029
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् । 029a
पुराऽहं कारणाद्देवि कोपयुक्तः शुचिस्मिते । 029c
दक्षयज्ञवधार्याय भूतसङ्घैः समावृतः ॥ 029e
तस्मिन्क्रतुवरे घोरे यज्ञभागनिमित्ततः । 030a
देवा विभ्रंशितास्ते वै येषां भागः क्रतौ कृतः ॥ 030c
सोमस्तत्र मया देवि कुपितेन भृशार्दितः । 031a
पश्यंश्चानपराधी सन्पादङ्गुष्ठेन ताडितः ॥ 031c
तथापि विकृतेनाहं सामपूर्वं प्रसादितः । 032a
तन्मे चिन्तयतश्चासीत्पश्चात्तापः पुरा प्रिये ॥ 032c
तदाप्रभृति सोमं वै शिरसा धारयाम्यम् । 033a
एवं मे पापहानिस्तु भवेदिति मतिर्मम । 033c
तदाप्रभृति वै सोमो मूर्ध्नि सन्दृश्यते सदा ॥ 033e
नारद उवाच । 034
एवं ब्रुवति देवेशे विस्मिताः परमर्षयः । 034a
वाग्भिः साञ्जलिमालाभिरभितुष्टुवुरीश्वरम् ॥ 034c
ऋषय ऊचुः । 035
नमः शङ्कर सर्वेश नमः सर्वजगद्भुरो । 035a
नमो देवादिदेवाय नमः शशिकलाधर ॥ 035c
नमो घोरतराद्धोर नमो रुद्राय शङ्कर । 036a
नमः शान्ततराच्छान्त नमश्चन्द्रस्य पालक ॥ 036c
नमः सोमाय देवाय नमस्तुभ्यं चतुर्मुख । 037a
नमो भूतपते शम्भो जह्नुकन्याम्बुशेखर ॥ 037c
नमस्त्रिशूलहस्ताय पन्नगाभरणाय च । 038a
नमोस्तु विषमाक्षाय दक्षयज्ञप्रदाहक ॥ 038c
नमोस्तु बहुनेत्राय लोकरक्षणतत्पर । 039a
अहो देवस्य महात्म्यमहो देवस्य वै कृपा । 039c
एवं धर्मपरत्वं च देवदेवस्य चार्हति ॥ 039e
एवं ब्रुवत्सु मुनिषु वचो देव्यब्रवीद्धरम् । 040a
सम्प्रीत्यर्थं मुनीनां सा क्षणज्ञा परमं हितम् ॥ 040c
उमोवाच । 041
भगवन्देवदेवेश सर्वलोकनमस्कृत । 041a
अस्यैव ऋषिसङ्घस्य मम च प्रियकाम्यया ॥ 041c
वर्णाश्रमकृतं धर्मं वक्तुमर्हस्यशेषतः । 042a
न तृप्तिरस्ति देवेश श्रवणीयं हि ते वचः ॥ 042c
सधर्मचारिणी चेयं भक्ता चेयमिति प्रभो । 043a
वक्तुमर्हसि देवेश लोकानां हितकाम्यया । 043c
याथातथ्येन तत्सर्वं वक्तुमर्हसि शङ्कर ॥ 043e
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्ताधिकद्विशततमोऽध्यायः ॥ 207 ॥