अध्यायः 206
ईश्वरेण पार्वतीं प्रति स्वस्य चतुर्मुखत्वस्य नीलकण्ठतायाः पिनाककार्मुकताया वृषभवाहनत्वस्य च कारणाभिधानम् ॥ 1 ॥
नारद उवाच । 001
क्षणज्ञा देवदेवस्य श्रोतुकामा प्रियं हितम् । 001a
उमादेवी महादेवमपृच्छत्पुनरेव तु ॥ 001c
भगवन्देवदेवेश सर्वदेवनमस्कृत । 002a
चतुर्मुखो वै भगवानभवत्केन हेतुना ॥ 002c
भगवन्केन ते वक्त्रमैन्द्रमद्भुतदर्शनम् । 003a
उत्तरं चापि भगवन्पश्चिमं शुभदर्शनम् । 003c
दक्षिणं च मुखं रौद्रं केनोर्ध्वं जटिलावृतम् ॥ 003e
यथादृशं महाभाग श्रोतुमिच्छामि कारणम् । 004a
एष मे संशयो देव तन्मे शंसितुमर्हसि ॥ 004c
महादेव उवाच । 005
तदहं ते प्रवक्ष्यामि यत्त्वमिच्छसि भामिनि । 005a
पुराऽसुरो महाघोरौ लोकोद्वेगकरौ भृशम् ॥ 005c
सुन्दोपसुन्दनामानावासतुर्बलगर्वितौ । 006a
अशस्त्रवध्यौ बलिनौ परस्परहितैषिणौ ॥ 006c
तयोरेव विनाशाय निर्मिता विश्वकर्मणा । 007a
सर्वतः सारमुद्धृत्य तिलशो लोकपूजिता । 007c
तिलोत्तमेति विख्याता अप्सराः सा बभूव ह ॥ 007e
देवकार्यं करिष्यन्ती हासभावसमन्विता । 008a
सा तपस्यन्तमागम्य रूपेणाप्रतिमा भुवि ॥ 008c
मया बहुमता चेयं देवकार्यं करिष्यति । 009a
इति मत्वा तदा चाहं कुर्वन्तीं मां प्रदक्षिणम् । 009c
तथैव तां दिदृक्षुश्च चतुर्वक्त्रोऽभवं प्रिये ॥ 009e
ऐन्द्रं मुखमिदं पूर्वं तपश्चर्यापरं सदा । 010a
दक्षिणं मे मुखं दिव्यं रौद्रं संहरति प्रजाः ॥ 010c
लोककार्यपरं नित्यं पश्चिमं मे मुखं प्रिये । 011a
वेदानधीते सततमद्भुतं चोत्तरं मुखम् । 011c
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ 011e
उमोवाच । 012
भगवञ्श्रोतुमिच्छामि शूलपाणे वरप्रद । 012a
किमर्थं नीलता कण्ठे भाति बर्हिनिभा तव ॥ 012c
महेश्वर उवाच। 013
एतत्ते कथयिष्यामि शृणु देवि समाहिता ॥ 013ac
पुरा युगान्तरे यत्नादमृतार्थं सुरासुरैः । 014a
बलवद्भिर्विमथितश्चिरकालं महोदधिः ॥ 014c
रज्जुना नागराजेन मथ्यमाने महोदधौ । 015a
विषं तत्र समुद्भूतं सर्वलोकविनाशनम् ॥ 015c
तद्दृष्ट्वा विबुधाः सर्वे तदा विमनसोऽभवन् । 016a
ग्रस्तं हि तन्मया देवि लोकानां हितकारणात् ॥ 016c
तत्कृता नीलता चासीत्कण्ठे बर्हिनिभा शुभे । 017a
तदाप्रभृति चैवाहं नीलकण्ठ इति स्मृतः । 017c
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ 017e
उमोवाच । 018
नीलकण्ठ नमस्तेऽस्तु सर्वलोकसुखावह । 018a
बहूनामायुधानां त्वं पिनाकं धर्तुमिच्छसि । 018c
किमर्थं देवदेवेश तन्मे शंसितुमर्हसि ॥ 018e
महेश्वर उवाच । 019
शस्त्रागमं ते वक्ष्यामि शृणु धर्म्यं शुचिस्मिते । 019a
युगान्तरे महादेवि कण्वो नाम महामुनिः ॥ 019c
स हि दिव्यां तपश्चर्यां कर्तुमेवोपचक्रमे । 020a
तथा तस्य तपो घोरं चरतः कालपर्ययात् । 020c
वल्मीकं पुनरुद्भूतं तस्यैव शिरसि प्रिये ॥ 020e
वेणुर्वल्मीकसंयोगान्मूर्ध्नि तस्य बभूव ह । 021a
धरमाणश्च तत्सर्वं तपश्चर्यां तथाऽकरोत् ॥ 021c
तस्मै ब्रह्मा वरं दातुं जगाम तपसार्चितः । 022a
दत्त्वा तस्मै वरं देवो वेणुं दृष्ट्वा त्वचिन्तयत् ॥ 022c
लोककार्यं समुद्दिश्य वेणुनाऽनेन भामिनि । 023a
चिन्तयित्वा तमादाय कार्मुकार्थे न्ययोजयत् ॥ 023c
विष्णोर्मम च सामर्थ्यं ज्ञात्वा लोकपितामहः । 024a
धनुषी द्वे तदा प्रादाद्विष्णवे च ममैव च ॥ 024c
पिनाकं नाम मे चापं शार्ङ्गं नाम हरेर्धनुः । 025a
तृतीयमवशेषेण गाण्डीवमभवद्धनुः ॥ 025c
तच्च सोमाय निर्दिश्य ब्रह्मा लोकं गतः पुनः । 026a
एतत्ते सर्वमाख्यातं शस्त्रागममनिन्दिते ॥ 026c
उमोवाच । 027
भगवन्देवदेवेश पिनाकपरमप्रिय । 027a
वाहनेषु तथाऽन्येषु सत्सु भूतपते तव ॥ 027c
अयं तु वृषभः कस्माद्वाहनं स यथाऽभवत् । 028a
एष मे सशयो देव तन्मे शंसितुमर्हसि ॥ 028c
महादेव उवाच । 029
तदहं ते प्रवक्ष्यामि वाहनं स यथाऽभवत् ॥ 029ac
आदिसर्गे पुरा गावः श्वेतवर्णाः शुचिस्मिते । 030a
बलसंहनना गावो दर्पयुक्ताश्चरन्ति ताः ॥ 030c
अहं तु तप आतिष्ठं तस्मिन्काले शुभानने । 031a
एकपादश्चोर्ध्वबाहुर्लोकार्थं हिमवद्गिरौ ॥ 031c
गावो मे पार्श्वमागम्य दर्पोत्सिक्ताः समन्ततः । 032a
स्थानभ्रंशं तदा देवि चक्रिरे बहुशस्तदा ॥ 032c
अपचारेण वै तासां मनःक्षोभोऽभवन्मम । 033a
तस्माद्दग्धा यदा गावो रोषाविष्टेन चेतसा ॥ 033c
तस्मिंस्तु व्यसने घोरे वर्तमाने पशून्प्रति । 034a
अनेन वृषभेणाहं शमितः सम्प्रसादनैः ॥ 034c
तदाप्रभृति शान्ताश्च वर्णभेदत्वमागताः । 035a
श्वेतोऽयं वृषभो देवि पूर्वसंस्कारसंयुतः । 035c
वाहनत्वे ध्वजत्वे मे तदाप्रभृति योजितः ॥ 035e
तस्मान्मे गोपतित्वं च देवैर्गोभिश्च कल्पितम् । 036a
प्रसन्नश्चाभवं देवि तदा गोपतितां गतः ॥ 036c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षडधिकद्विशततमोऽध्यायः ॥ 206 ॥