अध्यायः 205

नारदेन कृष्णं प्रति उमामहेश्वरसंवदानुवादारम्भः ॥ 1 ॥ नानामुनिगणाकीर्णहिमवत्तटमुपविष्टे महादेवे तत्पृष्ठभागमुपागतया पार्वत्या क्रीडार्थं स्वपाणिभ्यां तदीयनयनद्वयपिधानम् ॥ 2 ॥ तदा जगत आन्ध्यप्राप्तौ देवेन स्वललाटे तृतीयनेत्रसर्जनम् ॥ 3 ॥ तत्तेजसा निर्दग्धे गिरौ देवीप्रार्थनया देवेन पुनर्गिरेरुज्जीवनम् ॥ 4 ॥

नारद उवाच । 001
भगवंस्तीर्थयात्रार्थं तथैव चरता मया । 001a
दिव्यमद्भुतसङ्काशं दृष्टं हैमवतं वनम् ॥ 001c
नानावृक्षसमायुक्तं नानापक्षिगणैर्वृतम् । 002a
नानरत्नगणाकीर्णं नानाभावसमन्वितम् ॥ 002c
दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम् । 003a
दिव्यपुष्पसमाकीर्णं दिव्यगन्धेन वासितम् ॥ 003c
सिद्धचारणसङ्घातैर्भूतसङ्घैर्निषेवितम् । 004a
वरिष्ठाप्सरसाकीर्णं नागगन्धर्वसङ्कुलम् ॥ 004c
मृदङ्गमुरजोद्धुष्टं शङ्खवीणाभिनादितम् । 005a
नृत्यद्भिर्भूतसङ्घैश्च सर्वतस्त्वभिशोभितम् ॥ 005c
नानारूपैर्विरूपैश्च भीमरूपैर्भयानकैः । 006a
सिंहव्याघ्रोरगमृगैर्बिडालवदनैस्तथा ॥ 006c
स्वरोष्ट्रद्वीपिवदनैर्गजवक्त्रैस्तथैव च । 007a
उलूकश्येनवदनैः काकगृध्रमुखैस्तथा ॥ 007c
एवं बहुविधाकारैर्भूतसङ्घैर्भृशाकुलम् । 008a
नानद्यमानं बहुधा हरपारिषदैर्भृशम् ॥ 008c
घोररूपं सुदुर्दर्शं रक्षोगणशतैर्वृतम् । 009a
समाजं तद्वने दृष्टं मया भूतपतेः पुरा ॥ 009c
प्रनृत्ताप्सरसं दिव्यं देवगन्धर्वनादितम् । 010a
प्रथमे वर्षरात्रे तु मेघसङ्घनिनादितम् ॥ 010c
नानाबर्हिणसङ्घुष्टं गजयूथसमाकुलम् । 011a
षट्पदैरुपगीतं च प्रथमे मासि माधवे ॥ 011c
उत्क्रोशत्क्रौञ्चकुररैः सारसैर्जीवजीवकैः । 012a
मत्ताभिः परपुष्टाभिः कूजन्तीभिः समाकुलम् ॥ 012c
उत्तमावाससङ्काशं भीमरूपतरं ततः । 013a
द्रष्टुं भवति धर्मस्य धर्मभागिजनस्य च ॥ 013c
ये चोध्वरेतसः सिद्धास्तत्रतत्र समागताः । 04a
मार्ताण्डरश्मिसञ्चारा विश्वेदेवगणास्तथा ॥ 014c
तथा नागास्तथा दिव्या लोकपाला हुताशनाः । 015a
वाताश्च सर्वे चायान्ति दिव्यपुष्पसमाकुलाः ॥ 015c
किरन्तः सर्वपुष्पाणि किरन्तोऽद्भुतदर्शनाः । 016a
ओषध्यः प्रज्वलन्त्यश्च द्योतयन्त्यो दिशो दश ॥ 016c
विहगाश्च मुदा युक्ता नृत्यन्ति च नदन्ति च । 017a
ततः समन्ततस्तत्र दिव्या दिव्यजनप्रियाः ॥ 017c
तत्र देवो गिरितटे हेमधातुविभूषिते । 018a
पर्यङ्क इव बभ्राज उपविष्टो महाद्युतिः ॥ 018c
व्याघ्रचर्मपरीधानो गजचर्मोत्तरच्छदः । 019a
व्यालयज्ञोपवीतश्च लोहितान्त्रविभूषितः ॥ 019c
हरिश्मश्रुजटो भीमो भयकर्ताऽमरद्विषाम् । 020a
भयहेतुरभक्तानां भक्तानामभयङ्करः ॥ 020c
किन्नरैर्देवगन्धर्वैः स्तूयमानस्ततस्ततः । 021a
ऋषिभिश्चाप्सरोभिश्च सर्वतश्चैव शोभितः ॥ 021c
तत्र भूतपतेः स्थानं देवदानवसङ्कुलम् । 022a
सर्वतेजोमयं भूम्ना लोकपालनिषेवितम् ॥ 022c
महोरगसमाकीर्णं सर्वेषां रोमहर्षणम् । 023a
भीमरूपमनिर्देश्यमप्रधृष्यतमं विभोः ॥ 023c
तत्र भूतपतिं देवमासीनं शिखरोत्तमे । 024a
ऋषयो भूतसङ्घाश्च प्रणम्य शिरसा हरम् । 024c
गीर्भिः परमशुद्धाभिस्तुष्टुवुश्च मनोहरम् ॥ 024e
विमुक्ताश्चैव पापेभ्यो बभूवुर्विगतज्वराः । 025a
ऋषयो बालखिल्याश्च तथा विप्रर्षयश्च ये ॥ 025c
अयोनिजा योनिजाश्च तपःसिद्धा महर्षयः । 026a
ततस्तं देवदेवेशं भगवन्तमुपासते ॥ 026c
ततस्तस्मिन्क्षणे देवी भूतस्त्रीगणसंवृता । 027a
हरतुल्याम्बरधरा समानव्रतचारिणी ॥ 027c
काञ्चनं कलशं गृह्य सर्वतीर्थाम्बुपूरितम् । 028a
पुष्पवृष्ट्याऽभिवर्षन्ती दिव्यगन्धसमावृता ॥ 028c
सरिद्वराभिः सर्वाभिः पृष्ठतोऽनुगता वरा । 029a
सेवितुं भगवत्पार्श्वमाजगाम शुचिस्मिता ॥ 029c
आगम्य तु गिरेः पुत्री देवदेवस्य चान्तिकम् । 030a
मनःप्रियं चिकीर्षन्ती क्रीडार्थं शङ्करान्तिके ॥ 030c
मनोहराभ्यां पाणिभ्यां हरनेत्रे पिधाय तु । 031a
अवेक्ष्य हृष्टा स्वगणान्स्मयन्ती पृष्ठतः स्थिता ॥ 031c
देव्या चान्धीकृते देवे कश्मलं समपद्यत । 032a
निमीलिते भूतपतौ नष्टचन्द्रार्कतारकम् ॥ 032c
निःस्वाध्यायवषट्कारं तमसा चाभिसंवृतम् । 033a
विषण्णं भयवित्रस्तं जगदासीद्भयाकुलम् ॥ 033c
हाहाकारमृषीणां च लोकानामभवत्तदा । 034a
तमोभिभूते सम्भ्रान्ते लोके जीवनसङ्क्षये ॥ 034c
तृतीयं चास्य सम्भूतं ललाटे नेत्रमायतम् । 035a
द्वादशादित्यसङ्काशं लोकान्भासाऽवभासयत् ॥ 035c
तत्र तेनाग्निना तेन युगान्ताग्निनिभेन वै । 036a
अदह्यत गिरिः सर्वो हिमवानग्रतः स्थितः ॥ 036c
दह्यमाने गिरौ तस्मिन्मृगपक्षिसमाकुले । 037a
सविद्याधरगन्धर्वे दिव्यौषधसमाकुले ॥ 037c
ततो गिरिसुता चापि विस्मयोत्फुल्ललोचना । 038a
बभूव च जगत्सर्वं तथा विस्मयसंयुतम् ॥ 038c
पश्यतामेव सर्वेषां देवदानवरक्षसाम् । 039a
नेत्रजेनाग्निना तेन दग्ध एव नगोत्तमः ॥ 039c
तं दृष्ट्वा मथितं शैलं शैलपुत्री सविक्लवा । 040a
पितुः सम्मानमिच्छन्ती पपात भुवि पादयोः ॥ 040c
तं दृष्ट्वा देवदेवेशो देव्या दुःखमनुत्तमम् । 041a
हैमवत्याः प्रियार्थं च गिरिं पुनरवैक्षत ॥ 041c
दृष्टमात्रे भगवता सौम्ययुक्तेन चेतसा । 042a
क्षणेन हिमवाञ्शैलः प्रकृतिस्थोऽभवत्पुनः ॥ 042c
हृष्टपुष्टविहङ्गैश्च प्रफुल्लद्रुमकाननः । 043a
सिद्धचारणसङ्घैश्च प्रीतियुक्तैः समाकुलः ॥ 043c
पितरं प्रकृतिस्थं च दृष्ट्वा हैमवती भृशम् । 044a
अभवत्प्रीतिसंयुक्ता मुदितात्र पिनाकिनम् ॥ 044c
देवी विस्मयसंयुक्ता प्रष्टुकामा महेश्वरम् । 045a
हितार्थं सर्वलोकानां प्रजानां हितकाम्यया । 045c
देवदेवं महादेवी बभाषेदं वचोऽर्थवत् ॥ 045e
भगवन्देवदेवेश शूलपाणे महाद्युते । 046a
विस्मयो मे महाञ्जातस्तस्मिन्नेत्राग्निसम्भवे ॥ 046c
किमर्थं देवदेवेश ललाटेऽस्मिन्प्रकाशते । 047a
अतिसूर्याग्निसङ्काशं तृतीयं नेत्रमायतम् ॥ 047c
नेत्राग्निना तु महता निर्दग्धो हिमवानसौ । 048a
पुनः सन्दृष्टमात्रस्तु प्रकृतिस्थः पिता मम ॥ 048c
एष मे संशयो देव हृदि मे सम्प्रवर्तते । 049a
देवदेव नमस्तुभ्यं तन्मे संसितुमर्हसि ॥ 049c
नारद उवाच । 050a
एवमुक्तस्तया देव्या प्रीयमाणोऽब्रवीद्भवः । 050a
स्थाने संशयितुं देवि धर्मज्ञे प्रियभाषिणि ॥ 050c
त्वदृते मां हि वै प्रष्टुं न शक्यं केन चेत्प्रिये । 051a
प्रकाशं यदि वा गुह्यं प्रियार्थं प्रब्रवीम्यहम् ॥ 051c
शृणु तत्सर्वमकिलमस्यां संसदि भामिनि । 052a
सर्वेषामेव लोकानां कूटस्थं विद्धि मां प्रिये ॥ 052c
मदधीनास्त्रयो लोका यथा विष्णौ तथा मयि । 053a
स्रष्टा विष्णुरहं गोप्ता इत्येतद्विद्धि भामिनि ॥ 053c
तस्माद्यदा मां स्पृशति शुभं वा यदि वेतरत् । 054a
तथैवेदं जगत्सर्वं तत्तद्भवति शोभने ॥ 054c
एतद्गुह्यमजानन्त्या त्वया बाल्यादनिन्दिते । 055a
मन्नेत्रे पिहिते देवि क्रीडनार्थं दृढव्रते ॥ 055c
तत्कृते नष्टचन्द्रार्कं जगदासीद्भयाकुलम् । 056a
नष्टादित्ये तमोभूते लोके गिरिसुते प्रिये ॥ 056c
तृतीयं लोचनं सृष्टं लोकं संरक्षितुं मया । 057a
कथितं संशयस्थानं निर्विशङ्का भव प्रिये ॥ ॥ 057c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चाधिकद्विशततमोऽध्यायः ॥ 205 ॥