अध्यायः 204
कृष्णेनाश्चर्यकथनं प्रार्थितैर्मुनिगणैर्नारदं प्रति तच्चोदना ॥ 1 ॥
श्रीभगवानुवाच । 001
भवतां दर्शनादेव प्रीतिरभ्यधिका मम । 001a
भवन्तस्तु तपःसिद्धा भवन्तो दिव्यदर्शनाः ॥ 001c
सर्वत्र गतिमन्तश्च ज्ञानविज्ञानभाविताः । 002a
गत्यागतिज्ञा लोकानां सर्वे निर्दूतकल्मषाः ॥ 002c
तस्माद्भवद्भिर्यत्किञ्चिदृष्टं वाऽप्यथवा श्रुतम् । 003a
आश्चर्यभूतं लोकेषु तद्भवन्तो ब्रुवन्तु मे ॥ 003c
युष्माभिः कथितं यत्स्यात्तपसा भावितात्मभिः 004a
तस्यादमृतसङ्काशं वाङ्मधुश्रवणे स्पृहा ॥ 004c
रागद्वेषवियुक्तानां सततं सत्यवादिनाम् । 005a
श्रद्धेयं श्रवणीयं च वचनं हि सतां भवेत् ॥ 005c
तत्संयोगं हितं मेऽस्तु न वृथा कर्तुमर्हथ । 006a
भवतां दर्शनं तस्मात्सफलं तु भवेन्मम ॥ 006c
तदहं सज्जनमुखान्निःसृतं जनसंसदि । 007a
कथयिष्याम्यहं बुद्ध्या बुद्धिदीपकरं नृणाम् ॥ 007c
तदन्ये वर्धयिष्यन्ति पूजयिष्यन्ति चापरे । 008a
वात्सल्यविगताश्चान्ये प्रशंसन्ति पुरातनाः ॥ 008c
एवं ब्रुवति गोविन्दे श्रवणार्थं महर्षयः । 009a
वाग्भिः साञ्जलिमालाभिरिदमूचुर्जनार्दनम् ॥ 009c
अयुक्तमस्मानेवं त्वं वाचा वरद भाषितुम् । 010a
त्वच्छासनमुखाः सर्वे त्वदधीनपरिश्रमाः ॥ 010c
त्वत्तस्त्वन्यं न पश्यामो यल्लोके ते न विद्यते । 011a एवं पूजयितुं चास्मान्न चैवार्हसि केशव ।011c
दिवि वा भुवि वा किञ्चित्तत्सर्वं हि त्वया ततम् ॥ 011e
न विद्महे वयं देव कथ्यमानं तवान्तिके । 012a
एवमुक्तो हृषीकेशः सस्मितं चेदमब्रवीत् ॥ 012c
तस्मान्मानुषवद्वीर्यं मम जानीत सुव्रताः । 013a अहं मानुषयोनिस्थः साम्प्रतं मुनिपुङ्गवाः ।013c
भवद्भिः कथ्यमानं च अपूर्वमिव तद्भवेत् ॥ 013e
भीष्म उवाच । 014
एवं सञ्चोदिताः सर्वे केशवेन महात्मना । 014a
ऋषयश्चानुवर्तन्ते वासुदेवस्य शासनम् ॥ 014c
ततस्त्वृषिगणाः सर्वे नारदं देवदर्शनम् । 015a
अमन्यन्त बुधा बुद्ध्या समर्थं तन्निबोधने ॥ 015c
ऋषिरुग्रतपाश्चायं केशवस्य प्रियोऽधिकम् । 016a
पुराणज्ञश्च वाग्मी च कारणैस्तं च मेनिरे ॥ 016c
सर्वे तदर्हणं कृत्वा नारदं वाक्यमब्रुवन् ॥ 017ac
भवता तीर्थयात्रार्थं चरता हिमवद्गिरौ । 018a
दृष्टं वै यत्तदाश्चर्यं श्रोतॄणां परमं प्रियम् ॥ 018c
अतस्त्वमविशेषेण हितार्थं सर्वमादितः । 019a
प्रियार्थं केशवस्यास्य स भवान्वक्तुमर्हति ॥ 019c
तदा संयोजितः सर्वैर्ऋषिभिर्नारदस्तदा । 020a
प्रणम्य शिरसा विष्णुं सर्वलोकहिते रतम् । 020c
समुद्वीक्ष्य हृषीकेशं वक्तुमेवोपचक्रमे ॥ 020e
ततो नारायणसुहृन्नारदो वदतांवरः । 021a
शङ्करस्योमया सार्धं संवादमनुभाषत ॥ ॥ 021c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुरधिकद्विशततमोऽध्यायः ॥ 204 ॥