अध्यायः 203
कृष्णेन पुत्रार्थं कैलासे तपश्चरणम् ॥ 1 ॥ तत्र कृष्णदर्शनाय नारदादीनामागमनम् ॥ 2 ॥ कृष्णेन स्वमुखनिःसृताग्निना तत्पर्वतस्य भस्मीकरणम् ॥ 3 ॥ तथा पुनः प्रसन्नदृष्ट्या गिरेरुज्जीवनम् ॥ 4 ॥ तथा नारदादीन्प्रति तत्कारणकथनम् ॥ 5 ॥
भीष्म उवाच । 001
अयं नारायणः श्रीमान्पुत्रार्थे व्रतकाङ्क्षया । 001a
दीक्षितोऽभून्महाबाहुः पुरा द्वादशवार्षिकम् ॥ 001c
दीक्षितं केशवं द्रष्टुमभिजग्मुर्महर्षयः । 002a
सेवित्वा च महात्मानः प्रीयमाणं जनार्दनम् ॥ 002c
नारदः पर्वतश्चैव कृष्णद्वैपायनस्तथा । 003a
देवलः काश्यपश्चैव हस्तिकाश्यप एव च । 003c
जमदग्निश्च राजेन्द्र धौम्यो वाल्मीकिरेव च ॥ 003e
अपरेऽपि तपःसिद्धाः सत्यव्रतपरायणाः । 004a
शिष्यैरनुगताः सर्वे ब्रह्मविद्भिरकल्मषैः ॥ 004c
केशवस्तानभिगतान्प्रीत्या सम्परिगृह्य च । 005a
तेषामतिथिसत्कारं पूजनार्थं कुलोचितम् । 005c
देवकीतनयो हृष्टो देवतुल्यमकल्पयत् ॥ 005e
उपविष्टेषु सर्वेषु विष्टरेषु तदाऽनघ । 006a
विश्वस्तेष्व्नभितुष्टेषु केशवार्चनया पुनः ॥ 006c
परस्परं कथा दिव्याः प्रावर्तन्त मनोरमाः । 007a
विष्णोर्नारायणस्यैव प्रसादात्कथयामि ताः ॥ 007c
तस्यैव व्रतचर्यायां मुनिभिर्विस्मितं पुरा । 008a
यत्र गोवृषभाङ्कस्य प्रभावोऽभून्महात्मनः ॥ 008c
यत्र देवी महादेवमपृच्छत्संशयान्पुरा । 009a
कथयामास सर्वांस्तान्देव्याः प्रियचिकीर्षया ॥ 009c
उमापत्योश्च संवादं शृणु तात मनोरमम् । 010a
वर्णाश्रमाणां धर्मश्च तत्र तात समाहितः ॥ 010c
ऋषिधर्मश्च निखिलो राजधर्मस्च पुष्कलः । 011a
गृहस्थधर्मश्च शुभः कर्मपाकफलानि च ॥ 011c
देवगुह्यं च विविधं दानधर्मविधिस्तथा । 012a
विधानमत्र प्रोक्तं यद्यमस्य नियमस्य च ॥ 012c
यमलोकविधानं च स्वर्गलोकगतिस्तथा । 013a
प्राणमोक्षविधिश्चैव तीर्थचर्या च पुष्कला ॥ 013c
मोक्षधर्मविधानं च साङ्ख्ययोगसमन्वितम् । 014a
स्त्रीधर्मश्च स्वयं देव्या देवदेवाय भाषितः ॥ 014c
एवमादि शुभं सर्वं तत्र तात समाहितम् । 015a
रुद्राण्याः संशयप्रश्नो यत्र तात प्रवर्तते ॥ 015c
धन्यं यशस्यमायुष्यं धर्म्यं च परमं हितम् । 016a
पुष्टियोगमिमं दिव्यं कथ्यमानं मया शृणु ॥ 016c
इतिहासमिमं दिव्यं पवित्रं परमं शुभम् । 017a
सायं प्रातः सदा सम्यक् श्रोतव्यं च बुभूषता ॥ 017c
भीष्म उवाच । 018
ततो नारायणो देवः सङ्क्लिष्टो व्रतचर्यया । 018a
वह्निर्विनिःसृतो वक्त्रात्कृष्णस्याद्भुतदर्शनः ॥ 018c
अग्निना तेन महता निःसृतेन मुखाद्विभोः । 019a
पश्यतामेव सर्वेषां दग्ध एव नगोत्तमः ॥ 019c
मृगपक्षिगणाकीर्णः श्वापदैरपि सङ्कुलः । 020a
वृक्षगुल्मलताकीर्णो मथितो दीनदर्शनः ॥ 020c
पुनः स दृष्टमात्रेण हरिणा सौम्यचेतसा । 021a
स बभूव गिरिः क्षिप्रं प्रफुल्लद्रुमकाननः ॥ 021c
सिद्धचारणसङ्घैश्च प्रसन्नैरुपशोभितः । 022a
मत्तवारणसंयुक्तो नानापक्षिगणैर्युतः । 022c
तदद्भुतमचिन्त्यं च सर्वेषामभवद्भृशम् ॥ 022e
तं दृष्ट्वा हृष्टरोमाणः सर्वे मुनिगणास्तदा । 023a
विस्तिताः परमायत्ताः साध्यसाकुललोचनाः । 023c
न किञ्चिदब्रुवंस्तत्र शुभं वा यदि वेतरत् ॥ 023e
ततो नारायणो देवो मुनिसङ्घे तु विस्मिते । 024a
तान्समीक्ष्यैव मधुरं बभाषे पुष्करेक्षणः ॥ 024c
किमर्थं मुनिसङ्घेऽस्मिन्विस्मयोऽयमनुत्तमः । 025a
एतन्मे संशयं सर्वे याथातथ्येन नन्दिताः । 025c
ऋषयो वक्तुमर्हन्ति निश्चयेनार्थकोविदाः ॥ 025e
केशवस्य वचः श्रुत्वा तुष्टुवुर्मुनिपुङ्गवाः । 026a
भवान्सृजति वै लोकान्भवान्संहरति प्रजाः । 026c
भवाञ्शीतं भवानुष्णं भवान्सत्यं भवान्क्रतुः ॥ 026e
भवानादिर्भवानन्तो भवतोऽन्यन्न विद्यते । 027a
स्थावरं जङ्गमं सर्वं त्वमेव पुरुषोत्तम ॥ 027c
त्वत्तः सर्वमिदं तात लोकचक्रं प्रवर्तते । 028a
त्वमेवार्हसि तद्वक्तुं मुखादग्निविनिर्गमम् ॥ 028c
एतन्नो विस्मयकरं बभूव मधुसूदन । 029a
ततो विगतसन्त्रासा भवाम पुरुषोत्तम । 029c
यदिच्छेत्तत्र वक्तव्यं कुतोऽस्माकं नियोगतः ॥ 029e
श्रीभगवानुवाच । 030
नित्यं हितार्थं लोकानां भवद्भिः क्रियते तपः । 030a
तस्माल्लोकहितं गुह्यं श्रूयतां कथयामि वः ॥ 030c
असुरः साम्प्रतं कश्चिदहितो लोकनाशनः । 031a
मायास्त्रकुशलश्चैव बलदर्पसमन्वितः ॥ 031c
बभूव स मया बद्धो लोकानां हितकाम्यया । 032a
पुत्रेण मे वधो दृष्टस्तस्य वै मुनिपुङ्गवाः ॥ 032c
तदर्थं पुत्रमेवाहं सिसृक्षुर्वनमागतः । 033a
आत्मनः सदृशं पुत्रमहं जनयितुं व्रतैः ॥ 033c
एवं व्रतपरीतस्य तपस्तीव्रतया मम । 034a
अथात्मा मम देहस्थः सोग्निर्भूत्वा विनिःसृतः ॥ 034c
विनिःसृत्य गतो द्रष्टुं क्षणेन च पितामहम् । 035a
ब्रह्मणा मन्मथोऽनङ्गः पुत्रत्वेन प्रकल्पितः । 035c
अनुज्ञातश्च तेनैव पुनरायान्ममान्तिकम् ॥ 035e
एवं मे वैष्णवं तेजो मम वक्त्राद्विनिःसृतम् । 036a
तत्तेजसा निर्मथितः पुरतोऽयं गिरिः स्थितः ॥ 036c
दृष्ट्वा दाहं गिरेस्तस्य सौम्यभावतया मम । 037a
पुनः स दृष्टमात्रेण गिरिरासीद्यथा पुरा ॥ 037c
एतद्गुह्यं यथातथ्यं कथितं वः समासतः । 038a
भवन्तो व्यथिता येन विस्मिताश्च तपोधनाः ॥ 038c
ऋषीणामेवमुक्त्वा तु तान्पुनः प्रत्यभाषत ॥ ॥ 039ac
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्र्यधिकद्विशततमोऽध्यायः ॥203॥